कृच्छ्र
kṛcchraक्ली · neut.In 17 kośas: 21 synonym verses, 4 as a nānārtha head word, 32 as a meaning of another word.
genderक्लीneut.
मनसः कर्म संकल्पः स्यादथो शर्म निर्वृतिः ।सातं सौख्यं सुखं दुःखं त्वसुखं वेदना व्यथा ॥ १३७० ॥पीडा बाधार्तिराभीलं कृच्छ्रं कष्टं प्रसूतिजम् ।आमनस्यं प्रगाढं स्यादाधिः स्यान्मानसी व्यथा ॥ १३७१ ॥
अनुष्टुप्
genderक्लीneut.
पीडा बाधा व्यथा दुःखमामनस्यं प्रसूतिजम् ।स्यात्कष्टं कृच्छ्रमाभीलं त्रिष्वेषां भेद्यगामि यत् ॥ ३ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
genderक्लीneut.
अराप्यैन्द्री कालकर्णं स्यादलक्ष्मीश्च निरृतिः ।अकं दुःखमघं कल्कं कृच्छ्रं बाधनमित्यपि ॥ ३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 नि (wrong syllable)
genderक्लीneut.
स्वदायोकस्वरे कृच्छ्रं व्रते तु स्याच्छदे दलः ।कर्पूरस्वर्णयोश्चन्द्रः स्यादृक्षश्चन्द्रयोषिति ॥ १४० ॥
अनुष्टुप्
genderपुंक्लीm. n.
क्लीबे दुःखमकं कलाकल अमानस्याऽऽमनस्ये तथा-ऽऽभीलं स्याद्गहनं प्रगाधमुदितं कष्टं च कृच्छ्रं समम् ।तृप्रः सूतिजकक्षसत्रमसुखं पुंस्याधिरर्त्तिः स्त्रियाम्आबाधाऽपि च वेदना निगदिता पीडा च बाधा व्यथा ॥ ४८ ॥
शार्दूलविक्रीडितम्
genderक्लीneut.
उपवासोऽथ कृच्छ्रं स्याद्व्रतं सांतप[103a]नादिकम् ।संसि(शि)तं तु व्रतं सम्यक्तया निष्पादितं हि यत् ॥व्रते तु यत्नवान्नो(न्यो)हि संशितो भेद्यलिङ्गकः ।शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः ॥ ९१ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
स्थाल्यादीनां स्त्रीत्वं भवति । इयं स्थाली रन्धनभाण्डम् । सभा गोष्ठी । जरा वृद्धत्वम् । स्थली उच्चनिर्जलो देशः । वीची तरङ्गः । छविर्लावण्यम् । कटिः श्रोणी । मञ्जरी वृक्षस्य । वल्ली लता ।शिल्पं छर्दिस्त्वन्नं शमलमरकतपलाशकृच्छ्राणि ।मन्दिररिक्ते च नपुंसके मन्दुरां तु स्त्रियां विद्धि ॥ ८० ॥
metre not recognised
genderक्लीneut.
मृषालीकं मुधा मोघं विफलं वितथं वृथा ।विधुरं व्यसनं कष्टं कृच्छ्रं गहनमुद्धरेत् ॥ १८६ ॥
अनुष्टुप्
genderक्लीneut.
सौख्यं सातं तथा दुःखं पीडा स्यादर्तिवेदने ।कष्टं कृच्छ्रं व्यथा बाधा स्यादाभीलं तथाशुभम् ॥ २६० ॥
अनुष्टुप्
genderक्लीneut.
दायस्वौ स्वापतेयार्थे व्रते कृच्छ्रोऽपि दृश्यते ।पिटकायां पिटो मांसे जङ्गलः पुंनपुंसकः ॥ १२६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
दुःखं कष्टं व्यथा पीडा वेदना यातनासुखम् ।कृच्छ्रं बाधार्तिराभीलं विधुरं व्यसनं विपत् ॥ ९७ ॥
अनुष्टुप्
genderक्लीneut.
उपवासो निगद्येत व्रते भोजनरोधके ।कृच्छ्रं चान्द्रायणं सान्तपनं पापविनाशके ॥ १४०५ ॥
अनुष्टुप्
genderक्लीneut.
अर्त्तिः कृच्छ्रं तथा कष्टं वैमनस्यं प्रयुज्यते ।आभीलं चापि नामास्ति स्थादाऽऽधिर्मानसी व्यथा ॥ २४९३ ॥
अनुष्टुप्
genderक्लीneut.
पीडा कष्टं व्यथा दुःखं अर्तिरार्तिश्च पीडनम् ।आबाधा बाधनं बाधा कृच्छ्रं दुःखं प्रसूतिजम् ॥
अनुष्टुप्
genderक्लीneut.
सर्वं कृच्छमिति ख्यातं तद्भेदा बहवोऽपि च ।प्रायः पुमानशने सन्न्यासवति कथ्यते ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
आभीलकष्टकृच्छ्राणि भेद्यवर्तिनि चेत् त्रिषु ।आशरकौणपकर्बुरराक्षसरात्रिंचरासृक्पाः ॥ १२० ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
प्रसूतिजममानस्यं कृच्छ्रं कष्टं कलाकलम् ॥ ७३ ॥
genderक्लीneut.
यातना कारण दुःखं त्वामनस्यं प्रसूतिजम् ।स्यात् कष्टं कृच्छ्रमाभीलं त्रिष्वेषां तद्वदर्थकाः ॥ ३९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ण (wrong syllable)
genderक्लीneut.
तपो व्रतोऽस्त्री कृच्छ्रोऽस्त्री तच्च चान्द्रायणादिकम् ।चान्द्रायणं चन्द्रव्रतं प्राजापत्यं तु कृच्छ्रकम् ॥ १३६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 न्द्र (wrong syllable)
genderपुंक्लीm. n.
कृच्छ्रं दुःखं प्रायश्चित्तं सरः स्थाणुः सरो गतिः ।ऐन्द्रिः काके जयन्ते च पुरुर्भूरिपरागयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्रा (wrong syllable)
कृच्छ्रं तथा सान्तपनादिकेऽस्त्रीचन्द्रस्तु कम्पिल्लहिमत्विषोर्ना ।जले तु षण्ढे घनसारहेम्नो-र्न स्त्रीन्द्र आदित्यशचीशयोः स्यात् ॥ ५१ ॥
उपजातिः
तपोमात्रे तथा प्राजापत्यसान्तपनादिषु ।कृत्स्नं जले क्ली सर्वस्मिंस्त्रिः कृकस्तु मृगान्तरे ॥ २७५ ॥
अनुष्टुप्
doubtful
कृच्छ्र as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् कष्टकष्टे तु कृच्छ्रगहने दक्षामन्दागदेषु तु ॥ ३९ ॥ पटुर्द्वौ वाच्यलिङ्गौ च नीलकण्ठः शिवेऽपि च । Amarakośa 3.3.78
- नामलिङ्गानुशासनम् प्रगाढभृशप्रतिज्ञयोर्बाढं प्रगाढं भृशकृच्छ्रयोः ॥ ४४ ॥ Amarakośa 3.3.44
- नामलिङ्गानुशासनम् अत्ययअत्ययोऽतिक्रमे कृच्छ्रे दोषे दण्डेऽप्यथापदि ॥ १५० ॥ Amarakośa 3.3.150
- नामलिङ्गानुशासनम् तपस्छन्दः पद्येऽभिलाषे च तपः कृच्छ्रादिकर्म च । Amarakośa 3.3.452
- हलायुधकोशः (अभिधानरत्नमाला) अत्ययकाले कल्पेऽपि विधिर्घनाघनः शक्रवर्षुकाम्बुदयोः । अत्ययशब्दः प्राज्ञैः कृच्छ्रे चातिक्रमे च निर्दिष्टः ॥ ८२६ ॥ Abhidhānaratnamālā (Halāyudha) 5.826
- धरणिकोश कष्टम्लिष्टं म्लानेऽस्पष्टवचे रिष्टं स्यादशुभं शुभम् । दिष्टं दैवे च काले च कष्टं गहनकृच्छ्रयोः ॥ Dharaṇikośa 10.1.3
- धरणिकोश प्रगाढसम्मूढो दमितेऽप्यूढे उदूढः पृथुलोढयोः । प्रगाढः स्यादृढे कृच्छ्रेऽध्यारूढोऽधिकरूढयोः ॥ Dharaṇikośa 13.1.2
- धरणिकोश अत्ययप्रणयः प्रेमणि ख्यातो याच्ञाविश्रम्भयोरपि । अत्ययोऽतिक्रमे कृच्छ्रे दोषे च नाशदण्डयोः ॥ Dharaṇikośa 25.2.21
- धरणिकोश आभीलधूली संख्यान्तरे पांसौ दोला यानं च सीविका । आभीलं भीषणे कृच्छ्रे कीलालमसृगम्बुनोः ॥ Dharaṇikośa 27.1.5
- कोषकल्पतरु प्रत्यवतिकृच्छ्रदोषातिक्रमेषु दण्डने प्रतितः पुनः । प्रसिद्धौ शपथे ज्ञाने विश्वासस्य च हेतुषु ॥ २५ ॥ Koṣakalpataru 3.5.25
- कोषकल्पतरु कष्टकष्टं तु दुरवगाहे कृच्छ्रे स्याद्दुःखशब्दे च । इष्टं संस्कृतियोगे यागे यागक्रियायां च ॥ १० ॥ Koṣakalpataru 6.10.10
- कोषकल्पतरु पावनमृत्यावथो धावनमस्ति शुद्धौ त्वरागतौ योषिति कण्टकायाम् । स्यात्पावनं पाथसि किं च कृच्छ्रे * पावके व्यासगतं तथैव ॥ ४० ॥ Koṣakalpataru 6.21.40
- कोषकल्पतरु अत्ययविश्वासे शपथे प्रसिद्धिविलयो रन्ध्रे त[था] कारणे ज्ञानाचारविधीयमानविषयेऽधीने तथा प्रत्ययः । दण्डोत्पातविनाशदोष उदितः कृच्छ्रे तथातिक्रमे विद्वद्भिर्गदितोऽत्ययोऽथ हृदयाकूताश्रयेष्वाशयः ॥ ६१ ॥ Koṣakalpataru 6.26.61
- कोषकल्पतरु आभीलनौकाखनित्रे नरि वङ्गलः स्या- दोजस्विनोश्च प्रधने प्रदिष्टः । आभीलमाहुर्भयदे च कृच्छ्रे नाभीलमाहुः प्रवराङ्गनायाः ॥ ४६ ॥ Koṣakalpataru 6.28.46
- कोषकल्पतरु षूश्रेष्ठे तु षः स्त्रीसहिते च शस्तः । षूर्गर्भमुक्तौ कथितश्च कृच्छ्रे ॥ ३३ ॥ Koṣakalpataru 6.30.33
- कोषकल्पतरु तपस्पुमानदन्तोऽथ तपोऽपि धर्मे दर्भे च कृच्छ्रादिषु लोकभेदे । माघे तु न स्त्री शिशिरे तु पुंसि तपस्तथा ग्रीष्मऋतौ तु पुंसि ॥ ६ ॥ Koṣakalpataru 6.31.6
- नानार्थार्णवसंक्षेप कष्टचापाग्रेषु त्रिषु पुनर्भृशे कष्टं तु भेद्यवत् । कृच्छ्रे च गहने चैतत् स्यादसत्त्वे नपुंसकम् ॥ १५९ ॥ Nānārthārṇavasaṃkṣepa 2.5.159
- नानार्थार्णवसंक्षेप तपस्तक्षा दीपे ज्वरे सूर्य आतपे क्ली तु पुत्रयोः । तपस्तु नपि कृच्छ्रादौ धर्मसन्तापयोरपि ॥ ५१७ ॥ Nānārthārṇavasaṃkṣepa 2.5.517
- नानार्थार्णवसंक्षेप अत्ययअतिक्रमे च कृच्छ्रे च मृग्यं त्वर्थान्तरं बुधैः । 'नानात्ययानां वृक्षाणां' कामा 'नानात्यया' इति ॥ ३ ॥ Nānārthārṇavasaṃkṣepa 3.2.3
- नानार्थार्णवसंक्षेप नाभीलअजयो नाभिगर्ताण्डे रभसस्त्वाह शब्दवित् । गन्धर्वकृच्छ्रयोः स्यात्तु निमित्तं हेतुलक्षयोः ॥ ४१ ॥ Nānārthārṇavasaṃkṣepa 3.3.41
- नानार्थार्णवसंक्षेप प्रगाढदग्धेऽप्यथ प्रगाढः स्याद् भृशे कृच्छ्रेऽप्यथ स्मृतः । प्रतीक्ष्यः प्रतिपाल्ये च पूज्ये चाथ प्रणाय्यवाक् ॥ ३७ ॥ Nānārthārṇavasaṃkṣepa 3.4.37
- नानार्थार्णवसंक्षेप प्राजापत्यद्वादशाहकृते कृच्छ्रे गर्भाधानाख्यसस्कृ(ते?तौ) । प्रजापतित्वे पत्यन्ताद् यक्प्रत्ययविधानतः ॥ ३८० ॥ Nānārthārṇavasaṃkṣepa 6.380
- परमानन्दीयनाममाला अत्ययअजिरं दर्दुरे काये विषये प्राङ्गणे तथा । अत्ययोऽतिक्रमे दोषे कृच्छ्रे दण्डविनाशयोः ॥ २४ ॥ Paramānandīyanāmamālā 5.1.24
- परमानन्दीयनाममाला कष्टकूर्चो भ्रुवोऽन्तरे दम्भे श्मश्रुण्यपि तथोच्यते । कृच्छ्रे च गहने कष्टं कृष्टिः कर्षणधीमतोः ॥ १०६ ॥ Paramānandīyanāmamālā 5.7.106
- शब्दरत्नावली कष्टकटुकार्ये सुगन्धौ च मत्सरे च खरे त्रिषु । कष्टं कृच्छ्रे च गहने क्रुष्टं रुदितशब्दयोः ॥ Śabdaratnāvalī 7.11.5
- शब्दरत्नावली प्रगाढप्रमीढो मूत्रिते मेघे प्रगाढो दृढकृच्छ्रयोः । प्ररूढो जठरे बद्धमूले जातप्रवृद्धयोः । आरूढः(?) सम्बले वहणौ भुग्ने सद्योजातेऽनुपस्थिते ॥ Śabdaratnāvalī 7.14.7
- शब्दरत्नावली पावनपावनं सलिले कृच्छे व्यासपावकयोः पुमान् । पाचनं दशमूल्यादौ प्रायश्चित्ते पुमानशुचौ ॥ Śabdaratnāvalī 7.20.58
- शब्दरत्नावली तापतापः कृच्छे च सन्तापे तापी नद्यन्तरे स्त्रियाम् । त्रपा स्त्री कुलटायाञ्च स्याल्लज्जाकुलकीर्तिषु । दर्पः पुमानहङ्कारे कस्तूर्यां दर्पकेऽपि च ॥ Śabdaratnāvalī 7.21.8
- शब्दरत्नावली अत्ययअनयो व्यसने दैवे विपत्त्यशुभयोरपि ॥ अत्ययोऽतिक्रमे दोषे विनाशे दण्डकृच्छ्रयोः । अवध्यमवधार्हे स्यादनर्थकवचस्यपि ॥ अव्ययो ना हरौ शब्दभेदेऽस्त्री निर्व्यये त्रिषु । अहार्यः पुंसि शैले स्यादहर्त्तव्येऽभिधेयवत् ॥ अभिख्यानाम्नि शोभायां यशस्याख्यान इत्यपि । अभया स्त्री हरितक्यां वीरणेऽपि च न द्वयोः ॥ निर्भये वाच्यलिङ्गं स्यात्प्रसादेऽपि च कुत्रचित् । अगस्त्यो वङ्गसेनाख्यतरौ कुम्भोद्भवेऽपि च ॥ आशयः स्यादभिप्रायाधारयोः पनसेऽपि च । आत्रेयो ना मुनौ पुष्पवतीनद्योरपि स्त्रियाम् ॥ आम्नायः पुंसि वेदे स्यादुपदेशे कुलक्रमे । उदयस्तून्नतौ दीप्तौ मङ्गले पूर्वपर्वते ॥ उपायः स्यादुपपन्तौ सामभेदादिके पुमान् । ऊर्णायुः क्षणभङ्गे ना मेषे च मेषकम्बले ॥ Śabdaratnāvalī 7.26.38
- शब्दरत्नाकर अत्ययस्त्री कलत्रे केसरिणो मालिन्ये वाच्यलिङ्गकम् । प्रत्ययोऽतिक्रमे दण्डे मरणे कृच्छ्रदोषयोः ॥ २०३४ ॥ Śabdaratnākara 4.1.2034
- त्रिकाण्डशेष आभीलआलिः सेतुः सखी यज्वा शौण्डिकश्चाऽसुतीवलः । आभीलं भीषणे कृच्छ्रे इला भूवाग्बुधाङ्गनाः ॥ ३८२ ॥ Trikāṇḍaśeṣa 3.3.382
- वैजयन्ती अत्ययअविनौ विहगाध्वर्यू अरत्नी हस्तकूर्परौ । अत्ययोऽतिक्रमे कृच्छ्रे मरणे दण्डदोषयोः ॥ १ ॥ Vaijayantī 7.1.1