आधि
ādhiपुं · masc.In 17 kośas: 22 synonym verses, 13 as a nānārtha head word, 5 as a meaning of another word.
genderपुंmasc.
प्रतिभूर्लग्नकः साक्षी स्थेय आधिस्तु बन्धकः ॥ ८८२ ॥
अनुष्टुप्
genderपुंmasc.
मनसः कर्म संकल्पः स्यादथो शर्म निर्वृतिः ।सातं सौख्यं सुखं दुःखं त्वसुखं वेदना व्यथा ॥ १३७० ॥पीडा बाधार्तिराभीलं कृच्छ्रं कष्टं प्रसूतिजम् ।आमनस्यं प्रगाढं स्यादाधिः स्यान्मानसी व्यथा ॥ १३७१ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
आधिस्तु मानसी पीडा वाञ्छितोऽर्थो मनोरथः ।खमक्षमिन्द्रियं स्रोतो हृषीकं करणं स्मृतम् ॥ ५३५ ॥
अनुष्टुप्
genderपुंmasc.
सत्यंकारोऽपि पुंसि स्यादथाधिः पुंसि लग्नकः ।प्रतिभूकः प्रतिस्थेयः साक्षी स्यादथ विक्रयः ॥ ४८६ ॥
अनुष्टुप्
genderपुंmasc.
अत्यर्थं लालसः सोऽस्त्री पुंस्याधिस्तु मनोव्यथा ।आधी स्यादवहित्था तु स्यादाकारस्य गोपनम् ॥ १३९ ॥
अनुष्टुप्
genderपुंmasc.
प्रमादोऽनवधानत्वं पुंस्याधिः स्यान्मनोव्यथा ।अभिप्रायाशयच्छन्दा आकूतच्छन्दसी मतम् ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
क्लीबे दुःखमकं कलाकल अमानस्याऽऽमनस्ये तथा-ऽऽभीलं स्याद्गहनं प्रगाधमुदितं कष्टं च कृच्छ्रं समम् ।तृप्रः सूतिजकक्षसत्रमसुखं पुंस्याधिरर्त्तिः स्त्रियाम्आबाधाऽपि च वेदना निगदिता पीडा च बाधा व्यथा ॥ ४८ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
आधिः पुंसि मनस्तापोऽथोन्मादश्चित्तविभ्रमः ।मरणं चेतनानाशो मूर्च्छाभेदो बुधैर्मतः ॥ १६१ ॥
अनुष्टुप्
genderपुंmasc.
स्थेयः साक्षी विशेष्यघ्नः पुंस्याधिर्बन्धकः समौ ।निमेयस्तु परावर्तो नैमेयो निमयोऽपि सः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
घु इति । "दाधा घ्वदाबि"ति षण्णां धातूनां घुसञ्ज्ञा विहिता । सह किना वर्त्तत इति सकिः । "उपसर्गे घोः कि"रित्यादिना विहितः किप्रत्ययो गृह्यते । उपसर्गा प्रादयः । उपसर्गाः क्रियायोग इति । उपसर्गः पूर्वो यस्य स एव पुंल्लिङ्गो भवति । यथा अयमादिः[दि] । निधिः प्रणिधिः आधिः सन्निधिः इत्येवमादयः । "अन्योपपदकर्मण्यधिकरणे चे"ति किप्रत्ययः । अयमम्भोधिः जलधिः उदधिः तोयधिः शरधिः इत्येवमादयः । इषुशब्दोपपदे वा स्त्री । इयमिषुधिः । अयमिषुधिः तूणीरम् । येभ्यो धातुभ्यो नञ्प्रत्ययः । तान् पुंस्युक्तान् विद्धि जानीहि । याच्ञशब्दं वर्ज्जयित्वा । यज याच यत विच्छ प्रच्छ । रक्षो नङिति नङ्प्रत्ययः ।अयं यज्ञः यत्नः विष्णुः । प्रश्नः । रक्ष्णः । एवं तर्हि याञ्चशब्दस्यापि नङन्तत्वान्नपुंस्त्वं स्यात् । इत्यत आह । याञ्चां विनेति । स्त्र्यधिकारात्स्त्री याञ्चार्थना ।तनुकायशरीराणि स्त्रीपुन्नपुंसकेषु जानीहि ।दधिसक्थ्यस्थीनि स्युर्नपुंसके स्त्री तु कक्षा स्यात् ॥ २३ ॥
metre not recognised
genderपुंmasc.
आधिर्मनोभवा पीडा आमनस्यं प्रगाढतः ।अत्यन्तपीडने चैव सपत्राकृतिरुच्यते ॥ २६१ ॥
अनुष्टुप्
genderपुंmasc.
वीप्सा तर्षश्चाभिलाषे स महान् लालसा द्वयोः ।उपाधिर्ना धर्मचिन्ता पुंस्याधिर्मानसी व्यथाः ॥ १७० ॥
अनुष्टुप्
genderपुंmasc.
विपत्तिरापद्दुःखाधिः कुणपः शवकः शवः ।प्रग्रहोपग्रहौ बन्धः कारा बन्धनमन्दिरम् ॥ २४२ ॥
अनुष्टुप्
genderपुंmasc.
शोकः शुक् शोचनं खेदः पश्चात्तापोऽप्यनिर्वृतिः ।विषाद आधिरुद्वेगश्चिन्ता कम्पश्च वेपथुः ॥ ९६ ॥
अनुष्टुप्
genderपुंmasc.
आधिश्चाथ प्रमीला स्यात् तन्द्रा तन्द्रिश्च तामसी ।तन्द्री नन्दीमुखी निद्रा श्वासहेतिश्च संलयः ॥ ४६० ॥
अनुष्टुप्
genderपुंmasc.
आधिस्तु बन्धको लोके तत्र स्याद्यत्र रक्ष्यते ॥ १४८० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
अर्त्तिः कृच्छ्रं तथा कष्टं वैमनस्यं प्रयुज्यते ।आभीलं चापि नामास्ति स्थादाऽऽधिर्मानसी व्यथा ॥ २४९३ ॥
अनुष्टुप्
genderपुंmasc.
पुमान् उपाधिर्विज्ञेयो धर्मचिन्ता तु या भवेत् ।आधिः पुंसि समाख्यातो मानसी या व्यथा भवेत् ॥
अनुष्टुप्
genderपुंmasc.
अङ्गीकारोऽभ्युपगमो नियमश्च प्रतिश्रवः ।आधिर्ना मानसी पीडा समाधिर्धर्मचिन्तनम् ॥ २७० ॥
अनुष्टुप्
genderपुंmasc.
वस्नोऽर्घोऽवक्रयो मूल्यं विक्रयः प्रक्रयः पणः ।विपणः पणयस्त्वाधिर्बन्धोऽथायो धनागमः ॥ १५०३ ॥
अनुष्टुप्
genderपुंmasc.
बुद्धौ चित्ते धृतावार्या दुर्गामात्रोस्तथैव च ।आजिर्युद्धे समक्ष्मायामाधिर्मानसवेदना ॥ ५३ ॥
अनुष्टुप्
meaningsमानसवेदना
अलङ्कारेऽपि चाबद्धः प्रत्याशाऽप्याधिरुच्यते ।कुटुम्बव्यापृते धर्मचिन्तायां च विशेषणे ॥ २१५ ॥
अनुष्टुप्
meaningsप्रत्याशा
आधि as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप बन्धअन्नसङ्ग्रामयोः पृक्षं समाम्नाये समामनत् । प्रैषस्तु प्रेषणे मर्दे बन्धस्त्वाधौ च बन्धने ॥ ८१ ॥ Nānārthārṇavasaṃkṣepa 2.2.81
- नानार्थार्णवसंक्षेप बन्धकनिघण्टुकारो रभसो बन्धरि त्वेष भेद्यवत् । आधौ तु बन्धकं क्लीबे बलूरस्तूपले पुमान् ॥ १२४० ॥ Nānārthārṇavasaṃkṣepa 4.1240
- शब्दरत्नावली बन्धकबन्धको ना भवेदाधौ पुंश्चलीभ्यश्च बन्धकी । बहुको जलखाते स्यात् दात्यूहे कर्कटे रवौ ॥ Śabdaratnāvalī 7.1.111
- शब्दरत्नाकर बन्धआधिबन्धनयोर्बन्धो बन्धुर्बान्धवकामयोः । बलो रामे दैत्यभैदे काके बलवति त्रिषु ॥ १९६६ ॥ Śabdaratnākara 4.1.1966
- वैजयन्ती बन्धश्वेतार्के डाडिमे फालो बन्धाः सीसाधियन्त्रणाः । बलिः पूजोपहारे च दैत्यभेदे करेऽपि च ॥ ३९ ॥ Vaijayantī 6.1.39