यातना
yātanāस्त्री · fem.In 14 kośas: 13 synonym verses, 16 as a meaning of another word.
आजूर्विष्टिर्यातना तु कारणा तीव्रदेवना ॥ १३५८ ॥
metre not recognised
genderस्त्रीfem.
औपम्यमनुकारोऽनुहारः साम्यं तुलोपमा ।कक्षोपमानमर्चा तु प्रतेर्मा यातना निधिः ॥ १४६३ ॥छाया छन्दः कायो रूपं बिम्बं मानकृती अपि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
genderस्त्रीfem.
विष्टिराजूः कारणा तु यातना तीव्रवेदना ।
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
यातना कारणा प्रोक्ता कारा बन्धनमुच्यते ।आबाधा वेदना दुःखमर्तिः पीडा व्यथा तथा ॥ ६२६ ॥
अनुष्टुप्
genderस्त्रीfem.
यातना कारणा दुःखमामनस्यं प्रसूतिजम् ।स्यात्कष्टं कृच्छमाभीलं क्लेशं दुःसहमित्यपि ॥ ८१ ॥
अनुष्टुप्
genderस्त्रीfem.
विष्टिराजूः कारणा तु यातना तीव्रवेदना ।याचनाथामनस्यं स्यादामानस्य प्रसूतिजम् ॥ ५ ॥
अनुष्टुप्
genderस्त्रीfem.
निरयो दुर्गतिः स्त्री स्याद्विष्टिस्त्वाजूः स्त्रियामुभे ।कारणा यातना तीव्रवेदना च समा इमाः ॥ २ ॥
अनुष्टुप्
genderस्त्रीfem.
विष्टिराजूर्यातना तु कारणा तीव्रवेदना ।पुंसलिङ्गस्तथा नागलोकः पातालमुच्यते ॥ २५२ ॥
अनुष्टुप्
genderस्त्रीfem.
दुःखं कष्टं व्यथा पीडा वेदना यातनासुखम् ।कृच्छ्रं बाधार्तिराभीलं विधुरं व्यसनं विपत् ॥ ९७ ॥
अनुष्टुप्
genderस्त्रीfem.
कारणा यातना तीव्रवेदना सदृशार्थिका ॥ २४६६ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
विष्टिराजूः स्त्रियां द्वे तु वेगारकसमाह्वये ।यातना कारणा तीव्रवेदनाऽतिव्यथापि च ॥
अनुष्टुप्
genderस्त्रीfem.
अलक्ष्मीनिर्ऋतिज्येष्ठा विष्टिराजूरथ व्यथा ।पीडा बाधा कारणा स्याद्यातना तीव्रवेदना ॥ ११९ ॥
अनुष्टुप्
genderस्त्रीfem.
यातना कारण दुःखं त्वामनस्यं प्रसूतिजम् ।स्यात् कष्टं कृच्छ्रमाभीलं त्रिष्वेषां तद्वदर्थकाः ॥ ३९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ण (wrong syllable)
genderस्त्रीfem.
यातना as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् कारिकाकारिका यातनावृत्त्योः कर्णिका कर्णभूषणे ॥ १५ ॥ करिहस्तेऽङ्गुलौ पद्मबीजकोश्यां त्रिषूत्तरे । वृन्दारकौ रूपिमुख्यावेके मुख्यान्यकेवलाः ॥ १६ ॥ Amarakośa 3.3.16
- हलायुधकोशः (अभिधानरत्नमाला) साधनउपकरणे करणे च द्रविणे लिङ्गे च यातनायां च । सेनाङ्गे संसिद्धौ साधनशब्दप्रयोगः स्यात् ॥ ८६६ ॥ Abhidhānaratnamālā (Halāyudha) 5.866
- धरणिकोश कारिकाकारिका विवृत्तिश्लोके यातनायां कृतौ तथा । नापितादिकशिल्पे च कारिका सद्भिरिष्यते ॥ Dharaṇikośa 1.3.16
- कोषकल्पतरु कारिकाकारिका विवृतियातनानटी- कारुकर्मसु च वर्णका पटे । लेखिनीभिदि च नीलिका पुनः सिन्धुवारगदनीलिनीष्वपि ॥ १४ ॥ Koṣakalpataru 6.1.14
- कोषकल्पतरु कारणनिर्वाणं गजमज्जने स्तिमितके मुक्तौ च निर्वर्तने कुर्वाणस्त्रिषु कारके भृतिभुजि प्रोन्मृष्टपर्णे पुनः । दौर्वीणं हरितारसे त्रिषु पुनः स्याद्वर्जने वारणं नागे पुंस्यथ यातनाकरणयोर्हेतौ वधे कारणम् ॥ ३२ ॥ Koṣakalpataru 6.15.32
- कोषकल्पतरु संततिविपत्तिरापत्तिरिहापदि द्वे । स्तो यातनायामथ संततिः स्त्री । वंशे सुतादौ च परंपरायां स्यात्संमतिः स्वीकृतिवाञ्छयोश्च ॥ ३३ ॥ Koṣakalpataru 6.16.33
- नानार्थार्णवसंक्षेप कर्मन्पुण्ये पापे क्रियाशिल्पयातनासु द्रुमान्तरे । भव्यसंज्ञे कारके च कर्त्रीप्सिततमादिके ॥ १७८ ॥ Nānārthārṇavasaṃkṣepa 2.5.178
- नानार्थार्णवसंक्षेप कारिकाकारिका स्त्री यातनायां व्याख्याश्लोके कृतावपि । क्रियानिर्वतके तु क्ली कर्मादौ त्रिस्तु कर्तरि ॥ ४६२ ॥ Nānārthārṇavasaṃkṣepa 4.462
- नानार्थार्णवसंक्षेप साधनसेनाङ्गे यातनायां च क्लीबं स्यादपुमान् पुनः । निर्वर्तनायां मन्त्रादेरभीष्टफलदीकृतौ ॥ १९४४ ॥ Nānārthārṇavasaṃkṣepa 4.1944
- शब्दरत्नावली कारिकानिर्मोके कवचे चोले कञ्चुकी त्वोषधिभिदि । कारिका स्यात्तु नर्तक्यां यातनाशिल्पयोरपि ॥ Śabdaratnāvalī 7.1.46
- शब्दरत्नावली कारणावराट्यामपि गुञ्जायां काकनीत्यपि कुत्रचित् । कारणं करणे हेतौ यातनायान्तु कारणा ॥ Śabdaratnāvalī 7.15.30
- शब्दरत्नावली विपत्तिविदितञ्चाप्युपगमे ज्ञाते स्यादभिधेयवत् । विपत्तिर्यातनायाञ्च घातने चापदि स्त्रियाम् ॥ Śabdaratnāvalī 7.16.139
- शब्दरत्नाकर कारिकाकृतौ विवरणे श्लोके यातनायां च कारिका । कालिका घनजालेऽपि कमठो मुनिकूर्मयोः ॥ २०७० ॥ Śabdaratnākara 4.1.2070
- शब्दरत्नाकर साधनमारणे यातनायां च संस्थानं मरणे स्थितौ । वाद्यं वंशादिके क्लीबे सच्छिद्रे सुषिरं त्रिषु ॥ २१८० ॥ Śabdaratnākara 4.1.2180
- वैजयन्ती कारिकाकारिका यातनायां स्याच्छ्लोके विवरणे कृतौ । कूर्चिका मस्तुपिण्डेऽपि सूचितूलिकयोरपि ॥ ५ ॥ Vaijayantī 7.2.5
- वैजयन्ती साधनसेनांगे यातनायाञ्च सेवनं स्यूतिसेवयोः । मृत्यौ समाप्तौ संस्थानं सन्निवेशे चतुष्पथे ॥ ३७ ॥ Vaijayantī 7.3.37