कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पीडा

pīḍāस्त्री · fem.

In 14 kośas: 12 synonym verses, 4 as a nānārtha head word, 23 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1371 · p. 52
मनसः कर्म संकल्पः स्यादथो शर्म निर्वृतिः ।सातं सौख्यं सुखं दुःखं त्वसुखं वेदना व्यथा ॥ १३७० ॥पीडा बाधार्तिराभीलं कृच्छ्रं कष्टं प्रसूतिजम् ।आमनस्यं प्रगाढं स्यादाधिः स्यान्मानसी व्यथा ॥ १३७१ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नरकवर्गः Amarakośa 1.9.3
पीडा बाधा व्यथा दुःखमामनस्यं प्रसूतिजम् ।स्यात्कष्टं कृच्छ्रमाभीलं त्रिष्वेषां भेद्यगामि यत् ॥ ३ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.626 · p. 71
यातना कारणा प्रोक्ता कारा बन्धनमुच्यते ।आबाधा वेदना दुःखमर्तिः पीडा व्यथा तथा ॥ ६२६ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नारकादिप्रकाण्डः Kalpadrukośa 1.17.4 · p. 367
स्यात्पीडनं विडहनं पीडा पीडिश्च पीड्यपि ।अतिरार्त्तिर्व्यथा पीडा बाधौ पुंसि स्त्रियामुभौ ॥ ४ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ परमात्मवर्गः Koṣakalpataru 1.1.48 · p. 6
क्लीबे दुःखमकं कलाकल अमानस्याऽऽमनस्ये तथा-ऽऽभीलं स्याद्गहनं प्रगाधमुदितं कष्टं च कृच्छ्रं समम् ।तृप्रः सूतिजकक्षसत्रमसुखं पुंस्याधिरर्त्तिः स्त्रियाम्आबाधाऽपि च वेदना निगदिता पीडा च बाधा व्यथा ॥ ४८ ॥
शार्दूलविक्रीडितम्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.260 · p. 84
सौख्यं सातं तथा दुःखं पीडा स्यादर्तिवेदने ।कष्टं कृच्छ्रं व्यथा बाधा स्यादाभीलं तथाशुभम् ॥ २६० ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संयोगादिवर्गः Śāradīyākhyanāmamālā 2.2.97 · p. 29
दुःखं कष्टं व्यथा पीडा वेदना यातनासुखम् ।कृच्छ्रं बाधार्तिराभीलं विधुरं व्यसनं विपत् ॥ ९७ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2492 · p. 404
दुःख व्यथाऽसुखं पीडा बाधा बाघश्च वेदना ।आमनस्यममानस्यं प्रगाढञ्च प्रसूतिजम् ॥ २४९२ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.30 · p. 38
पीडा कष्टं व्यथा दुःखं अर्तिरार्तिश्च पीडनम् ।आबाधा बाधनं बाधा कृच्छ्रं दुःखं प्रसूतिजम् ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.33 · p. 310
विषाणी वीरणीपूगी चज्जूरी च नदादिषु ।पुटिकेन्मालिकाद्यास्तु स्त्रियामादादिषु स्मृता ।लक्ष्मीर्वाणी भवानी रजनिजविरतिकान्तिसीता जुगुप्सा ।चिन्ताऽसूयाविभूतिद्युतितरणिमतिक्षेपणीविष्टि पीडा ।तन्त्रीस्तन्द्री विपञ्चिद्रुणिविपणिकृपावेदनामुक्तिविद्या ।ज्योत्स्ना वेश्या कलावाक्सरणिविषहरीहूतिकाकूप्रपाश्च ।…वदितिकथादेवताद्योदिवौ च ।ढक्काव्रीडावहित्थासुरभिकुमुदिनीपद्मिनीपूर्णिमाश्च ।ताराश्रेणी च वीथीद्युतिरवनि नदीपुष्करिण्यम्बिकोम्रा ।निद्राहेला च लीलायुवतिरनुमतिर्दिक्कुहुः पक्षतिश्च ॥
अनुष्टुप्two metres in one verse
विषाणीस्त्रीवीरणीस्त्रीपूगीस्त्रीखर्जूरीस्त्रीपुटिकास्त्रीमालिकास्त्रीलक्ष्मीस्त्रीवाणीस्त्रीभवानीस्त्रीरजनिस्त्रीविरतिस्त्रीकान्तिस्त्रीसीतास्त्रीजुगुप्सास्त्रीचिन्तास्त्रीअसूयास्त्रीविभूतिस्त्रीद्युतिस्त्रीतरणिस्त्रीमतिस्त्रीक्षेपणीस्त्रीविष्टिस्त्रीपीडास्त्रीतन्त्रीस्त्रीतन्द्रीस्त्रीविपञ्चिस्त्रीद्रुणिस्त्रीविपणिस्त्रीकृपास्त्रीवेदनास्त्रीमुक्तिस्त्रीविद्यास्त्रीज्योत्स्नास्त्रीवेश्यास्त्रीकलास्त्रीवाच्स्त्रीसरणिस्त्रीविषहरीस्त्रीहूतिस्त्रीकाकूस्त्रीप्रपास्त्रीकथास्त्रीदेवतास्त्रीद्योस्त्रीदिव्स्त्रीढक्कास्त्रीव्रीडास्त्रीअवहित्थास्त्रीसुरभिस्त्रीकुमुदिनीस्त्रीपद्मिनीस्त्रीपूर्णिमास्त्रीतारास्त्रीश्रेणीस्त्रीवीथीस्त्रीअवनिस्त्रीनदीस्त्रीपुष्करिणीस्त्रीअम्बिकास्त्रीनिद्रास्त्रीहेलास्त्रीलीलास्त्रीयुवतिस्त्रीअनुमतिस्त्रीदिश्स्त्रीकुहूस्त्रीपक्षतिस्त्री
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.119 · p. 16
अलक्ष्मीनिर्ऋतिज्येष्ठा विष्टिराजूरथ व्यथा ।पीडा बाधा कारणा स्याद्यातना तीव्रवेदना ॥ ११९ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.187 · p. 98
सख्यं साप्तपदीनं स्यात् कौतुकं तु कुतूहलम् ।कौतूहलं विनोदश्च दुःखं पीडाव्यथार्तयः ॥ १८७ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ डान्ताः Koṣakalpataru 6.12.80 · p. 190
पात्रे वाजिविभूषणे च तटिनीपात्रेऽथ गोभूबुध-स्त्रीवाणीमखपात्रभित्स्वपि शिरासृष्ट्योरिडेले मते ।क्रीडा खेलनहेलयोरथ भवेच्चूडा वलभ्यां शिखा-दोर्भूषास्वथ मौलिमाल्यसरलानुक्रोशमर्दार्तिषु ॥ ८० ॥
शार्दूलविक्रीडितम्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.1.70 · p. 16
पीडा कृपाशिरोमालाव्यथासु प्रीतिवाक् पुनः ।प्रेम्णि हर्षेऽप्यथ प्रेक्षा प्रज्ञायां नृत्तदर्शने ॥ ७० ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश डान्ताः Śabdaratnāvalī 7.13.21 · p. 205
पीडापमर्दसरलशिरोमालाकृपासु च ।भाण्डं वणिक् मूलधने पात्रे भूषाश्चभूषयोः ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश स्त्रीलिङ्गाध्यायः Vaijayantī 6.2.25 · p. 222
पीडावमर्दकृपयोः प्रीतिः प्रेमप्रमोदयोः ।प्रेक्षा नृत्तेक्षणे बुद्धौ बाधा दुःखनिषेधयोः ॥ २५ ॥
अनुष्टुप्

पीडा as a meaning in nānārtha verses