कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

आल

ālaक्ली · neut.

In 8 kośas: 8 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.1060 · p. 41
गन्धाश्मा शुल्वपामाकुष्ठारिर्गन्धिकगन्धकौ ॥ १०५७ ॥सौगन्धिकः शुकपुच्छो हरितालं तु पिञ्जरम् ।विडालकं विस्रगन्धि खर्जूरं वंशपत्त्रकम् ॥ १०५८ ॥आलपीतनतालानि गोदन्तं नटमण्डनम् ।वङ्गारिर्लोमहृच्चाथ मनोगुप्ता मनःशिला ॥ १०५९ ॥करवीरा नागमाता रोचनी रसनेत्रिका ।नैपाली कुनटी गोला मनोह्वा नागजिह्विका ॥ १०६० ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.103
पिञ्जरं पीतनं तालमालं च हरितालके ॥ १०३ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.34 · p. 130
दारदो हंसपादः स्यात्कुरुबिन्दोऽपि रक्तकः ।मणिरागकरो म्लेच्छो नरि स्याद्रक्तपारदः ॥अर्बुदोत्थं सीससत्त्वं तथा चोदारसङ्गकम् ।हरितालमलं तालमालं न स्त्री बिडालकम् ॥ ३४ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.551 · p. 96
हरितालमलं तालं हरितालकमित्यपि ।शिलोत्थलाक्षायां प्रोक्ता शिलाजेतु(जतु?) शिलापि च ॥ ५५१ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1832 · p. 299
आलं तालं च वङ्गारिः हरितालः बिडालकम् ।विस्त्रगन्धि च गोदन्तं गोपित्तं वंशपत्रकम् ॥ १८३२ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.198 · p. 151
हरितालकतालं स्यादालपीतनपिञ्जरम् ।शिलाजतु च गौरेयमर्थ्यं गिरिजमश्मजम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.83 · p. 224
सौगन्धिकः सुगन्धश्च गन्धिको गन्धकोऽपि च ।गोदन्ते हरितालं स्यात् तालमालमलं तथा ॥ ८३ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पर्वताध्यायः Śabdaratnākara 2.2.427 · p. 57
हरितालं तु खर्जूरं पीतनं नटभूषणम् ।वंशपत्रं तालमालं पिञ्जरं रोमहृद्वरम् ॥ ४२७ ॥
अनुष्टुप्
genderक्लीneut.