कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

खर्जूर

kharjūraक्ली · neut.

In 18 kośas: 25 synonym verses, 6 as a nānārtha head word, 8 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.163 · p. 41
स्याद्रूप्यं कलधौतताररजतश्वेतानि दुर्वर्णकंखर्जूरं च हिमांशुहंसकुमुदाभिख्यं सुवर्णं पुनः ।स्वर्णं हेमहिरण्यहाटकवसून्यष्टापदं काञ्चनंकल्याणं कनकं महारजनरैगाङ्गेयरुक्माण्यपि ॥ १०४३ ॥कलधौतलोहोत्तमवह्निबीजान्यपि गारुडं गैरिकजातरूपे ।तपनीयचामीकरचन्द्रभर्मार्जुननिष्ककार्तस्वरकर्बुराणि ॥ १०४४ ॥जाम्बूनदं शातकुम्भं रजतं भूरि भूत्तमम् ।
metre not recognised
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.1060 · p. 41
गन्धाश्मा शुल्वपामाकुष्ठारिर्गन्धिकगन्धकौ ॥ १०५७ ॥सौगन्धिकः शुकपुच्छो हरितालं तु पिञ्जरम् ।विडालकं विस्रगन्धि खर्जूरं वंशपत्त्रकम् ॥ १०५८ ॥आलपीतनतालानि गोदन्तं नटमण्डनम् ।वङ्गारिर्लोमहृच्चाथ मनोगुप्ता मनःशिला ॥ १०५९ ॥करवीरा नागमाता रोचनी रसनेत्रिका ।नैपाली कुनटी गोला मनोह्वा नागजिह्विका ॥ १०६० ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.248
खर्जूरः केतकी ताली खर्जुरी च तृणद्रुमाः ।
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.96
दुर्वर्णं रजतं रूप्यं खर्जूरं श्वेतमित्यपि ॥ ९६ ॥
अनुष्टुप्
genderक्लीneut.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम Gīrvāṇabhāṣābhūṣaṇa 31 · p. 3
तृणराजस्तलस्तालस्तद्भेदे तु वराङ्गना ।खर्जूरस्तु महासारः खर्जूः स्यादल्पवृक्षके ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम भूम्यधिकारस्तृतीयस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 3.22 · p. 24
तृणराजस्तलस्तालः पत्रताली वराङ्गना ।महारसः स्यात्खर्जूरस्तस्मिन् खर्जूरकोऽल्पके ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.35 · p. 130
वङ्गारिर्लोमहृद्विस्रद्गन्धि स्याद्वंशपत्रकम् ।गोदन्तं पीतनं च स्यात्खर्जूरं पिञ्जरं समम् ॥ ३५ ॥
अनुष्टुप्
genderक्लीneut.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.183 · p. 101
खर्जूरतालखर्जूरीतालीहिन्तालकेतकाः ।क्रमुको नालिकेरश्च स्युरेते तृणपादपाः ॥ १८३ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.66 · p. 16
खर्जूरे तु मधुक्षीरस्तस्मिन्खर्जूरिकाल्पके ।केतक्यां गुप्तरागः स्याद्रजःपुष्पौ वलीनकः ॥ ६६ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.322 · p. 44
रूप्यं च रजतं तारं श्वेतं दुर्वर्णकं पुनः ।हिमांशुहंसकुमुदाभिख्यं खर्जूरमप्यथ ॥ ३२२ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.332 · p. 45
खर्जूरं पीतनं वंशपत्रकं चालपीतके ।अभ्रकं गगनं स्वच्छपत्रं च गिरिजामले ॥ ३३२ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त चतुःपदमरीचिः Pañcatattvaprakāśa 1.3.137 · p. 10
ऊर्णनाभो मर्कटकः तन्तुकीटः पटकृमिः ।खर्जूरः शतपात्कर्णजलौकाऽऽज्यमृतिप्रजः ॥ १३७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.174 · p. 19
अष्टापदं भूरिचन्द्रो महारजतभूत्तमे ।दुर्वर्णं रजतं रूप्यं तारं खर्जूरमित्यपि ॥ १७४ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1804 · p. 295
खर्जूरं भीरु शुभ्रञ्च शोध्यं सोध्यं जवीयसम् ।सौम्यं सर्वाणि नामानि रूपस्य कथयन्ति च ॥ १८०४ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1833 · p. 299
खर्जूरं पिञ्जरं चापि लोमहृन्नटमण्डनम् ।पीतनं चेति नामानि तालस्य सम्भवन्ति वै ॥ १८३३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्य (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.187 · p. 233
चीर्णात्कर्जूर-खर्जूरौ वर्षपाकी कपीतनः ।पीतनकोऽम्नातकश्चाम्रातकः क्रकचच्छदे ॥ १८७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.144 · p. 19
तद्द्वयं चाहतं रूप्यं तदन्यत्कुप्यमित्यथ ।कलधौतचन्द्रभीरुकखर्जूरश्वेतरूप्यरजतानि ॥ १४४ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पर्वताध्यायः Śabdaratnākara 2.2.427 · p. 57
हरितालं तु खर्जूरं पीतनं नटभूषणम् ।वंशपत्रं तालमालं पिञ्जरं रोमहृद्वरम् ॥ ४२७ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.661 · p. 84
मधुक्षीरो मधुरसः खर्जूरः पुंसि च स्त्रियाम् ।कूर्चपुष्पोऽपि तालस्तु राजतालो दृढच्छदः ॥ ६६१ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.663 · p. 85
खर्जूरः केतकी पूगो हिन्तालो नालिकेरकः ।तृणवृक्षाः प्रियालः स्यादिक्षुः खड्गदलो मधुः ॥ ६६३ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव वनौषधिवर्गः Trikāṇḍaśeṣa 2.4.43 · p. 43
घनामयः स्यात्खर्जूरो द्वौ तु काचिमभञ्जरू ।तरौ देवकुलोद्भूते दूर्वा तु हरितालिका ॥ ४३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शैलाध्यायः Vaijayantī 3.2.13 · p. 42
शुक्लधातौ पाकशुक्ला कठिनी कक्खटी खटी ।हरितालं तु खर्जूरं पिञ्जरं नटभूषणम् ॥ १३ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश शैलाध्यायः Vaijayantī 3.2.24 · p. 43
सौधं सुभीरुकं शुभ्रं खर्जूरं वंगजीवनम् ।ताम्रं शुल्बं मर्कटाम्यं रक्तं व्यष्ठं कनीयसम् ॥ २४ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.222 · p. 63
खपुरः पुगपट्टोऽथ मधुक्षीरो महारसः ।परुषः पाण्डुखर्जूरौ तस्मिन् खर्जूरिकाल्पके ॥ २२२ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश सरीसृपाध्यायः Vaijayantī 4.1.33 · p. 150
खर्जूरो वृश्चिका न क्ली शूककीटोऽपि वृश्चिकः ।आढा शतपदी कर्णजलूका ढारिकापि च ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.70 · p. 327
विद्याधरे रक्षसि रक्षकेलौमहत्यजे पुंसि गणे कटप्रूः ।खर्जूर उक्तो नरि वृक्षभेदेस्याद्वृश्चिके रूप्यकलार्थकोऽन्त्ये ॥ ७० ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.606 · p. 99
खर्जूरो ना परूषाख्यपादपे सा पुनः स्त्रियाम् ।तज्जातिभेदेऽल्पतरे खर्जूरे क्लीबके पुनः ॥ ६०६ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.607 · p. 99
रजते हरिताले च प्रसवेऽत्रोक्तभूरुहोः ।वृश्चिकाख्ये पुनर्दीर्घकीटे द्वे रभसः पुनः ॥ ६०७ ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास खकारादयः Paramānandīyanāmamālā 5.8.147 · p. 180
खर्जूरं तु फले रूप्ये खर्जूरी पादपान्तरे ।खट्टिको महिषी [20] क्षीरफेने चण्डाललोहयोः ॥ १४७ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र रत्रिः Śivakoṣa 22.3.399 · p. 36
खर्जूरस्तु द्वयोः सिन्द्यां तालपत्र्यां तु सा स्त्रियाम् ।खदिरा शाकभेदे स्यात्खदिरो दन्तधावने ॥ ३९९ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.70 · p. 271
खर्जूरस्तु खले रूप्ये शल्ये ना भूरुहे द्वयोः ।खदिरी शाकभेदे स्त्री खदिरो वृक्षचन्द्रयोः ॥
अनुष्टुप्

खर्जूर as a meaning in nānārtha verses