कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

दारद

dāradaपुं · masc.

In 15 kośas: 19 synonym verses, 6 as a nānārtha head word, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.1199 · p. 46
विषः क्ष्वेडो रसस्तीक्ष्णं गरलोऽथ हलाहलः ॥ ११९५ ॥वत्सनाभः कालकूटो ब्रह्मपुत्रः प्रदीपनः ।सौराष्ट्रिकः शौल्किकेयः काकोलो दारदोऽपि च ॥ ११९६ ॥अहिच्छत्त्रो मेषशृङ्गकुष्टवालूकनन्दनाः ।कैराटको हैमवतो मर्कटः करवीरकः ॥ ११९७ ॥सर्षपो मूलको गौरार्द्रकः सक्तुककर्दमौ ।अङ्कोल्लसारः कालिङ्गः शृङ्गिको मधुसिक्थकः ॥ ११९८ ॥इन्द्रो लाङ्गुलिको विस्फुलिङ्गपिङ्गलगौतमाः ।मुस्तको दालवश्चेति स्थावरा विषजातयः ॥ ११९९ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र जलकायः Abhidhānacintāmaṇipariśiṣṭa 4.2.2 · p. 6
समुद्रे तु महाकच्छो दारदो धरणीप्लवः ॥ १६४ ॥महीप्रावार उर्वङ्गस्तिमिकोशो महाशयः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह पातालभोगिवर्गः Amarakośa 1.8.13
पुंसि क्लीबे च काकोलकालकूटहलाहलाः ।सौराष्ट्रिकः शौक्लिकेयो ब्रह्मपुत्रः प्रदीपनः ॥ १० ॥दारदो वत्सनाभश्च विषभेदा अमी नव ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 जा (wrong syllable)
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.646 · p. 73
ब्रह्मपुत्रः शौल्किकेयो दारदश्च प्रदीपनः ।रसः सौराष्ट्रिकः क्ष्वेडस्तीक्ष्णश्च विषमुच्यते ॥ ६४६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.2 · p. 344
तरीषो नभसः पेरुरुदन्वान्पृथिवीप्लवः ।गङ्गाधरो महाकच्छो मितद्रुर्दारदश्च सः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.34 · p. 130
दारदो हंसपादः स्यात्कुरुबिन्दोऽपि रक्तकः ।मणिरागकरो म्लेच्छो नरि स्याद्रक्तपारदः ॥अर्बुदोत्थं सीससत्त्वं तथा चोदारसङ्गकम् ।हरितालमलं तालमालं न स्त्री बिडालकम् ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पातालवर्गः Koṣakalpataru 3.1.34 · p. 305
आदीपनौ दारदश्च मकरश्च परे पुनः ।अहिच्छत्रो मेषशृङ्गो कुष्ठ-वालुक-नन्दनाः ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.114 · p. 66
घासोऽथ -----------विषः क्ष्वेडो हलाहलः ।कालकूटं वत्सनागो ब्रह्मपुत्रोऽपि दारदः ॥ ११४ ॥
metre not recognised
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट पाताललोकसर्गः Paryāyaśabdaratna 3.12 · p. 123
पीताश्च तीव्रगामिन्यः(?) स्तब्धवैराश्च भैरवाः ।तेषां राजा तु शङ्खः स्यात्तद्विषे दारदो मतः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अप्कायनामानि Suśīlanāmamālā 5.2.1868 · p. 305
नदीशो यादईशश्च स्रोतईशश्च दारदः ।यादःपति उदन्वान् वै मितद्रुर्मकराकरः ॥ १८६८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.22 · p. 38
ब्रह्मपुत्रः शौक्लिकेयो वत्सनाभः प्रदीपनः ।सौराष्ट्रिको दारदः स्युर्विषभेदा अमी नव ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.36 · p. 39
वाङ्कः कचङ्गलः पेरुर्मितद्रुर्वाहिनीपतिः ।गङ्गाधरो दारदः स्याद् उदन्वान् उदधिस्तिमिः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.311 · p. 42
गरलं तु विषं क्ष्वेलस्तत्प्रभेदास्तु दारदः ।सौराष्ट्रिको ब्रह्मपुत्रो वत्सनाभः प्रदीपनः ॥ ३११ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वसुंधराध्यायः Śabdaratnākara 2.1.378 · p. 51
पल्लवकेरलपाण्ड्याश्चेदिमहावीरदारददशार्णाः ।भल्लाटभोजसौकरहेलाहिच्छत्रभौरिकविदर्भाः ॥ ३७८ ॥
गीतिः
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव वारिवर्गः Trikāṇḍaśeṣa 1.9.2 · p. 25
पुमान् कचंग वांकः कूलंकषपरंगवौ ।तरन्तो दारदः पेरुर्महीप्राचीरमद्वयोः ॥ २ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव वैश्यवर्गः Trikāṇḍaśeṣa 2.9.35 · p. 76
हरिताले तु कर्बूरं गोदन्तो नटसंज्ञकः ।दारदं तु हिड्गुलु स्याद्धिङ्गुलं रक्तरपारदम् ॥ ३५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश देशाध्यायः Vaijayantī 3.1.27 · p. 37
टर्कवाहीककाश्मीरतुरुष्केषु ससिन्धुषु ।बाह्लीका वाह्लिका कीराः शाखयो दारदाः क्रमात् ॥ २७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शैलाध्यायः Vaijayantī 3.2.44 · p. 44
कुलुत्थिका तु चक्षुष्या कुम्भकारी कुलालिका ।रसस्तु पारतः सूतो हिंगुलो दारदो रसः ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश सरीसृपाध्यायः Vaijayantī 4.1.24 · p. 150
एवमन्येऽपि काकोलो वत्सनाभो हलाहलः ।सौराष्ट्रिको ब्रह्मपुत्रशौक्लिकेयेन्द्रदारदाः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास दपादः Dharaṇikośa 17.1.5 · p. 93
जलदौ मुस्तकाम्भोदौ दारदौ विषहिङ्गुलौ ।नलदमुशीरमांस्योः प्रह्लादो दैत्यशब्दयोः ॥
अनुष्टुप्metre not read in every line
कोषकल्पतरु Koṣakalpataru · विश्वनाथ दान्ताः Koṣakalpataru 6.19.34 · p. 236
स्वरे निषादः श्वपचे प्रसाद-स्त्वनुग्रहे काव्यगुणे प्रसत्तौ ।स्वाच्छ्ये नवे च प्रतिभेऽप्यधृष्टेपीते तु मुद्गे नरि शारदः स्यात् ।स्त्री सप्तप[5b]र्णेऽम्बुकणागतश्चस्याद्दारदः पारदहिङ्गुलार्थः ।विषेऽप्यथो सर्पिषि तोयदं स्या-न्ना मुस्तके वारिधरेऽपि तद्वत् ॥ ३४ ॥
उपजातिःmetre not read in every linenearly उपजातिः: pāda 1, syllable 4 प (wrong syllable)
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.924 · p. 128
दात्यूहः कालकण्ठाख्यखगे द्वे चातके तथा ।दारदस्तु पुमान् सिन्धुसंज्ञके नीवृदन्तरे ॥ ९२४ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.925 · p. 128
पारदे क्ष्वेडभेदे तु पुन्नपुंसकयोरयम् ।कतकाख्ये तु वृक्षे ना द्रावणो लवणान्तरे ॥ ९२५ ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास दकारादयः Paramānandīyanāmamālā 5.16.241 · p. 193
द्रविणं द्युम्नवद्द्रव्ये सङ्घौषधपराक्रमे ।द्वितीया गेहिनीतिथ्योर्दारदः पारदे विषे ॥ २४१ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश दान्ताः Śabdaratnāvalī 7.18.15 · p. 230
तरत्प्लवे स्त्रियामेव कारण्डविहायसि ।दरत्प्रपाते भीतौ च रोगभेदे च पर्वते ॥दारदः पारदे पुंसि विषभेदे च हिङ्गुले ।दायादस्तनये पुंसि सपिण्डे च सगोत्रके ॥नलदं स्यादूशीरे च मांस्यां पुष्परसेऽपि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्

दारद as a meaning in nānārtha verses