कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मनःशिला

manaḥśilāस्त्री · fem.

In 18 kośas: 17 synonym verses, 2 as a nānārtha head word, 21 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.1060 · p. 41
गन्धाश्मा शुल्वपामाकुष्ठारिर्गन्धिकगन्धकौ ॥ १०५७ ॥सौगन्धिकः शुकपुच्छो हरितालं तु पिञ्जरम् ।विडालकं विस्रगन्धि खर्जूरं वंशपत्त्रकम् ॥ १०५८ ॥आलपीतनतालानि गोदन्तं नटमण्डनम् ।वङ्गारिर्लोमहृच्चाथ मनोगुप्ता मनःशिला ॥ १०५९ ॥करवीरा नागमाता रोचनी रसनेत्रिका ।नैपाली कुनटी गोला मनोह्वा नागजिह्विका ॥ १०६० ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.109
मनःशिला मनोगुप्ता मनोह्वा नागजिह्विका ।नैपाली कुनटी गोला यवक्षारो यवाग्रजः ॥ १०८ ॥पाक्योऽथ सर्जिकाक्षारः कापोतः सुखवर्चकः ।सौवर्चलं स्याद्रुचकं त्वक्क्षीरी वंशरोचना ॥ १०९ ॥
अनुष्टुप्
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर एकादशोपदेशः Bālaprabodhikā 11.190 · p. 83
गैरिकोऽपि तथा तु स्यात्कुनटी तु मनः शिला ।रोचनी रञ्जनी हृद्या रसनेत्रा महारसा ॥ १९० ॥
अनुष्टुप्
genderस्त्रीfem.doubtful
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.562 · p. 195
मनःशिला तु कुनटी मनोज्ञा नागजिह्विका ।नेपाली रसभेत्ता च मनोगुप्ता च रोचनी ॥ ५६२ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.29 · p. 464
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.31 · p. 130
लोमशं कंसकं च स्यात्कुनटी तु मनःशिला ।मनोगुप्ता नागमाता गोला दिव्यौषधिः शिला ॥ ३१ ॥
अनुष्टुप्
genderस्त्रीfem.
एते पुंसि भवन्ति । अयं केदारः क्षेत्रम् । खण्डः इक्षुविकारः । प्रशमो धान्यच्छेदनः । कपाटो द्वाःपिधानम् । एते स्त्रियां भवन्ति । इयं हेला अनादरः । काञ्ची मेखला । लाला श्लेष्मविकारः । सुधाऽमृतम् । युधा युद्धम् । प्रवेणी केशरचना ।हानिग्लानिवा[र्वा]पीविपणीसार्य[र्थ]श्च वै तथा स्वाहा ।लक्ष्मीमनःशिलोपानहः स्त्रियां स्थाण्वणुजराः पुंसि ॥ ७५ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 ला (wrong syllable)
genderस्त्रीfem.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.33 · p. 12
उदयः प्रातरद्रिः स्यात्पराद्रिः पश्चिमाचलः ।गैरिकं पीतधातुः स्यात्कुनटी तु मनःशिला ॥ ३३ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.335 · p. 46
मनःशिला नागमाता मनोगुप्ता च रोचनी ।मनोह्वा कुनटी गोला नेपाली रसनेत्रिका ॥ ३३५ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.559 · p. 97
सिक्थकं तु मधूच्छिष्टे प्रोक्तं चाथ मनःशिला ।मनोगुप्ता मनोह्वा च मनोज्ञा नागजिह्विका ॥ ५५९ ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त शैलमरीचिः Pañcatattvaprakāśa 1.2.123 · p. 9
मनःशिला मर्मशिला रत्नभूराकरः खनिः ।हरितालं पीतरसं कर्चूरं गिरिपित्तकम् ॥ १२३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पी (wrong syllable)
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1834 · p. 299
मनःशिला मनोगुप्ता मनोह्वा नागजिह्विका ।नागमाता तथा गोला शिला च रसनेत्रिका ॥ १८३४ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.206 · p. 151
मनःशिला मनोह्वा च कुनटी नागजिह्विका ।नागजिह्वा शिलाह्वा ज गोलापि च मनः शिलम् ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.84 · p. 225
मनोगुप्तायां नेपाली नैपाली च मनः शिला ।शिला सिन्दूरे शृङ्गारे भवेच्छृङ्गारभूषणम् ॥ ८४ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 यां (wrong syllable); pāda 3, syllable 5 रे (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पर्वताध्यायः Śabdaratnākara 2.2.425 · p. 56
कुरुविन्दं हंसपादं हिङ्गुलं जातिलिङ्गकम् ।मनःशिला तु कुनटी नागजिह्वा महारसा ॥ ४२५ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश शैलाध्यायः Vaijayantī 3.2.11 · p. 41
गैरिकं पीतधातुः स्यात् कुनटी तु मनः शिला ।रोचनी रञ्जनी हृद्या रसनेत्री महासना ॥ ११ ॥
अनुष्टुप्
genderस्त्रीfem.doubtful
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.211 · p. 62
गौर्यां हरिद्रा रात्र्याख्या हेमघ्नी काञ्चनी परा ।रोचनी रञ्जनी पीता पिञ्जा पिण्डा मनः शिला ॥ २११ ॥
अनुष्टुप्
genderस्त्रीfem.doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.39 · p. 4
मरीचिका तथा लिक्षासंज्ञमानेऽप्यदः पुनः ।त्रसरेण्वष्टकं स्यात् तु हरिद्रायां मनःशिला ॥ ३९ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.40 · p. 4
ख्याते मनःशिलेत्येव धातावथ महाशिला ।शस्त्रप्रभेदे तस्योक्तं लक्षणं शस्त्रवेदिभिः ॥ ४० ॥
अनुष्टुप्
meaningsधातु

मनःशिला as a meaning in nānārtha verses