कालकर्णिका
kālakarṇikāस्त्री · fem.In 5 kośas: 5 synonym verses.
अलक्ष्मीर्निरृतिः कालकर्णिका स्यादथाशुभम् ।दुष्कृतं दुरितं पापमेनः पाप्मा च पातकम् ॥ १३८० ॥किल्बिषं कलुषं किण्वं कल्मषं वृजिनं तमः ।अंहः कल्कमघं पङ्क उपाधिर्धर्मचिन्तनम् ॥ १३८१ ॥
अनुष्टुप्
genderस्त्रीfem.
भागधेयविधी भाग्यं दैवं च नियतिस्तथा ।अयो दिष्टमथालक्ष्मीर्निर्ऋतिः कालकर्णिका ॥ २७३ ॥
अनुष्टुप्
genderस्त्रीfem.
अतिशुभमयः प्रोक्तं निर्ऋतिः कालकर्णिका ।अलक्ष्मीश्चाथ दारिद्र्यं कथ्यते कोविदैरिह ॥ २५०८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 शु (wrong syllable)
genderस्त्रीfem.
अङ्गुष्ठावुन्नतौ कृत्वा मुष्ट्योः संलग्नयोर्द्वयोः ।तावेवाभिमुखौ कुर्यात् मुद्रैषा कालकर्णिका ॥ १०२ ॥
अनुष्टुप्
genderस्त्रीfem.
अकं दुःखमघं चैन्द्री त्वलक्ष्मीः कालकर्णिका ॥ १ ॥
genderस्त्रीfem.