पातक
pātakaक्ली · neut.In 12 kośas: 14 synonym verses, 2 as a nānārtha head word.
अलक्ष्मीर्निरृतिः कालकर्णिका स्यादथाशुभम् ।दुष्कृतं दुरितं पापमेनः पाप्मा च पातकम् ॥ १३८० ॥किल्बिषं कलुषं किण्वं कल्मषं वृजिनं तमः ।अंहः कल्कमघं पङ्क उपाधिर्धर्मचिन्तनम् ॥ १३८१ ॥
अनुष्टुप्
genderक्लीneut.
वृजिनं दुरितं दुष्कृतमघमंहः किल्विषं तमः कल्कम् ।एनः कल्मषमशुभं पापं स्यात्पातकं पाप्मा ॥ ६२७ ॥
आर्या
genderक्लीneut.
सौदामिन्यैरावती च तद्भेदेऽप्यन्तिमत्रयम् ।गर्जितं स्तनितं जीर्णं निर्घोषः पातपातकौ ॥ ५५ ॥
अनुष्टुप्
genderपुंmasc.
पातकं दुरितं पापं … किल्बिषे ।अहङ्कारोऽभिमानश्च स्मयो गर्वस्तु विस्मिता ॥ ९२ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
अथ स्युः पुत्तिकाः कृष्णवर्णा मशकसन्निभाः ।वृक्षकोटरगाः स्थूलपिण्डिका अथ पातकाः ॥ १८४ ॥
अनुष्टुप्
genderपुंmasc.
दुरितमशुभमंहः किल्बिषं पापमङ्घःकुकृत-कलुष-किण्वान्यत्र कृष्णैनसी स्तः ।अपि वृजिनतमोघं कल्मषं न्यङ्ककण्वा-णकमपि मलपङ्कौ पातकं कल्कमस्त्री ॥ ३७ ॥
मालिनी
genderक्लीneut.
शुल्को वल्कः कल्को निष्को मुष्कश्च मस्तिष्कः ।चूचुक-मञ्चक-मेचक-कञ्चुक-शूकानि पातकः पङ्कः ॥ ३५ ॥
उद्गीतिः
genderपुंक्लीm. n.
मङ्गः पुण्यं वृषो धर्मः सुकृतं श्रेयसा सह ।अशुभं कल्मषं पापं वृजिनं किण्वपातके ॥ २६९ ॥
अनुष्टुप्
genderक्लीneut.
मध्यशैवलयोर्नाम सूतकः कूलकोऽपि च ।कोरकः करकः पङ्कः पातकस्तिलकान्दुकौ ॥ १२८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
किल्बिषं कल्मषं पापमेनः पाप्मा च पातकम् ।दुरितं वृजिनं पङ्कमघमंहश्च दुःकृतम् ॥ १३२ ॥
अनुष्टुप्
genderक्लीneut.
पापं च पातकं पाप्मा पङ्कः किण्वं च किल्विषम् ।कल्मषं कलुषं कल्कं दुष्कृतं दुरितं तमः ॥ २५०९ ॥
अनुष्टुप्
genderक्लीneut.
दुरितं पातकं तूस्तं कल्कं दुष्कृतकिल्विषम् ।एनः शल्यं पङ्कमस्त्री पाप्मा पापकमित्यपि ॥
अनुष्टुप्
genderक्लीneut.
कृतं सत्ययुगं त्रेताऽग्नायी द्वापरयज्ञियौ ।कलिर्झर्झरकः कर्मयुगं पापं तु पातकम् ॥ ३१ ॥
अनुष्टुप्
genderक्लीneut.
धर्मोऽस्त्री सुकृतं पुण्यं पाप्माधर्मौ तु दुष्कृतम् ।दुरितं पातकं पापं त्रस्तमंहोऽघकल्मषे ॥ १६८ ॥
अनुष्टुप्
genderक्लीneut.
पतितर्यप्यथ स्त्री स्यात् पादिका मन्दिरस्य या ।अल्पा स्थूणा भवेत् तस्याः त्रिस्तु पत्तर्यथो भवेत् ॥ ११५१ ॥
अनुष्टुप्
meaningsपतितृ
doubtful