वृजिन
vṛjinaक्ली · neut.In 17 kośas: 26 synonym verses, 7 as a nānārtha head word.
अलक्ष्मीर्निरृतिः कालकर्णिका स्यादथाशुभम् ।दुष्कृतं दुरितं पापमेनः पाप्मा च पातकम् ॥ १३८० ॥किल्बिषं कलुषं किण्वं कल्मषं वृजिनं तमः ।अंहः कल्कमघं पङ्क उपाधिर्धर्मचिन्तनम् ॥ १३८१ ॥
अनुष्टुप्
genderक्लीneut.
कुञ्चितं नतमाविद्धं कुटिले वक्रवेल्लिते ॥ १४५६ ॥वृजिनं भङ्गुरं भुग्नमरालं जिह्ममूर्मिमत् ।
अनुष्टुप्
genderविadj.
देहे सिनं प्रजनुकश्चतुःशाखं षडङ्गकम् ॥ ११६ ॥व्याधिस्थानं च देहैकदेशे गात्रं कचे पुनः ।वृजिनो वेल्लिताग्रोऽस्रो धम्मिल्ले मौलिजूटकौ ॥ ११७ ॥
अनुष्टुप्
genderपुंmasc.
अस्त्री पङ्कः पुमान्पाप्मा पापं किल्बिषकल्मषम् ।कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम् ॥ २३ ॥
अनुष्टुप्
genderक्लीneut.
अरालं वृजिनं जिह्ममूर्मिमत्कुञ्चितं नतम् ।आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि ॥ ७१ ॥
अनुष्टुप्
genderविadj.
वृजिनं दुरितं दुष्कृतमघमंहः किल्विषं तमः कल्कम् ।एनः कल्मषमशुभं पापं स्यात्पातकं पाप्मा ॥ ६२७ ॥
आर्या
genderक्लीneut.
वक्रं वृजिनं भङ्गुरमाविद्धं वेल्लितं नतं जिह्मम् ।भुग्नमरालं कुटिलं व्याकुञ्चितमूर्मिमत्कथितम् ॥ ६९६ ॥
आर्या
genderविadj.
प्रेङ्खोलितस्तरलितो ललितः प्रेङ्खितः पुनः ।अरालं वृजिनं जिह्ममूर्मिमन्नतमित्यपि ॥ १२८ ॥
अनुष्टुप्
genderविadj.
दुरितमशुभमंहः किल्बिषं पापमङ्घःकुकृत-कलुष-किण्वान्यत्र कृष्णैनसी स्तः ।अपि वृजिनतमोघं कल्मषं न्यङ्ककण्वा-णकमपि मलपङ्कौ पातकं कल्कमस्त्री ॥ ३७ ॥
मालिनी
genderक्लीneut.
शीर्षं स्यात्करणत्राणं मुण्डं मूर्द्धा कमव्ययम् ।चिकुरश्चिहुरः केशो मूर्द्धजो वृजिनोऽङ्गजः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
वक्रं तु कुटिलं भुग्नं कुटिलं कुञ्चितं नतम् ।आविद्धाराल-जिह्मोर्मिमद्-वङ्क-वृजिनानि च ॥ ८९ ॥
अनुष्टुप्
genderविadj.
एते शब्दाः पुंसि भवन्ति । अयं कललो गर्भाशयः । कफः श्लेष्मा । पूयः शोणितविकारः । कुल्माषः सस्यजातिः । कल्कः सर्षापादीनां चूर्णम् । कल्पः कालपरिमाणम् । गेहं गृहम् । मखो यज्ञः । लौहित्यो नदविशेषः । झर्झरो वादित्रविशेषः । पुङ्खः शरस्य । चषालो यूपाग्रम् । कटाहो लोहभाजनम् ।मत्स्यो मीनः ।शवपलकतल्पसद्मबलिशामिशनिमित्तपित्तचित्तानि ।किल्बिषवृजिनानि तथा नपुंसके पीठपापे च ॥ ५९ ॥
metre not recognised
genderक्लीneut.
अघमंहश्च दुरितं पाप्मा पापं च किल्बिषम् ।वृजिनं कलिलं ह्येनो दुष्कृतम् तज्जयी जिनः ॥ १३१ ॥
अनुष्टुप्
genderक्लीneut.
मङ्गः पुण्यं वृषो धर्मः सुकृतं श्रेयसा सह ।अशुभं कल्मषं पापं वृजिनं किण्वपातके ॥ २६९ ॥
अनुष्टुप्
genderक्लीneut.
अवक्रसरलौ तुल्यावृजुः प्रगुणसंगतः ।कुटिलं वेल्लितं वक्रं भङ्गुरवृजिने समे ॥ ३४४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 ङ्गु (wrong syllable)
genderविadj.
समः संवत्सरे प्रोक्तः शरदब्दोऽपि वत्सरः ।संवर्तः प्रलये पापे वृजिनं कलुषं विघम् ॥ १४४ ॥
अनुष्टुप्
genderक्लीneut.
वर्तुले निस्तु(स्त?)लं खर्वे ह्रस्वन्यङ्नीचवामनाः ।आनते कुञ्चितं जिह्ममूर्मिमद्वृजिनं मतम् ॥ ६९४ ॥
अनुष्टुप्
genderविadj.
किल्बिषं कल्मषं पापमेनः पाप्मा च पातकम् ।दुरितं वृजिनं पङ्कमघमंहश्च दुःकृतम् ॥ १३२ ॥
अनुष्टुप्
genderक्लीneut.
genderपुंmasc.
अंहश्चाऽङ्घस्तथाऽघं वै वृजिनमशुभं पुनः ।एनोऽष्टादशं नाम मन्यतेऽघस्य साक्षरैः ॥ २५१० ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 2 जि (wrong syllable); pāda 3, syllable 1 ए (syllables merged)
genderक्लीneut.
आविद्धं वेल्लितं वक्रं कुञ्चितं कुरिलं नतम् ।अरालं भगुरं भुग्नं वृजिनं जिह्नमूर्मिमत् ॥ २ ॥ २६४८ ॥
अनुष्टुप्
genderविadj.
क्षयो विलय इत्येष पर्याय प्रलये मतः ।पापं वृजिनमंहः स्यादघं कलुषकल्मषम् ॥
अनुष्टुप्
genderक्लीneut.
कुटिले वृजिनं जिह्ममरालं कुञ्चितं नतम् ।आविद्धमूर्मिमद्वक्रं भुग्नं वेल्लितमित्यपि ॥
अनुष्टुप्
genderविadj.
दुष्कृतमघमेनोंऽहः किल्बिषमलदुरितपापरेपांसि ।दुष्कर्म कलुषरजसी वृजिनं पाप्मा तु पुंसि पङ्कोऽस्त्री ॥ २८६ ॥
गीतिः
genderक्लीneut.
न्यङ्नीचौ प्रह्वविनताववाग्रावनतौ समौ ।कुटिलमरालं वक्रं वेल्लितमाविद्धवृजिनभुग्नानि ॥ १६३६ ॥
अनुष्टुप्metre not read in every line
genderविadj.
परस्परं स्यादन्योऽन्यमितरेतरमित्यपि ।वक्रं वृजिनमाविद्धमूर्मिमत् कुञ्चितं नतम् ॥ १२३ ॥
अनुष्टुप्
genderविadj.
वृजिनः केशेऽप्युक्तः स्थाणुः कीलेऽपि कुञ्जरे नागः ।गञ्जो भाण्डागारे गोमुखमुपलेपनेऽपि स्यात् ॥ ७९७ ॥
metre not recognised
meaningsकेश
विपन्नो भुजगे पुंसि विपदाक्रान्तके त्रिषु ।विच्छिन्नन्तु समालब्धे विभक्तेऽपि च वाच्यवत् ॥विलग्नं लग्नमात्रे स्यात्त्रिषु मध्ये तु न स्त्रियाम् ।विषघ्नी त्रिवृतायां स्त्री गुडुच्यां ना शिरीषके ॥व्युत्थानं नृत्यभेदे स्याद्विरोधाचरणेऽपि च ।वृजिनं किल्विषे क्लीबं कचे ना कुटिले त्रिषु ॥
अनुष्टुप्