अंहस्
aṃhasक्ली · neut.In 15 kośas: 12 synonym verses, 13 as a meaning of another word.
अलक्ष्मीर्निरृतिः कालकर्णिका स्यादथाशुभम् ।दुष्कृतं दुरितं पापमेनः पाप्मा च पातकम् ॥ १३८० ॥किल्बिषं कलुषं किण्वं कल्मषं वृजिनं तमः ।अंहः कल्कमघं पङ्क उपाधिर्धर्मचिन्तनम् ॥ १३८१ ॥
अनुष्टुप्
genderक्लीneut.
अस्त्री पङ्कः पुमान्पाप्मा पापं किल्बिषकल्मषम् ।कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम् ॥ २३ ॥
अनुष्टुप्
genderक्लीneut.
वृजिनं दुरितं दुष्कृतमघमंहः किल्विषं तमः कल्कम् ।एनः कल्मषमशुभं पापं स्यात्पातकं पाप्मा ॥ ६२७ ॥
आर्या
genderक्लीneut.
कोषकोशौ वेषवेशौ धूलिधूल्यौ समे मते ।रंहो रङ्घोऽपि निर्दिष्टमधोऽङ्घश्चोच्यते बुधैः ॥ २६६ ॥
अनुष्टुप्
genderक्लीneut.
दुरितमशुभमंहः किल्बिषं पापमङ्घःकुकृत-कलुष-किण्वान्यत्र कृष्णैनसी स्तः ।अपि वृजिनतमोघं कल्मषं न्यङ्ककण्वा-णकमपि मलपङ्कौ पातकं कल्कमस्त्री ॥ ३७ ॥
मालिनी
genderक्लीneut.
अघमंहश्च दुरितं पाप्मा पापं च किल्बिषम् ।वृजिनं कलिलं ह्येनो दुष्कृतम् तज्जयी जिनः ॥ १३१ ॥
अनुष्टुप्
genderक्लीneut.
अंहो दुष्कृतमेनश्चाघं कल्कं तमसा सह ।दुरितं किल्बषं चापि पङ्कः कलुषमेव च ॥ २७० ॥
अनुष्टुप्
genderक्लीneut.
किल्बिषं कल्मषं पापमेनः पाप्मा च पातकम् ।दुरितं वृजिनं पङ्कमघमंहश्च दुःकृतम् ॥ १३२ ॥
अनुष्टुप्
genderक्लीneut.
अंहश्चाऽङ्घस्तथाऽघं वै वृजिनमशुभं पुनः ।एनोऽष्टादशं नाम मन्यतेऽघस्य साक्षरैः ॥ २५१० ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 2 जि (wrong syllable); pāda 3, syllable 1 ए (syllables merged)
genderक्लीneut.
क्षयो विलय इत्येष पर्याय प्रलये मतः ।पापं वृजिनमंहः स्यादघं कलुषकल्मषम् ॥
अनुष्टुप्
genderक्लीneut.
दुष्कृतमघमेनोंऽहः किल्बिषमलदुरितपापरेपांसि ।दुष्कर्म कलुषरजसी वृजिनं पाप्मा तु पुंसि पङ्कोऽस्त्री ॥ २८६ ॥
गीतिः
genderक्लीneut.
धर्मोऽस्त्री सुकृतं पुण्यं पाप्माधर्मौ तु दुष्कृतम् ।दुरितं पातकं पापं त्रस्तमंहोऽघकल्मषे ॥ १६८ ॥
अनुष्टुप्
genderक्लीneut.
अंहस् as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् अघमूल्ये पूजाविधावर्घोंऽहोदुःखव्यसनेष्वघम् ॥ २७ ॥ Amarakośa 3.3.27
- धरणिकोश अघअघमंहसि दुःखे च व्यसनेऽप्यघमुच्यते । लघुः शोभननिःसारशीघ्रपृक्का[गुरुष्वपि ?] ॥ Dharaṇikośa 4.2.2
- कोषकल्पतरु अघअघं तु व्यसने मघे च । दुःखेंऽहसि स्यादथ मूल्यपूजा- विधौ नरेऽर्घोऽङ्घ्रिरपि द्रुमूले ॥ ३२ ॥ Koṣakalpataru 6.4.32
- कोषकल्पतरु अङ्घशीघ्रे च कृष्णागुरुणि द्वयोनः स्पृक्कागतः स्त्री वपुषस्तु वायौ । अङ्घोंऽहसि स्यात्करसंपुटे च मोघस्तु दीने त्रिषु निःफले च ॥ ३४ ॥ Koṣakalpataru 6.4.34
- कोषकल्पतरु किट्टषिङ्गे विटोऽस्त्री लवणाम्बुशैल- वालच्छदेषु प्रथितः स पुंसि । सिङ्घाणकादौ तु घृतादिकाना- मधःस्थभागेंऽहसि किट्टमस्त्री ॥ Koṣakalpataru 6.10.6
- कोषकल्पतरु व्यसनव्यसनमंहसि कामजदूषणे- ऽप्यशुभदे च[17a]फले विफलोद्यमे । विपदि च प्रतिघे स्मितदूषणे चरमलिङ्गमुशन्ति विपश्चितः ॥ ६६ ॥ Koṣakalpataru 6.21.66
- कोषकल्पतरु राष्ट्रनीध्रं तु चन्द्रेऽथ वलीकनेमि- रेवत्यरण्येषु नपुंसके स्यात् । राष्ट्रोऽस्त्रियां स्यादुपवर्तनोप- द्रवार्थकेऽप्यंहसि कष्टके च ॥ ५० ॥ Koṣakalpataru 6.27.50
- कोषकल्पतरु शमलपिटकतिलकदृग्रुग्बर्हपर्याय ओघे पुनरिह न नरेऽथ च्छागलश्छाग आद्ये । युगमुगसितवस्त्रे स्त्री भवेद्वृद्धदारौ शकृति तु शमलं स्यादंहसि प्राहुरेतत् ॥ ४४० ॥ Koṣakalpataru 6.28.440
- नानार्थार्णवसंक्षेप व्यसनव्यसनं सक्तिविपदोर्दैवानिष्टफलेंऽहसि । पैशुन्यादौ च कोपार्थे मृगयादौ च कामजे ॥ ७० ॥ Nānārthārṇavasaṃkṣepa 3.3.70
- शब्दरत्नाकर पङ्कपिण्डिर्ना तैलकल्के स्त्री रथनाभौ च पिण्डिका । पयः पाथसि च क्षीरे पङ्कोऽस्त्री कर्दमांहसोः ॥ १९५८ ॥ Śabdaratnākara 4.1.1958
- शब्दरत्नाकर शमलआक्रोशने स्याच्छपथः शपने तनयादिभिः । शिशौ मत्स्ये च शिशुकः शमलं शकृदंहसोः ॥ २१७६ ॥ Śabdaratnākara 4.1.2176
- त्रिकाण्डशेष पङ्कनालीकौ पद्मनाराचौ वृन्देऽपि पेटकोऽस्त्रियाम् । सौभाग्येऽपि पताका स्यात्पङ्कोऽस्त्री कर्दमांहसोः ॥ २९ ॥ Trikāṇḍaśeṣa 3.3.29
- वैजयन्ती व्यसनव्यसनं शक्तिविपदोर्दैवानिष्टफलेंऽहसि । पैशुन्यादौ च कोपोत्थे मृगयादौ च कामजे ॥ ३२ ॥ Vaijayantī 7.3.32