दिष्ट
diṣṭaपुं · masc.In 16 kośas: 23 synonym verses, 9 as a nānārtha head word, 1 as a meaning of another word.
genderपुंmasc.
धर्मः पुण्यं वृषः श्रेयः सुकृते नियतौ विधिः ।दैवं भाग्यं भागधेयं दिष्टं चायस्तु तच्छुभम् ॥ १३७९ ॥
अनुष्टुप्
genderक्लीneut.
कालो दिष्टोऽप्यनेहापि समयोऽप्यथ पक्षतिः ।प्रतिपद्द्वे इमे स्त्रीत्वे तदाद्यास्तिथयो द्वयोः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः ।
अनुष्टुप्
genderक्लीneut.
दिष्टः कालस्तथानेहास्तद्भेदाः स्युः कलादयः ।अहोरात्रं च विद्वद्भिः कथ्यते षष्टिनाडिकम् ॥ १०५ ॥
अनुष्टुप्
genderपुंmasc.
धूमजाः शिखिनो ब्रह्मपुत्राः श्रीमन्त आहिकाः ।कालोsनेहा च दिष्टश्च सूक्ष्मस्त्रितुटीस्तुटीः ॥ ५० ॥
अनुष्टुप्metre not read in every lineLatin letters: s
genderपुंmasc.
यत्तु सर्वौषधिस्नानं तन्मङ्गल्यमलौकिकम् ।दिष्टं तु मृत्तिकास्नानमभिषेकस्तु मन्त्रवत् ॥ ३६८ ॥
अनुष्टुप्
genderक्लीneut.
विधिर्विपाकोऽपि च तत्र चित्रा-टीरः स्त्रियां स्यात्त्रिपतिर्नृकर्म ।अदृष्टदिष्टे अपि भागधेय-भाग्ये च दैवं भवितव्यता च ॥ ४१ ॥
उपजातिः
genderक्लीneut.
कालोऽमतिश्चायतिरप्यनेहास वत्सरात्मा समयो भवन्तः ।पारुश्च पीयुर्जहकोऽपि जिव्रि-र्यातुश्च दिष्टो लग्नः सर्वमुट् च ॥ १ ॥
उपजातिःmetre not read in every linenearly उपजातिः: pāda 2, syllable 6 ल (wrong syllable); pāda 2, syllable 7 ग्नः (wrong syllable)
genderपुंmasc.
परञ्जं कटु स्यादकार्येऽट्ट-कष्टेविधौ दिष्टमह्नो मुखे व्युष्टमुक्तम् ।गिरि म्लिष्टमिष्टं क्रतोः कर्मणि स्या-ल्ललाटं करोटं कृपीटं च रिष्टम् ॥ ९६ ॥
भुजङ्गप्रयातम्
genderक्लीneut.
पुष्पदन्तौ पुष्पवन्तौ चन्द्रसूर्यौ समोक्तितः ।कालोऽनेहा दिष्टसर्वमूषकौ समयोऽपि च ॥ १२२ ॥
अनुष्टुप्
genderक्लीneut.
भागधेयविधी भाग्यं दैवं च नियतिस्तथा ।अयो दिष्टमथालक्ष्मीर्निर्ऋतिः कालकर्णिका ॥ २७३ ॥
अनुष्टुप्
genderक्लीneut.
कालो दिष्टोऽप्यनेहापि समयः सम इत्यपि ।घस्रो दिनः समा वारोऽहः क्लीबे तिथिरित्यपि ॥ १३२ ॥
अनुष्टुप्
genderपुंmasc.
शान्तं सौख्यं सुखं शर्म शंसा वा शुभवेदनम् ।विधिश्च नियतिर्दिष्टं दैवं भाग्यं शुभं त्वयः ॥ ८२ ॥
अनुष्टुप्
genderक्लीneut.
कालो दिष्टोऽप्यनेहाः स्यात् समयः सर्वमूषकः ।कालो द्विधाऽवसर्पिण्युत्सर्पिणीकालभेदतः ॥ १२० ॥
अनुष्टुप्
genderपुंmasc.
भागधेयं तथा भाग्यं दिष्टं दैवं पुनर्विधिः ।नियतिश्चेति नामानि मन्यन्ते नियतेर्बुधैः ॥ २५०७ ॥
अनुष्टुप्
genderक्लीneut.
मृगतृष्णा मृगतृषा मृगतृट् स्यान्मरीचिका ।कालः स्वयम्भूः समयस्त्वनेहा दिष्ट इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
कालस्तु समयोऽनेहा दिष्टः सूक्ष्मस्तु स त्रुटिः ।अष्टौ तु ता निमेषस्तौ लिप्तिका स्यादमूर्नव ॥ २३० ॥
अनुष्टुप्
genderपुंmasc.
भाग्यं दिष्टं भागधेयं दैवं च नियतिर्विधिः ।श्वःश्रेयसं तु कल्याणं श्वोवसीयं शिवं शुभम् ॥ २८१ ॥
अनुष्टुप्
genderक्लीneut.
कालोऽनेहा च दिष्टश्च स सूक्ष्मः स्त्री तुटिस्त्रुटिः ।द्वे तुटी लघ्वक्षरकस्तौ द्वावक्षरपातकः ॥ ५२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 घ्व (wrong syllable)
genderपुंmasc.
आख्यायनी तु सन्देशो दिष्टं संवदनं च तत् ।संवादनं वाचिकं च वलना त्वतिचाटुवाक् ॥ २५ ॥
अनुष्टुप्
genderक्लीneut.
शर्म शातं सुखं सौख्यमयः शुभफलो विधिः ।विधौ दैवं दिष्टभाग्ये विपाको भवितव्यता ॥ १८९ ॥
अनुष्टुप्
genderक्लीneut.
यन्मृत्तिकांभसा स्नानं दिष्टं देशनिकं च तत् ।ऋषीणां तर्पणं यत्तत् कौलकुल्यं कुलं च तत् ॥ ११५ ॥
अनुष्टुप्
genderक्लीneut.
दिव्यं क्ली व्योम्नि लशुने गाने तन्त्रीसमुद्भवे ।प्रत्यये च त्रि तु दिवि भवे दिष्टस्त्वनेहसि ॥ ५९७ ॥
अनुष्टुप्
meaningsअनेहस्
ना क्ली संवदने दैवे कृतान्तेऽपि धनञ्जयः ।दैवाद्भेदेन पठति दानभूषणयोरपि ॥ ५९८ ॥
अनुष्टुप्
doubtful
यन्मृत्तिकाम्भसा स्नानं तत्रापि त्रि तु भाषिते ।दत्ते च दि(ष्ट?ष्टि)स्तु पुमान् प्रमाणेऽष्टाङ्गुलेऽथ सः ॥ ५९९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
दैवे दिष्टमकार्यादौ कट्वयूपे युगं स्मुतम् ।असमासे मतं द्वन्द्वं नन्तं धन्व स्थलेऽपि च ॥ ७७ ॥
अनुष्टुप्
meaningsदैव
दिष्ट as a meaning in nānārtha verses
- वैजयन्ती कालकारुस्तु विश्वकर्मापि धान्यांशे शीकरे कणः । कालो दिष्टे यमे काचो मृद्भेदे शिक्यदृग्रुजोः ॥ १५ ॥ Vaijayantī 6.1.15