अलक्ष्मी
alakṣmīस्त्री · fem.In 14 kośas: 12 synonym verses, 7 as a meaning of another word.
अलक्ष्मीर्निरृतिः कालकर्णिका स्यादथाशुभम् ।दुष्कृतं दुरितं पापमेनः पाप्मा च पातकम् ॥ १३८० ॥किल्बिषं कलुषं किण्वं कल्मषं वृजिनं तमः ।अंहः कल्कमघं पङ्क उपाधिर्धर्मचिन्तनम् ॥ १३८१ ॥
अनुष्टुप्
genderस्त्रीfem.
स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम् ।तद्भेदास्तपनावीचिमहारौरवरौरवाः ॥ १ ॥सङ्घातः कालसूत्रं चेत्याद्याः सत्त्वास्तु नारकाः ।प्रेता वैतरणी सिन्धुः स्यादलक्ष्मीस्तु निरृतिः ॥ २ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 नि (wrong syllable)
genderस्त्रीfem.
जिनेन्द्रो वीतरागोऽर्हन् केवली च त्रिकालवित् ।अलक्ष्मीर्निर्ऋतिर्ज्ञेया नियतिर्विधिरुच्यते ॥ ८६ ॥
अनुष्टुप्
genderस्त्रीfem.
अभाग्या निर्ऋतिज्येष्ठा त्वलक्ष्मीर्लोहभूषणे ।दशास्यो विंशतिभुजो रावणस्तु हरन्नतः ॥ ८४ ॥
अनुष्टुप्
genderस्त्रीfem.
अराप्यैन्द्री कालकर्णं स्यादलक्ष्मीश्च निरृतिः ।अकं दुःखमघं कल्कं कृच्छ्रं बाधनमित्यपि ॥ ३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 नि (wrong syllable)
genderस्त्रीfem.
सिन्धुर्वैतरणी प्रोक्ता तत्रालक्ष्मीस्तु निर्ऋतिः ।सीमन्तकाद्या बौद्धादि [151a] शास्त्रे नरकवासिनः ।
metre not recognised
genderस्त्रीfem.
भागधेयविधी भाग्यं दैवं च नियतिस्तथा ।अयो दिष्टमथालक्ष्मीर्निर्ऋतिः कालकर्णिका ॥ २७३ ॥
अनुष्टुप्
genderस्त्रीfem.
अतिशुभमयः प्रोक्तं निर्ऋतिः कालकर्णिका ।अलक्ष्मीश्चाथ दारिद्र्यं कथ्यते कोविदैरिह ॥ २५०८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 शु (wrong syllable)
genderस्त्रीfem.
प्रेतनदी वैतरणी वैतरण्यपि सा स्मृता ।अलक्ष्मीर्निर्दतिः कालकर्णी[ति] नवदेवता ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 त (wrong syllable)
genderस्त्रीfem.
अलक्ष्मीनिर्ऋतिज्येष्ठा विष्टिराजूरथ व्यथा ।पीडा बाधा कारणा स्याद्यातना तीव्रवेदना ॥ ११९ ॥
अनुष्टुप्
genderस्त्रीfem.
अकं दुःखमघं चैन्द्री त्वलक्ष्मीः कालकर्णिका ॥ १ ॥
genderस्त्रीfem.
अलक्ष्मीर्निर्ऋतिर्ज्येष्ठा रावणस्तु हरानतः ।दशास्यो विंशतिभुजश्चतुष्पान्मानमन्दिरः ॥ ४२ ॥
अनुष्टुप्
genderस्त्रीfem.
अलक्ष्मी as a meaning in nānārtha verses
- धरणिकोश निरृतिगोपतिः शंकरे षण्डे भास्करे पार्थिवेऽपि च । निर्ऋतिश्चापि दिक्पाले अलक्ष्म्यां निरुपद्रवे ॥ Dharaṇikośa 15.2.48
- नानार्थार्णवसंक्षेप कलिविवादमात्रे त्वजयः कलिशब्दमभाषत । युगे चतुर्थे चालक्ष्म्यां कलरूपेषु धातुषु ॥ २६ ॥ Nānārthārṇavasaṃkṣepa 2.2.26
- नानार्थार्णवसंक्षेप ज्येष्ठानवस्वेकत्र चालक्ष्मीगृहगोलिकयोरपि । इन्द्रदैवतनक्षत्रेऽप्यथ ज्यैष्ठी स्त्रियामियम् ॥ ४९० ॥ Nānārthārṇavasaṃkṣepa 2.5.490
- नानार्थार्णवसंक्षेप निरृतिनिरृतिस्तु स्त्र्यलक्ष्म्यां स्यान्निर्गमे चाथ भेद्यवत् । गतिहीनेऽथ निद्रालुः सुनिषण्णकसंज्ञके ॥ १०४० ॥ Nānārthārṇavasaṃkṣepa 4.1040
- शब्दरत्नावली निरृतिदृष्टान्तो मरणे शास्त्रे स्यादुदाहरणेऽपि च । निर्ऋतिः पुंसि दिक्पालभेदेऽलक्ष्म्यामपि स्त्रियाम् ॥ Śabdaratnāvalī 7.16.108
- शब्दरत्नाकर ज्येष्ठाज्येष्ठा त्वलक्ष्मीर्नक्षत्रज्यायसी गृहगोलिका । जातिर्जन्मनि मालत्यां सामान्ये ब्राह्मणादिके ॥ १९२६ ॥ Śabdaratnākara 4.1.1926
- वैजयन्ती ज्येष्ठाअलक्ष्म्यग्रजयोर्ज्येष्ठा गृहगोल्यृक्षभेदयोः । जिह्वा वाग्रसनार्चिःषु तन्द्रा निद्राप्रमीलयोः ॥ १५ ॥ Vaijayantī 6.2.15