कल्मष
kalmaṣaक्ली · neut.In 13 kośas: 15 synonym verses, 2 as a meaning of another word.
अलक्ष्मीर्निरृतिः कालकर्णिका स्यादथाशुभम् ।दुष्कृतं दुरितं पापमेनः पाप्मा च पातकम् ॥ १३८० ॥किल्बिषं कलुषं किण्वं कल्मषं वृजिनं तमः ।अंहः कल्कमघं पङ्क उपाधिर्धर्मचिन्तनम् ॥ १३८१ ॥
अनुष्टुप्
genderक्लीneut.
genderविadj.
अस्त्री पङ्कः पुमान्पाप्मा पापं किल्बिषकल्मषम् ।कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम् ॥ २३ ॥
अनुष्टुप्
genderक्लीneut.
वृजिनं दुरितं दुष्कृतमघमंहः किल्विषं तमः कल्कम् ।एनः कल्मषमशुभं पापं स्यात्पातकं पाप्मा ॥ ६२७ ॥
आर्या
genderक्लीneut.
कुपूयकुत्सितावद्यखेटगर्ह्याणका अपि ।स्युर्वाच्यलिङ्गा मलिनं कल्मषं च मलीमसम् ॥ १०४ ॥
अनुष्टुप्
genderविadj.
दैनन्दिनः प्राकृतश्च स च स्याद्द्विविधोऽथ च ।किल्विषं कल्मषं किण्वं कल्कः पङ्कश्च न स्त्रियाम् ॥ ८५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
दुरितमशुभमंहः किल्बिषं पापमङ्घःकुकृत-कलुष-किण्वान्यत्र कृष्णैनसी स्तः ।अपि वृजिनतमोघं कल्मषं न्यङ्ककण्वा-णकमपि मलपङ्कौ पातकं कल्कमस्त्री ॥ ३७ ॥
मालिनी
genderक्लीneut.
वल्कलादीनि नपुंसके जानीयात् । इदं वल्कलं वृक्षत्वक् । कुण्डलं कर्णभूषणम् । हिमं तुहिनम् । चिह्नमङ्कः । खलीनं कण्डिका । ककुदं कर्णभूषणम् । गुह्यं गोप्यस्थानम् । शुल्कं शून्यस्थानम् । शकलं खण्डः । तीरं नदीकूलम् । उलूखलं धान्यादिक्षोदनम् । कवचं सन्नाहः ।मण्डलकेसरभाण्डोत्तरीयसोपानकल्मषानि ।प्रादेरन्तं नपुंसके सह कुटुम्बपुलिनाभ्याम् ॥ ७८ ॥
metre not recognised
genderक्लीneut.
मङ्गः पुण्यं वृषो धर्मः सुकृतं श्रेयसा सह ।अशुभं कल्मषं पापं वृजिनं किण्वपातके ॥ २६९ ॥
अनुष्टुप्
genderक्लीneut.
किल्बिषं कल्मषं पापमेनः पाप्मा च पातकम् ।दुरितं वृजिनं पङ्कमघमंहश्च दुःकृतम् ॥ १३२ ॥
अनुष्टुप्
genderक्लीneut.
पापं च पातकं पाप्मा पङ्कः किण्वं च किल्विषम् ।कल्मषं कलुषं कल्कं दुष्कृतं दुरितं तमः ॥ २५०९ ॥
अनुष्टुप्
genderक्लीneut.
मलीमसं तथा म्लानं मलिनं मलदूषितम् ।कच्चरं कल्मषं चैव कश्मलं कथ्यते तथा ॥ २६०९ ॥
अनुष्टुप्
genderविadj.
क्षयो विलय इत्येष पर्याय प्रलये मतः ।पापं वृजिनमंहः स्यादघं कलुषकल्मषम् ॥
अनुष्टुप्
genderक्लीneut.
कल्मषमभिप्राये तु छन्दो ना छन्दसा षणा ।चतुरश्चतुरको द्वौ नेत्रगोचर ईरितौ ॥ ९ ॥
metre not recognised
genderक्लीneut.
धर्मोऽस्त्री सुकृतं पुण्यं पाप्माधर्मौ तु दुष्कृतम् ।दुरितं पातकं पापं त्रस्तमंहोऽघकल्मषे ॥ १६८ ॥
अनुष्टुप्
genderक्लीneut.
कल्मष as a meaning in nānārtha verses
- कोषकल्पतरु किल्बिषस्याद्धेमले ना निकषः स्त्रियां तु रक्षोजनन्यां नहुषोऽहिराज्ञोः । पापेऽन्तिमे स्यात्कलुषं परस्मिं- स्तदाविले कल्मषरोगयोस्तु । तथापराधेऽपि च किल्बिषं स्या- त्स्पन्दे दृशोः स्यान्निमिषो निमेषः ॥ ४६ ॥ Koṣakalpataru 6.30.46
- परमानन्दीयनाममाला इईषदर्थक्रियायोगसीमाभिव्याप्तिषूक्त आङ् । इः कामे कल्मषे चापि निपातः खेदकुब्वचोः ॥ ५ ॥ Paramānandīyanāmamālā 1.5