अशुभ
aśubhaक्ली · neut.In 12 kośas: 7 synonym verses, 19 as a meaning of another word.
अलक्ष्मीर्निरृतिः कालकर्णिका स्यादथाशुभम् ।दुष्कृतं दुरितं पापमेनः पाप्मा च पातकम् ॥ १३८० ॥किल्बिषं कलुषं किण्वं कल्मषं वृजिनं तमः ।अंहः कल्कमघं पङ्क उपाधिर्धर्मचिन्तनम् ॥ १३८१ ॥
अनुष्टुप्
genderक्लीneut.
वृजिनं दुरितं दुष्कृतमघमंहः किल्विषं तमः कल्कम् ।एनः कल्मषमशुभं पापं स्यात्पातकं पाप्मा ॥ ६२७ ॥
आर्या
genderक्लीneut.
दुरितमशुभमंहः किल्बिषं पापमङ्घःकुकृत-कलुष-किण्वान्यत्र कृष्णैनसी स्तः ।अपि वृजिनतमोघं कल्मषं न्यङ्ककण्वा-णकमपि मलपङ्कौ पातकं कल्कमस्त्री ॥ ३७ ॥
मालिनी
genderक्लीneut.
नपुंसके नाम-धनान्धकार-वियद्धृषीकाम्बुरुहाम्बु-खानाम् ।रत्नान्त्र-सूक्ताशुभ-पुण्य-दुःख-सुखान्न-गासृक्पिशिताशनानाम् ॥ ७० ॥
उपजातिः
genderक्लीneut.
सौख्यं सातं तथा दुःखं पीडा स्यादर्तिवेदने ।कष्टं कृच्छ्रं व्यथा बाधा स्यादाभीलं तथाशुभम् ॥ २६० ॥
अनुष्टुप्
genderक्लीneut.
मङ्गः पुण्यं वृषो धर्मः सुकृतं श्रेयसा सह ।अशुभं कल्मषं पापं वृजिनं किण्वपातके ॥ २६९ ॥
अनुष्टुप्
genderक्लीneut.
अंहश्चाऽङ्घस्तथाऽघं वै वृजिनमशुभं पुनः ।एनोऽष्टादशं नाम मन्यतेऽघस्य साक्षरैः ॥ २५१० ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 2 जि (wrong syllable); pāda 3, syllable 1 ए (syllables merged)
genderक्लीneut.
अशुभ as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् रिष्टरिष्टं क्षेमाशुभाभावेष्वरिष्टे तु शुभाशुभे । Amarakośa 3.3.72
- नामलिङ्गानुशासनम् व्यसनव्यसनान्यशुभं दैवं विपदित्यनयास्त्रयः । Amarakośa 3.3.285
- हलायुधकोशः (अभिधानरत्नमाला) रिष्टजालं कपटेऽप्युक्तं कपालमुक्तं घटादिशकलेऽपि । रिष्टं पापाशुभयोररिष्टमशुभेऽपि निर्दिष्टम् ॥ ८०४ ॥ Abhidhānaratnamālā (Halāyudha) 5.804
- धरणिकोश रिष्टम्लिष्टं म्लानेऽस्पष्टवचे रिष्टं स्यादशुभं शुभम् । दिष्टं दैवे च काले च कष्टं गहनकृच्छ्रयोः ॥ Dharaṇikośa 10.1.3
- धरणिकोश अरिष्टअरिष्टं सूतिकागारे लशुने च शुभेऽशुभे । तक्रेऽपि च तथारिष्टा निम्बफेनिलवायसाः ॥ Dharaṇikośa 10.3.7
- धरणिकोश ऋतिऋतिर्गतौ घृणायां च स्पर्धायामशुभेऽपि च । धाता स्याद्धारकः पोष्टा धातारौ विधिवेधसौ ॥ Dharaṇikośa 15.2.8
- धरणिकोश व्यसनव्यसनश्चाशुभे पापे पानस्त्रीमृगयादिषु । दैवानिष्टफले सक्तौ विपत्तिभ्रंशयोरपि ॥ Dharaṇikośa 19.3.14
- नानार्थार्णवसंक्षेप रिष्टगतेऽथ वेद एवेदं हिंसने क्ली त्रि हिंसिते । रिष्टं स्वभावे क्ली पापेऽप्यथ त्रिरशुभे शुभे ॥ ११०८ ॥ Nānārthārṇavasaṃkṣepa 2.5.1108
- नानार्थार्णवसंक्षेप व्यसननिक्षेपे निष्फलोद्योगेऽप्यशुभे च प्रकीर्तितम् । वार्धकं वृद्धसङ्घाते वृद्धत्वे वृद्धकर्मणि ॥ ७१ ॥ Nānārthārṇavasaṃkṣepa 3.3.71
- नानार्थार्णवसंक्षेप अरिष्टअप्यारण्यकयोः साम्नोः 'पवित्र त'ऋगुत्थयोः । अशुभे च शुभे वर्णविकारे सज्जनः पुनः ॥ १७ ॥ Nānārthārṇavasaṃkṣepa 4.17
- शब्दरत्नावली रिष्टयष्टिर्ना ध्वजदण्डे तु भार्गीमधुकयोर्द्वयोः । तथा हारलताभेदेऽखण्डे शस्त्रविशेषके ॥ रिष्टं शुभेऽशुभे ना तु फेनिलद्रुमखङ्गयोः । रिष्टिः खङ्गे-पुमान् स्त्री स्यादशुभे शस्त्रभिद्यपि ॥ Śabdaratnāvalī 7.11.25
- शब्दरत्नावली अरिष्टअरिष्टः फेनिले कङ्के काके लवणनिम्बयोः । अरिष्टमशुभे तक्रे सत्यसूतीगृहे शुभे ॥ Śabdaratnāvalī 7.11.34
- शब्दरत्नावली शकुनश्वसनं स्याद्गन्धवाहे श्वसिते मदनद्रुमे । शकुनः पक्षिमात्रे स्यात्पक्षिभिच्छुमसंशिवोः ॥ Śabdaratnāvalī 7.20.83
- शब्दरत्नावली उपतापउपतापस्त्वराव्याधिसमुत्तापाशुभार्त्तिषु । जलकूपी पुष्करिण्यां कूपे गर्तेऽपि च स्त्रियाम् ॥ नागपुष्पं चम्पके स्यात्पुन्नागे नागकेशरे । परिवापो जलस्थाने पर्याप्तौ च परिच्छदे ॥ परितापः पुमान् दुःखे शोके च नरकान्तरे ॥ Śabdaratnāvalī 7.21.21
- शब्दरत्नावली अनयअनयो व्यसने दैवे विपत्त्यशुभयोरपि ॥ अत्ययोऽतिक्रमे दोषे विनाशे दण्डकृच्छ्रयोः । अवध्यमवधार्हे स्यादनर्थकवचस्यपि ॥ अव्ययो ना हरौ शब्दभेदेऽस्त्री निर्व्यये त्रिषु । अहार्यः पुंसि शैले स्यादहर्त्तव्येऽभिधेयवत् ॥ अभिख्यानाम्नि शोभायां यशस्याख्यान इत्यपि । अभया स्त्री हरितक्यां वीरणेऽपि च न द्वयोः ॥ निर्भये वाच्यलिङ्गं स्यात्प्रसादेऽपि च कुत्रचित् । अगस्त्यो वङ्गसेनाख्यतरौ कुम्भोद्भवेऽपि च ॥ आशयः स्यादभिप्रायाधारयोः पनसेऽपि च । आत्रेयो ना मुनौ पुष्पवतीनद्योरपि स्त्रियाम् ॥ आम्नायः पुंसि वेदे स्यादुपदेशे कुलक्रमे । उदयस्तून्नतौ दीप्तौ मङ्गले पूर्वपर्वते ॥ उपायः स्यादुपपन्तौ सामभेदादिके पुमान् । ऊर्णायुः क्षणभङ्गे ना मेषे च मेषकम्बले ॥ Śabdaratnāvalī 7.26.38
- शब्दरत्नाकर रिष्टरुचिः कन्तिस्पृहार्चिःषु रीतिः स्थित्यारकूटयोः । रेणुर्मुनौ च पांसौ च रिष्टं नाशे शुभाशुभे ॥ १९८८ ॥ Śabdaratnākara 4.1.1988
- त्रिकाण्डशेष अन्तशेषे विष्णावनन्तो ना गुडूचीदूर्वयोः स्त्रियाम् । क्लीबं खे त्रिष्वनवधावनन्तं मरणेऽशुभे ॥ १४४ ॥ Trikāṇḍaśeṣa 3.3.144
- वैजयन्ती रिष्टरहो रहस्ये सुरते रिष्टं नाशे शुभेऽशुभे । रुक्मं हेम सुलोहं च रेतसी शुक्लमंबु च ॥ २७ ॥ Vaijayantī 6.3.27
- वैजयन्ती अरिष्टअरिष्टो वायसे निंबे गोरसे निरुपद्रवे । क्ली तु वर्ण्ये मृत्युचिह्ने मद्ये ताम्रे शुभेऽशुभे ॥ ९ ॥ Vaijayantī 7.5.9