कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कल्क

kalkaक्ली · neut.

In 16 kośas: 25 synonym verses, 8 as a nānārtha head word, 9 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1381 · p. 52
अलक्ष्मीर्निरृतिः कालकर्णिका स्यादथाशुभम् ।दुष्कृतं दुरितं पापमेनः पाप्मा च पातकम् ॥ १३८० ॥किल्बिषं कलुषं किण्वं कल्मषं वृजिनं तमः ।अंहः कल्कमघं पङ्क उपाधिर्धर्मचिन्तनम् ॥ १३८१ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.627 · p. 71
वृजिनं दुरितं दुष्कृतमघमंहः किल्विषं तमः कल्कम् ।एनः कल्मषमशुभं पापं स्यात्पातकं पाप्मा ॥ ६२७ ॥
आर्या
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर त्रयोदशोपदेशः Bālaprabodhikā 13.282 · p. 91
नेपालजस्तु कस्तूरी नगजस्तु जवादिका ।नृता च सान्द्रगन्धोऽथ वालुका कल्कमस्त्रियाम् ।घनसारस्तु कर्पूरः सिताभ्रो हिमवालुका ॥ २८२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव नारकादिप्रकाण्डः Kalpadrukośa 1.17.3 · p. 367
अराप्यैन्द्री कालकर्णं स्यादलक्ष्मीश्च निरृतिः ।अकं दुःखमघं कल्कं कृच्छ्रं बाधनमित्यपि ॥ ३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 नि (wrong syllable)
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.85 · p. 415
दैनन्दिनः प्राकृतश्च स च स्याद्द्विविधोऽथ च ।किल्विषं कल्मषं किण्वं कल्कः पङ्कश्च न स्त्रियाम् ॥ ८५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.122 · p. 430
अस्त्री दम्भः कल्ककूर्चौ प्रमादोऽनवधानता ।कौतूहलं कौतुकं च कुतुकं च कुतूहलम् ॥ १२२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.88 · p. 471
माध्वीकनिम्बकल्कानां कवकालिकयोस्तथा ।स्यान्नाटकभाणकयोस्तोटकाह्निकयोरपि ॥ ८८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क (wrong syllable)
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.144 · p. 477
वल्कवल्मीकमरककल्कानां पुलकस्य च ।करकस्य व्यलीकस्य पङ्कवर्चस्कयोरपि ॥ १४४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ परमात्मवर्गः Koṣakalpataru 1.1.37 · p. 5
दुरितमशुभमंहः किल्बिषं पापमङ्घःकुकृत-कलुष-किण्वान्यत्र कृष्णैनसी स्तः ।अपि वृजिनतमोघं कल्मषं न्यङ्ककण्वा-णकमपि मलपङ्कौ पातकं कल्कमस्त्री ॥ ३७ ॥
मालिनी
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.18 · p. 169
कपिशः कपिजः कल्को वृकधूपश्चलप्लवः ।भवेत्कृत्रिमधूपश्च याचतः (?) सुरभिस्तथा ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.90 · p. 315
कल्को विनीयो वाःपिष्टश्चूर्णः पिष्टः शिलादिभिः ।[157b]यत्र कल्कः सिद्धतैले क्षेप्यः कल्कोऽतिगन्धवान् ॥ ९० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.96 · p. 315
रसः कल्कः शृतः शीतः फाण्टश्चेति कषायकाः ॥ ९६ ॥
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.81 · p. 104
शैलेय-सृक्कत्त्वचभेषजानांस्थानाञ्जन-द्वार-शुकच्छदानाम् ।ह्रीबेर-पुष्पान्तिक धन्व-वल्क-कुसुम्भ-कल्कौमक-पद्मकानाम् ॥ ८१ ॥
उपजातिः
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.35 · p. 111
genderपुंक्लीm. n.
पल्लवशब्दः पुंसि भवति । अयं पल्लवः । इदं किशलयं प्रवालम् । लाक्षा स्त्रियां स्यात् । इयं लाक्षा जतु । ऋगादयः शब्दाः स्त्रियां भवन्ति । इयमृक् वेदावयवः । रोचना गोपित्त[त]म् । पि[पिं]डका शरायगम्? । कण्डूः खर्जूः । क्षपा रात्रिः ।कललकफपूयकुल्माषकल्ककल्पगेहमखलौहित्याः ।झर्झरपुङ्खचषालाश्च पुंसि कटाहमत्स्यौ च ॥ ५८ ॥
metre not recognised
genderपुंmasc.
एते नपुंसके भवन्ति । इदं शिल्पं कलादिकं कर्म । छर्दिर्वान्तिः । अन्नं भक्ष्यम् । शमलममेध्यम् । मरकतं रत्नम् । पलालं धान्यादीनाम् । कृच्छ्रं कष्टम् । मन्दिरं गृहम् । रिक्थं द्रव्यम् । मन्दुराशब्दं स्त्रियां जानीयात् । इयं मन्दुरा वाजिशाला ।कल्ककृमिमुन्यङ्गारवप्रग्रहहोमर्षियक्ष्मरेफाः ।मण्डकरण्डवरण्डाश्च पुंसि पथाम्बरीषौ च ॥ ८१ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 7 र (wrong syllable); pāda 3, syllable 5 न्या (wrong syllable)
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.82 · p. 47
संवर्तकः कर्षफलः कल्को हार्यः कलिद्रुमः ।कर्षो दैन्यो मधुबीजो धर्मद्वेषी बिभेदकः ॥ ८२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 धु (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.270 · p. 86
अंहो दुष्कृतमेनश्चाघं कल्कं तमसा सह ।दुरितं किल्बषं चापि पङ्कः कलुषमेव च ॥ २७० ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.130 · p. 227
genderपुंक्लीm. n.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2509 · p. 407
पापं च पातकं पाप्मा पङ्कः किण्वं च किल्विषम् ।कल्मषं कलुषं कल्कं दुष्कृतं दुरितं तमः ॥ २५०९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.301 · p. 21
दुरितं पातकं तूस्तं कल्कं दुष्कृतकिल्विषम् ।एनः शल्यं पङ्कमस्त्री पाप्मा पापकमित्यपि ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.484 · p. 34
अस्त्रियां कपटो व्याज उपधिर्दम्भ एव च ।कूटकल्कं च्छद-छद्म-मिष-कैरव-कैतवम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.256 · p. 100
अस्त्री मलः स्यात् कल्कञ्च किटुं किटुकमित्यपि ।जिह्वामलञ्च कुल्लोकं पिटुकं दन्तकिटुकम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 कि (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.261 · p. 100
उच्चारावस्करौ कल्कं पुरीषं मलवर्चसा ।कर्परः स्यात् कपालोऽस्त्री ललाटास्थि च कल्वनः ॥
अनुष्टुप्
genderक्लीneut.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव कालवर्गः Trikāṇḍaśeṣa 1.4.32 · p. 19
शल्यं तूस्तं च कल्कोऽथ भद्रं भल्लं शिवं तथा ।शं शुभं चाव्यये प्राणी सत्त्वो रूपं चतुष्पदः ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.14
साष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले ॥ १३ ॥दीनारेऽपि च निष्कोऽस्त्री कल्कोऽस्त्री शमलैनसोः ।दम्भेऽप्यथ पिनाकोऽस्त्री शूलशङ्करधन्वनोः ॥ १४ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास कार्धश्लोकः Dharaṇikośa 1.2.3 · p. 5
कल्कः पापाशये दम्भे कल्कं किल्बिषकिट्टयोः ।शङ्कुः संख्यान्तरे कामे शम्भौ यादोऽस्त्रभेदयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.9 · p. 136
कल्कोऽस्त्रियां तैलघृतादिशेषेदम्भे च पापे च बिभीतके च ।विट्किट्टयोः पापहृदि त्रिलिङ्ग्यांवल्कं तु शल्केन समार्थमुक्तम् ॥ ९ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.140 · p. 55
श्वेतशालौ गजघ्राणे क्ली तु वारिदकार्मुके ।कल्कस्तुरुष्कसंज्ञाकनिर्यासे ना न तु स्त्रियाम् ॥ १४० ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.141 · p. 55
दम्भे पापाशये पापे स्याद्विष्ठौषधपिष्टयोः ।किट्टेऽप्यथ पलोन्मानचतुर्भागे नृशण्डयोः ॥ १४१ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.5 · p. 177
कल्कोऽस्त्रीघृततैलादिशेषे कर्णमले विटे ।दन्ते विभीतके दम्भे पापे पापाशये त्रिषु ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.13 · p. 95
वेणौ ना कार्मुकं चापे गुणवृक्षेऽपि कूपकः ।कल्को विभीतके तैलादिशेषे चाथ कञ्चुकः ॥ १३ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.10 · p. 230
कल्को ना सिह्लके न स्त्री किट्टे दंभेऽघपिष्टयोः ।कारा बन्धनगेहे स्त्री करे ना बन्धने न षण् ॥ १० ॥
अनुष्टुप्

कल्क as a meaning in nānārtha verses

  • कोषकल्पतरु दम्भयोगे शुभं स्यात्कुशले तु षण्ढे व्याजे निभोऽस्त्री सदृशेऽन्यवच्च । दम्भस्तु कल्के नरि कैतवे च डिम्भोऽर्भके बालिशके तथैव ॥ ३९ ॥ Koṣakalpataru 6.24.39
  • कोषकल्पतरु खलह्रीबेरके पाथसि गोकुले च जलं जडे त्वन्यगतं वदन्ति । खलं तु धान्योच्चयभुव्यपेत- द्वयं च कल्के त्रिषु दुर्जने स्यात् ॥ ४९ ॥ Koṣakalpataru 6.28.49
  • नानार्थार्णवसंक्षेप खलखलं भूस्थानयोस्तक्रविशेषे कथिते च नप् । निष्पीडितरसे कल्के पिण्याकादावथ त्रिषु ॥ ३१० ॥ Nānārthārṇavasaṃkṣepa 2.5.310
  • नानार्थार्णवसंक्षेप वटिशरभाख्यमृगेन्द्रे स्यादिति कश्चिदवोचत । वटिरुद्देहिकाशूननाभ्योः कल्केऽपि कश्चन ॥ १२०२ ॥ Nānārthārṇavasaṃkṣepa 2.5.1202
  • शिवकोष तैलतूलो न स्त्री पिचौ तूलं क्लीबं स्याद्ब्रह्मदारुणि । तैलं कल्के तिलस्नेहे नलः पोटगले नलम् ॥ ४४२ ॥ Śivakoṣa 23.1.442
  • शब्दरत्नावली दम्भदम्भः स्यात्कैतवे कल्के साटोपाहङ्कृतावपि । दृन्भूश्चवज्रचक्राहिमुख्यभूतिषु च स्त्रियाम् ॥ नाभिर्ना चक्रमध्ये च क्षत्रिये मुख्यभूपतौ । द्वयोः प्राण्यङ्गमध्ये तु स्त्रियां कस्तूरिकामदे ॥ निभो व्याजे तु पुंलिङ्गः प्रकाशे सदृशे त्रिषु । रम्भः कपौ च वंशे ना कदल्यप्सरसोः स्त्रियाम् ॥ विभुर्वृद्धे प्रभौ राज्ञि ब्रह्मशङ्करयोः पुमान् । शम्भुर्महेश्वरे सिद्धे सुगते परमेष्ठिने ॥ शुभं क्षेमे शुभोयोगे शुभा कान्तीच्छयोः स्त्रियाम् । सभाद्यूते मन्दिरे च गोष्ट्यां सामाजिके स्त्रियाम् ॥ स्वभूर्विष्णौ विधौ पुंसि स्तम्भः स्थूनाजडत्वयोः । Śabdaratnāvalī 7.24.7
  • त्रिकाण्डशेष दम्भदुन्दुभिर्दैत्यभेदेऽपि दम्भः कैतवकल्कयोः । दुर्लभः कर्चुरेऽकाम्ये सदृशव्याजयोर्निभः ॥ २८७ ॥ Trikāṇḍaśeṣa 3.3.287
  • वैजयन्ती पिण्डिपट्टो नेत्रेऽपि शाणे स्यात् पिण्डिः कल्केऽपि तैलजे । पणो मूल्ये ग्लहे माने कार्षिकव्यवहारयोः ॥ ३४ ॥ Vaijayantī 6.1.34
  • वैजयन्ती खलअर्धे गुडविकारे च खण्डोऽस्त्री खण्डिते त्रिषु । खलं भूस्थानकल्केषु खलो नीचः खलेत्वरी ॥ २५ ॥ Vaijayantī 6.5.25