काष्ठाम्बुवाहिनी
kāṣṭhāmbuvāhinīस्त्री · fem.In 8 kośas: 6 synonym verses, 2 as a meaning of another word.
सांयात्रिकः पोतवणिग्यानपात्रं वहित्रकम् ॥ ८७५ ॥वोहित्थं वहनं पोतः पोतवाहो नियामकः ।निर्यामः कर्णधारस्तु नाविको नौस्तु मङ्गिनी ॥ ८७६ ॥तरीतरिण्यौ वेडी च द्रोणी काष्ठम्बुवाहिनी ।
अनुष्टुप्
genderस्त्रीfem.doubtful
संतारः संतरस्तारोऽप्यथ दुस्तारदुस्तरौ ।काष्ठाम्बुवाहिनी द्रोणी द्रोणिर्द्रुणिरपि द्रुणी ॥ ६८ ॥
अनुष्टुप्
genderस्त्रीfem.
काष्ठाम्बुवाहिनी द्रोणी तरी बेडा तरिण्यपि ।क्षेपणी तु [त?]रीदण्डः कूपको गुणवृक्षकः ॥ ४०९ ॥
अनुष्टुप्
genderस्त्रीfem.
अतीतनौके चागाधा त्रिष्वेते परिकीर्तिताः ।स्वल्पतर्यां तु संचारी द्रोणी काष्ठाम्बुवाहिनी ॥ ४४ ॥
अनुष्टुप्
genderस्त्रीfem.
काष्ठाम्बुवाहिनी द्रोणी जलीयदारुपात्रकम् ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 य (wrong syllable)
genderस्त्रीfem.
अभ्रिः स्त्री काष्ठकुद्दालः कर्णधारस्तु नाविकः ।काष्ठाम्बुवाहिनी द्रोणी नियामः कर्णधारकः ॥ ३२७ ॥
अनुष्टुप्
genderस्त्रीfem.
काष्ठाम्बुवाहिनी as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप द्रोणीआहुः काष्ठाम्बुवाहिन्यां द्रोहस्तु द्रोहणे पुमान् । द्वे तु विग्रखषीजाते मर्त्यजात्यन्तरे विदुः ॥ ६२५ ॥ Nānārthārṇavasaṃkṣepa 2.5.625
- शब्दरत्नावली द्रोणक्लीबे घ्राणं नासिकायां घ्राते स्यादभिधेयवत् । चूर्णो धूल्यां क्षारभेदे चूणं स्यात्पटयुक्तिषु ॥ जिष्णुर्महेन्द्रार्जुनयोर्जित्वरे वाच्यलिङ्गकः । झूणि गुवाकभेदे स्याद्दुटदैवश्रुतौ स्त्रियाम् ॥ त्राणं स्यात्त्रायमाणायां रक्षिते रक्षणेऽपि च । तीक्ष्णं स्याद्विषलौहाजिमुष्ककलवणेषु च ॥ आत्मत्यागिनि तीव्रे च त्रिषु क्लीबं यवाग्रके । द्रोणोऽस्त्रियामाढके तु भवेदाढाचतुष्टये ॥ देशभेदे भारद्वाजे दग्धकाके स्त्रियां क्वचित् । तथा काष्ठाम्बुवाहिन्यां गवादन्यामपि स्त्रियाम् ॥ पणो वराटर्के मूल्ये गृहे कार्षापणेऽपि च । क्रय्ये द्यूते भृतौ वित्ते व्यवहारेऽपि पुंस्ययम् ॥ पार्ष्णि द्वयोः सैन्यपृष्ठे पादग्रन्थ्यधरेऽपि च । स्त्रियामुन्मत्तकान्तायां पार्ष्णी पार्ष्णिरिति द्विधा ॥ प्राणोऽनिले बले काव्यजीवे हृदयमारुते ॥ Śabdaratnāvalī 7.15.9