नौ
nauस्त्री · fem.In 19 kośas: 22 synonym verses, 6 as a nānārtha head word, 10 as a meaning of another word.
सांयात्रिकः पोतवणिग्यानपात्रं वहित्रकम् ॥ ८७५ ॥वोहित्थं वहनं पोतः पोतवाहो नियामकः ।निर्यामः कर्णधारस्तु नाविको नौस्तु मङ्गिनी ॥ ८७६ ॥तरीतरिण्यौ वेडी च द्रोणी काष्ठम्बुवाहिनी ।
अनुष्टुप्
genderस्त्रीfem.
नाव्यं त्रिलिङ्गं नौतार्ये स्त्रियां नौस्तरणिस्तरिः ॥ १० ॥
अनुष्टुप्
genderस्त्रीfem.
तरीर्नौर्मङ्गिनी बेडा नौदण्डः क्षेपणी स्मृता ।अरित्रं कोटिपात्रं स्यात्पुलिन्दो मङ्ग उच्यते ॥ ६७२ ॥
अनुष्टुप्
genderस्त्रीfem.
नौः स्यान्नौका च तरणिस्तरणी च तरिस्तरी ।उडुपः स्यादुडूपोऽपि द्रोणिर्द्रोणी द्रुणिर्द्रुणी ॥ ७२ ॥
अनुष्टुप्
genderस्त्रीfem.
द्वयोर्वारिरथः पुंसि तरान्धुस्तरणस्तरी ।पोतो नौर्वार्वटः क्लीबे वहिनं वहनं पुनः ॥ ५९ ॥
अनुष्टुप्
genderस्त्रीfem.
निर्यामकः क्षेपकस्तु कर्णधारोऽपि नाविकः ।पोतधारः पोतधरो यानादौ नौः समुद्रिया ॥ ६६ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 पो (wrong syllable)
genderस्त्रीfem.
सीमन् शरद्दृशदृक् दृशस्रक् त्वक् स्फिग्द्वार्धुरौ च नौः ।द्यौर्दिव् प्रावृट् त्विट्तृषौ दिगेषेति प्रकृतिः स्त्रियः ॥ ४६ ॥
metre not recognisednearly अनुष्टुप्
genderस्त्रीfem.
तरीस्तरन्ती तरणिस्तरी नौर्वेडा च मङ्गिन्यपि तारणिश्च ।न स्त्री तरण्डोऽप्युडुपश्च पादा-लिन्दी स्त्रियां पुंसि तु कोल-भेलौ ॥ ७० ॥
उपजातिः
genderस्त्रीfem.
सानिः सनिः खानि-खनी जनि[श्च]सास्ना तनुर्नौः कठिनी च पामा ।सूना-हसन्यावपि कर्तनी चकानीस्तथा मेनि-विलेपनीयुक् ॥ ५७ ॥
इन्द्रवज्रा
genderस्त्रीfem.
प्राणो नाम वायुः सोऽस्यास्तीति प्राणी तस्याङ्गं प्राण्यङ्ग इकारः अन्ते यस्य तदिदन्तम् । तत्सर्वं स्त्रीलिङ्गं भवति । तद्यथा । इयं कटिः श्रोणिः अङ्गुलिः पङ्क्तिरित्यादि वस्तिकुक्षिपाणीनामपीदन्तत्वाच्च स्त्रीत्वे प्राप्ते बाधः क्रियते । एतान्विमुच्य वर्जयित्वेत्यर्थः । पुंसीत्यधिकारात्तेषां पुंस्त्वमेव भवति । अयं वस्तिः नाभेरधः । अयं कुक्षिरुदरस्थानम् । अयं पाणिर्हस्त इति । जङ्घादयः शब्दाः स्त्रियां भवन्ति । इयं जङ्घा जानुनोरधस्तात् । पादस्योपरिस्था च । इयं शिरा देहधारिणी । इयं स्नुषा पुत्रवधूः ।इयं नासिका गन्धहारिणी । इयं चूडा शिखा । इयं वसा शोणितविकारः स्नेहश्च ।स्रक्स्रुक्स्फिक्त्वग्वाग्योषितो हि विद्यात्स्त्रियां द्युनावौ च ।दीधितिमेकां[का] मुक्त्वा रश्म्यभिधानं तु पुंस्येव ॥ १८ ॥
metre not recognised
genderस्त्रीfem.
स्रगादयः शब्दाः स्त्रियां भवन्ति । तद्यथा । इयं स्रक् माला । इयं स्रुक् यज्ञोपकरणभाण्डम् । इयं स्फिक् कटिप्रदेशः । इयं त्वक् बहिश्चर्म । इयं वाक् वाणी । इयं योषित् बाला । द्यौश्च नौश्च द्युनावौ च स्त्रियां भवतः इयं द्यौः स्वर्गः । इयं नौः जलतरणिः । हिशब्दः पादपूरणे । दीधितिमेकां वर्ज्जयित्वा रश्मिवाचकाः शब्दाः पर्यायाश्च ये ते पुंसि भवन्ति । तद्यथा इमे रश्मयः प्रग्रहाः किरणाः अंशवः पादाः मयूखाः अभीषवः गभस्तयः घृणय इत्येवमादयः । तुशब्दः पादपूरणे ।मूर्द्ध्नोऽक्षतक्षमज्जश्लेष्मात्माश्मयु[यू]वपूषराजभी रहितम् ।सर्वं द्व्यच्कं नान्तं नपुंसकं पुंसि वा भवेद्ब्रह्मा ॥ १९ ॥
metre not recognised
genderस्त्रीfem.
दर्द्रुपर्शू ऋचा? नौश्च वार्दृशौ गीः पूरा सह ।सपर्यायाः सभेदाश्चेत्यादयः स्युः स्त्रियां घनाः? ॥ ६९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 पू (wrong syllable)
genderस्त्रीfem.
तरण्यां नौस्तरिस्तारिः सदुर्दः सह इत्यपि ।अर्धनावं तु नावोऽर्धेऽप्यतिसं प्रचलं तथा ॥ ४३ ॥
अनुष्टुप्
genderस्त्रीfem.
कैवर्तो धीवरो दासो नौका नौस्तरणिस्तरिः ।नौवाहकः कर्णधारो नाविकोऽरित्रचालकः? ॥ ३०० ॥
अनुष्टुप्
genderस्त्रीfem.
बोहित्थं वहनं पोतो यानपात्रं वहित्रकम् ।द्रोणी तु मङ्गिनी वेडा नौका नौस्तरणिस्तरी ॥ १२० ॥
अनुष्टुप्
genderस्त्रीfem.
नौका नौश्च तरी बेडा तरणी तरणिस्तरिः ।मङ्गिनी चेति नामानि नौकायाः मन्यतां जनः ॥ १४६६ ॥
अनुष्टुप्
genderस्त्रीfem.
स्त्रियां नौस्तारिका नौका तरणिस्तरणी तरी ।तरिः तरण्डा स्यात् तरण्डः पादानिन्दा दथो प्लवा ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
नकारः सुगति बन्धे नेता नीस्तरणो च नौः ।नुः स्तुतौ ना निषधे च नो भवेत्प्रतिषेधके ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable); pāda 3, syllable 6 ष (wrong syllable)
genderस्त्रीfem.
समुद्रीयं तु त्रिष्वब्धिभवे सामुद्रिकस्त्वयम् ।समुद्रयात्रादैवज्ञो नौस्तरिस्तरणिः स्त्रियाम् ॥ ३२४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तु (wrong syllable)
genderस्त्रीfem.
आगूयवागूवाक्सृ(स्र?)क्त्वक्स्फिग्ज्योग्नौदिगृगुष्णिहः ।संध्या कथा[शीः] कन्था द्वाः पूर्धूर्गी[र्विट्] पिपीलिका ॥ २३११ ॥
अनुष्टुप्
genderस्त्रीfem.
चुलुको धनजम्बाले दलाढ्ये पंककर्वटः ।तरणो भेलके वारिरथो नौस्तरिकः प्लवः ॥ ५ ॥
अनुष्टुप्
genderस्त्रीfem.
पोहित्थं तु प्रवहणं पोथश्चाप्यथ मंगिनी ।नौस्तरिस्तरणी वेटी द्रोणी काष्ठांबुवाहिनी ॥ १५ ॥
अनुष्टुप्
genderस्त्रीfem.
बन्धे बुद्धेऽभावे नो नरि ना नौस्तरण्यां स्यात् ॥ ८१ ॥
meaningsतरणि
निः क्रीते निश्चये व्यूहे निषेधे नोननाः पुनः ।निपाताः प्रतिषेधार्था नीर्धून्यां नौस्तरी मता ॥ २९ ॥
अनुष्टुप्
meaningsतरी
नेता नीश्च समाख्यातस्तरणौ नौः प्रकीर्त्तिता ।(न-कारः सौगते बुद्धौ स्तुतौ सूर्ये च कीर्त्तितः ॥ २२ ॥
अनुष्टुप्
meaningsतरण
नौ as a meaning in nānārtha verses
- धरणिकोश तरणितरणिः कुमारिकाख्यायामोषधौ नावि भास्करे । भरणी घोषके ऋक्षे भरणं वेतने भृतौ ॥ Dharaṇikośa 14.2.17
- धरणिकोश तरितरिः स्यान्नावि भाण्डे च दीपादिस्थितिहेतुके । स्थिरा भूः सालपर्णी च स्थिरौ कठिननिश्चलौ ॥ Dharaṇikośa 26.2.3
- कोषकल्पतरु द्रोणीकाष्ठाद्यै रचितासु नौषु च गवां घासादिभोज्यस्थितौ मोणः शुष्कफले करण्ड उदितः स्यान्मक्षिकादावपि । कण्ठाल्यां तु भवेत्स्त्रियामथ भवेद्गौणी च*त्रन्तरे भेद्ये स्या[279a]द्गुणयोगिकेऽथ रविजे वाद्यान्तरेऽस्रौ पुमान् ॥ ६ ॥ Koṣakalpataru 6.15.6
- कोषकल्पतरु रोकस्वक्षो हृदि स्याद्वृषभे तु पुंसि नोधा मुनौ स्तव्यगतोऽन्यवच्च । योगः समाधौ समये तथान्त्ये रोकोऽस्त्रियां नावि तरित्रयेऽपि ( ? ) ॥ Koṣakalpataru 6.31.41
- नानार्थार्णवसंक्षेप तरिसूनायां तु स्त्रियां ना तु तरिर्वैश्वानरानले । स्त्री चर्मवृतपेडायां नावि चाथ तनुः स्त्रियाम् ॥ ५०९ ॥ Nānārthārṇavasaṃkṣepa 2.5.509
- नानार्थार्णवसंक्षेप वेटीवेटी स्त्री नावि वेटस्तु ना शब्दे वेष्टवाक् तु ना । श्रीवेष्टसंज्ञे निर्यासे वेष्टने तु नरस्त्रियोः ॥ १२९६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1296
- नानार्थार्णवसंक्षेप तरणिस्त्रियां तु नावि नद्यां च पुष्पस्तम्बान्तरे तथा । कुमारीसंज्ञके किञ्च व्रजस्तम्भे स चाप्ययम् ॥ ८३९ ॥ Nānārthārṇavasaṃkṣepa 4.839
- शब्दरत्नाकर तरणितरणिः स्त्री हविर्मन्थे नावि पुंसि तु भास्करे । दृङ्मध्ये स्त्री पुमान् दैत्ये नक्षत्रे तारकं न ना ॥ २०९६ ॥ Śabdaratnākara 4.1.2096
- त्रिकाण्डशेष तरीधान्याके तुम्बरी शुन्यां ताम्रं शुल्वेऽरुणे त्रिषु । पेटके नावि च तरी तुषारः शीकरे हिमे ॥ ३५४ ॥ Trikāṇḍaśeṣa 3.3.354
- वैजयन्ती तरणिस्त्री नौनद्योर्व्रजस्तंभे तरणिर्नार्णवे रवौ । भुवीन्द्रपुत्र्यां तविषी ताविष्यब्धिदिवोर्नरौ ॥ ४२ ॥ Vaijayantī 7.5.42