कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कूपक

kūpakaपुं · masc.

In 13 kośas: 25 synonym verses, 6 as a nānārtha head word, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.877 · p. 35
नौकादण्डः क्षेपणी स्याद्गुणवृक्षस्तु कूपकः ॥ ८७७ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य जलकायः Abhidhānacintāmaṇi 4.2.1088 · p. 42
परीवाहा जलोच्छ्वासाः कूपकास्तु विदारकाः ॥ १०८८ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वारिवर्गः Amarakośa 1.10.12
जलोच्छ्वासाः परीवाहाः कूपकास्तु विदारकाः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वारिवर्गः Amarakośa 1.10.12
नियामकाः पोतवाहाः कूपको गुणवृक्षकः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.130
कूपकौ तु नितम्बस्थौ द्वयहीने ककुन्दरे ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.655 · p. 74
सांयात्रिकः पोतवणिक् पोतः प्रवहणं स्मृतम् ।कूपको गुणवृक्षः स्यान्निर्यामः कर्णधारकः ॥ ६५५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.203 · p. 42
अधो नितम्बः स्त्रीकट्याः पुमान्स च कटीरकः ।तदग्राधः पुनः क्लीबे जघनं चाथ कूपकौ ॥ २०३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.24 · p. 346
अपि तु स्यात्पत्रयुक्ते पङ्कः कर्वटिकोऽस्त्रियाम् ।दमः कर्दमशादौ च कूपकास्तु विदारकाः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.63 · p. 350
कोटिपात्रं स्त्र्यभ्रिरभ्री काष्ठकुद्दालकः पुमान् ।सेचनं सेकपात्रं स्याद् गुणवृक्षस्तु कूपकः ॥ ६३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.119 · p. 474
विधकूपकलम्बानां जित्यस्य सहवध्रया ।सहचरमुद्गरयोर्हीरस्य कृशरस्य च ॥ ११९ ॥
अनुष्टुप्metre not read in every line
genderपुंस्त्रीm. f.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.41 · p. 103
उदपानं पुंसि वा स्याद्द्वंद्वे कूपो जलाम्बिका ।सप्रप्यान(?)स्तथापीनो भेद्यवद्वृद्धिमान्यदि ।कोट्टारश्चारघट्टश्च महाकूपोऽथ कूपकः ॥ ४१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.72 · p. 107
पोलिन्दा मध्यदण्डाः स्युः कूपको[68b] गुणवृक्षकः ।कर्ण-नौरथ-केपाता अरित्रं कोटिपात्रकम् ॥ ७२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.65 · p. 216
रताकुके कूपकौ च द्वयोः श्रोणिः कटिः स्त्रियाम् ।ककुद्मती त्रिकस्थानं कलत्रं रसनापदम् ॥ ६५ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.16 · p. 296
तैलपात्रं कूपकः स्याद्रङ्गाजीवस्तु चित्रकृत् ।भवेत्तौलिकिकश्चाथ शस्त्रमार्जोऽसिधावकः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.368 · p. 50
जलोच्छ्वासाः परीवाहाः कूपकास्तु विदारकाः ।प्रणाली जलमार्गश्च पानं कुल्या च सारणिः ॥ ३६८ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.409 · p. 152
काष्ठाम्बुवाहिनी द्रोणी तरी बेडा तरिण्यपि ।क्षेपणी तु [त?]रीदण्डः कूपको गुणवृक्षकः ॥ ४०९ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंस्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.4.110 · p. 224
genderपुंस्त्रीm. f.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट पाताललोकसर्गः Paryāyaśabdaratna 3.52 · p. 129
नद्यादिमध्ये नौकादिबन्धकी जलमध्यगः ।अयोविकारो(र?)जास्तस्मिन् कूपको गुणवृक्षकः ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1468 · p. 233
नौसञ्चालकदण्डस्यैतन्नामानि संभवन्ति वै ।कूपको गुणवृक्षश्च प्रोक्तो नौकूपस्तम्भकः ॥ १४६८ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 5 प (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अप्कायनामानि Suśīlanāmamālā 5.2.1901 · p. 311
जलार्थमिह खन्यन्ते कूपकाश्च विदारकाः ॥ १९०१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.52 · p. 40
जलोच्छायः परीवाहो जलोर्ध्वगमने द्वयम् ।विदारकः कूपकस्तु जलबन्धक इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.60 · p. 40
नौकाबन्धनकाष्ठे तु कूपको गुणवृक्षकः ।नौकादण्डः क्षेपणिः स्यात् क्षेपणी क्षिपणी तथा ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.326 · p. 44
अर्धनावं तु नावोऽर्धं कूपको गुणवृक्षकः ।सेचनं सेकपात्रं स्यादरित्रं केनिपातकः ॥ ३२६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.329 · p. 44
सांयात्रिकः पोतवणिक् पोतवाहा नियामकाः ।आतरस्तरपण्यं स्यात्कूपकास्तु विदारकाः ॥ ३२९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश जलाध्यायः Vaijayantī 4.2.31 · p. 156
जलोच्छ्वासाः परीवाहाः कूपकास्तु विदारकाः ।सञ्छेद्यं संगमो नद्योः संभेदोऽप्यथ रोधसि ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास कार्धश्लोकः Dharaṇikośa 1.2.27 · p. 8
पक्षकः पार्श्वमात्रे स्यात्पक्षद्वारे च पक्षकः ।कूपको वृक्षभेदे स्यात्कूपभेदे च कूपकः ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास कश्लोकः Dharaṇikośa 1.3.11 · p. 16
कूपको जलतरङ्गसंचारप्रस्तरादिषु च नौगुणक्रमे ।कूपको विवरमात्रके स्मृतः कूपिका च रसवस्तुकुण्डिका ॥
रथोद्धताmetre not read in every line
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.65 · p. 144
स्यात्पूगकोशे कृमिपर्वते चपाके शिरस्त्रेऽपि च खोलको ना ।स्याद्गोलको ना मणिके गुडेऽपितोयस्थितग्राव्णि तु कूपकः स्यात् ॥ ६५ ॥
इन्द्रवज्रा
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.56 · p. 180
कूपकस्तैलपात्रे स्यात् गुणवृक्षे कुकुन्दरे ॥
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.57 · p. 180
उदपाने चितायान्तु शिलायां कूपिकापि च ॥
doubtful
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.13 · p. 95
वेणौ ना कार्मुकं चापे गुणवृक्षेऽपि कूपकः ।कल्को विभीतके तैलादिशेषे चाथ कञ्चुकः ॥ १३ ॥
अनुष्टुप्

कूपक as a meaning in nānārtha verses

  • कोषकल्पतरु कूपरोपो रोपणबाणयोरथ भवेत्सूपः पुमान्व्यञ्जने तत्कारे स्पृशि तु क्षुपे छुप इति स्याद्वायुवेण्योश्च यः । कूपोऽन्धौ गुणवृक्षके च विवरे मृन्मानके कूपके तापः स्यात्पचते तथातितपने नद्यन्तरे च स्त्रियाम् ॥ २ ॥ Koṣakalpataru 6.22.2
  • शब्दरत्नावली चूतकचूलिका नाटकाङ्गे स्यात् करिणां कर्णमूलके । जनकस्तातनृपयोश्चूतकः कूपकाम्रयोः ॥ Śabdaratnāvalī 7.1.74
  • शब्दरत्नावली कूपकपिर्ना वानरेऽपि स्याद्वासुदेवे च सिरके । कूपःकूपकगर्त्ताह्वमृन्मानगुणवृक्षके ॥ Śabdaratnāvalī 7.21.3