तरी
tarīस्त्री · fem.In 12 kośas: 17 synonym verses, 2 as a nānārtha head word, 2 as a meaning of another word.
सांयात्रिकः पोतवणिग्यानपात्रं वहित्रकम् ॥ ८७५ ॥वोहित्थं वहनं पोतः पोतवाहो नियामकः ।निर्यामः कर्णधारस्तु नाविको नौस्तु मङ्गिनी ॥ ८७६ ॥तरीतरिण्यौ वेडी च द्रोणी काष्ठम्बुवाहिनी ।
अनुष्टुप्
genderस्त्रीfem.
तरीर्नौर्मङ्गिनी बेडा नौदण्डः क्षेपणी स्मृता ।अरित्रं कोटिपात्रं स्यात्पुलिन्दो मङ्ग उच्यते ॥ ६७२ ॥
अनुष्टुप्
genderस्त्रीfem.
नौः स्यान्नौका च तरणिस्तरणी च तरिस्तरी ।उडुपः स्यादुडूपोऽपि द्रोणिर्द्रोणी द्रुणिर्द्रुणी ॥ ७२ ॥
अनुष्टुप्
genderस्त्रीfem.
धूमस्तरीर्मेघवाही यूपोसौगन्धवासितः ।झलका तु महाज्वाला प्रवर्गो नीलकोऽपि च ॥ ५३ ॥
अनुष्टुप्
genderस्त्रीfem.
द्वयोर्वारिरथः पुंसि तरान्धुस्तरणस्तरी ।पोतो नौर्वार्वटः क्लीबे वहिनं वहनं पुनः ॥ ५९ ॥
अनुष्टुप्
genderस्त्रीfem.
तरीः प्लवो भिलो नौका न स्त्रियामुडुपोलुपौ ।आकर्षोऽपि च कर्षुः स्यात्पुनः क्लीबे सुखायनम् ॥ ६० ॥
अनुष्टुप्
genderस्त्रीfem.
तरीस्तरन्ती तरणिस्तरी नौर्वेडा च मङ्गिन्यपि तारणिश्च ।न स्त्री तरण्डोऽप्युडुपश्च पादा-लिन्दी स्त्रियां पुंसि तु कोल-भेलौ ॥ ७० ॥
उपजातिः
genderस्त्रीfem.
धूमध्वजो बृहद्भानुर्ज्वलाजिह्वस्तनूनपात् ।वैश्वानरः सप्तमन्त्रो जातवेदास्तरीरपि ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
धूमोम्भःसूवायुवाहौ करमालोऽग्निकेतनम् ।अग्निवाहस्तरीः प्रोक्तस्तथा जीमूतवाह्यपि ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
काष्ठाम्बुवाहिनी द्रोणी तरी बेडा तरिण्यपि ।क्षेपणी तु [त?]रीदण्डः कूपको गुणवृक्षकः ॥ ४०९ ॥
अनुष्टुप्
genderस्त्रीfem.
बोहित्थं वहनं पोतो यानपात्रं वहित्रकम् ।द्रोणी तु मङ्गिनी वेडा नौका नौस्तरणिस्तरी ॥ १२० ॥
अनुष्टुप्
genderस्त्रीfem.
नौका नौश्च तरी बेडा तरणी तरणिस्तरिः ।मङ्गिनी चेति नामानि नौकायाः मन्यतां जनः ॥ १४६६ ॥
अनुष्टुप्
genderस्त्रीfem.
स्त्रियां नौस्तारिका नौका तरणिस्तरणी तरी ।तरिः तरण्डा स्यात् तरण्डः पादानिन्दा दथो प्लवा ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
पिटकः पेटकः पेटः पेटिका च तरिस्तरी ।मञ्जुषापि च मञ्जूषा पेटा च पेडिकेत्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderस्त्रीfem.
तन्त्री रवीस्तरीर्लक्ष्मी र्वातप्रम्यपि वाधिता ।श्रद्धाकारनदीकारावुङ् स्त्रियान्तु चराचरे ॥
अनुष्टुप्
genderस्त्रीfem.
तरी स्तरी च काष्ठाम्बुवाहिन्यां द्रुणिवद्द्रुणीः ।द्रोणिर्द्रोणी च नौदण्डे क्षेपणिः क्षेपणीयुता ॥ ३२३ ॥
अनुष्टुप्
genderस्त्रीfem.
अग्निवाहस्तरीः स्वाहा त्वऽग्नायी दहनप्रिया ।जीवितेशो यमः शीर्णपादश्च महिषध्वजः ॥ ७० ॥
अनुष्टुप्
genderस्त्रीfem.
तरी as a meaning in nānārtha verses
- कोषकल्पतरु कलाशुक्रेऽन्तिमे स्त्रीरजसि स्त्रियां स्या- दंशे तथा मूलधनप्रवृद्धौ । शिल्पादिके स्याच्छशिषोडशांशे व्याजे च तर्यां कलनाकलार्थः ॥ ८४ ॥ Koṣakalpataru 6.28.84
- परमानन्दीयनाममाला नौनिः क्रीते निश्चये व्यूहे निषेधे नोननाः पुनः । निपाताः प्रतिषेधार्था नीर्धून्यां नौस्तरी मता ॥ २९ ॥ Paramānandīyanāmamālā 1.29