कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

द्रोणी

droṇīस्त्री · fem.

In 18 kośas: 27 synonym verses, 8 as a nānārtha head word, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.725 · p. 35
सांयात्रिकः पोतवणिग्यानपात्रं वहित्रकम् ॥ ८७५ ॥वोहित्थं वहनं पोतः पोतवाहो नियामकः ।निर्यामः कर्णधारस्तु नाविको नौस्तु मङ्गिनी ॥ ८७६ ॥तरीतरिण्यौ वेडी च द्रोणी काष्ठम्बुवाहिनी ।
अनुष्टुप्
genderस्त्रीfem.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.152 · p. 40
द्रोणी तु शैलयोः संधिः पादाः पर्यन्तपर्वताः ।
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वारिवर्गः Amarakośa 1.10.11
आतरस्तरपण्यं स्याद्द्रोणी काष्ठाम्बुवाहिनी ॥ ११ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.141
genderस्त्रीfem.
नौः स्यान्नौका च तरणिस्तरणी च तरिस्तरी ।उडुपः स्यादुडूपोऽपि द्रोणिर्द्रोणी द्रुणिर्द्रुणी ॥ ७२ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.421 · p. 296
दीर्घमूलोऽप्यथ द्रोणी करम्भा पुष्पमञ्जरी ।इन्दीवरा युग्मफला दीर्घवृन्तोत्तमारणी ॥ ४२१ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.512 · p. 306
सिन्दुकच्छपिका भूतकेशी द्रोणी च नीलिका ।निर्गुण्डिरपि निर्गुण्डी द्रोणी ना सिन्दुवारितः ॥ ५१२ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव पर्वतादिप्रकाण्डः Kalpadrukośa 1.13.18 · p. 342
मेखला मध्यभागोऽद्रेर्नितम्बः कटकोऽस्त्रियाम् ।द्रोणी तु शैलयोः सन्धिः स्यात्प्रस्थः सानुरस्त्रियाम् ॥ १८ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.68 · p. 351
संतारः संतरस्तारोऽप्यथ दुस्तारदुस्तरौ ।काष्ठाम्बुवाहिनी द्रोणी द्रोणिर्द्रुणिरपि द्रुणी ॥ ६८ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.54 · p. 171
करम्भा कर्कशा द्रोणी दीर्घवृन्तोत्तमारणी ।इन्दीवरा युग्मफला सशोणी नालिका च सा ॥ ५४ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.76 · p. 173
ग्रामीणा नीलिनी नीली काला क्लीतकिकापि च ।रञ्जनी श्रीफली तुच्छा द्रोणी दोला विशोधि(ध)नी ॥ ७६ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.52 · p. 286
पशुरज्जुर्दामनी स्यात्प्रजनोपसरौ समौ ।द्रोणी गवादनी च स्त्री गवादेर्भक्ष्यभाजनम् ।गोगोयुगं तु गोयुग्ममेवं स्यादुष्ट्रगोयुगम् ॥ ५२ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.14 · p. 292
शूर्पाभ्यां तु भवेद्द्रोणी गोणी स्त्री च वहो नरि ।गोणीभिः पञ्चभिः क्रीते पञ्चगोणिर्विशेष्यवत् ॥द्रोण्यश्चतस्रः खारी स्यात्पलानां तु शतं तुला ।ऊर्णापलशते तु स्यात्कम्बलं मिथुने न तत् ॥ १४ ॥
अनुष्टुप्
genderस्त्रीfem.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र गुल्मकाण्डः Nighaṇṭuśeṣa 2.251 · p. 137
द्रोणी क्लीतकिका ग्राम्या नीलकेशी महारसा ।दमने स्याद्ब्रह्मजटा मुनिर्दान्तर्षिपुत्रकौ ॥ २५१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्ब्र (wrong syllable)
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.313 · p. 43
पर्यन्तपर्वताः पादा द्रोणी सन्धिस्तु शैलयोः ।तिर्यग्बहिःप्रदेशाः स्युः दन्तका निर्गता गिरेः ॥ ३१३ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.409 · p. 152
काष्ठाम्बुवाहिनी द्रोणी तरी बेडा तरिण्यपि ।क्षेपणी तु [त?]रीदण्डः कूपको गुणवृक्षकः ॥ ४०९ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट पाताललोकसर्गः Paryāyaśabdaratna 3.44 · p. 128
अतीतनौके चागाधा त्रिष्वेते परिकीर्तिताः ।स्वल्पतर्यां तु संचारी द्रोणी काष्ठाम्बुवाहिनी ॥ ४४ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.120 · p. 13
बोहित्थं वहनं पोतो यानपात्रं वहित्रकम् ।द्रोणी तु मङ्गिनी वेडा नौका नौस्तरणिस्तरी ॥ १२० ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1388 · p. 233
काष्ठाम्बुवाहिनी द्रोणी जलीयदारुपात्रकम् ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 य (wrong syllable)
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1784 · p. 292
द्रोणी च शैलयोः सन्धिः साक्षरः मन्यते सदा ॥ १७८४ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.58 · p. 40
अथ काष्ठाम्बुवाहिन्यां द्रोणी द्रोणिर्द्रुणिर्द्रुनिः ।पादारकश्च पोलिन्दः पत्रबालस्तुला धटः ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.176 · p. 70
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.34 · p. 310
अब्धिद्रोणीरसाला श्रुतिविरतिगुहाशुक्तिमुक्तावडभ्यः ।आदौ भूम्निस्थलीज्यानियतितरलिकावेदिभित्तिश्रुचोपि ।वल्यवल्लीविदारीत्रुटिधमनिशिखामल्लिकायूषिकात्वक् ।दृष्टिजिह्वाऽटवीद्राः सनिविकृतिकणादेहलीमृत्तिकाश्च ॥
स्रग्धराmetre not read in every line
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.323 · p. 215
तरी स्तरी च काष्ठाम्बुवाहिन्यां द्रुणिवद्द्रुणीः ।द्रोणिर्द्रोणी च नौदण्डे क्षेपणिः क्षेपणीयुता ॥ ३२३ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.327 · p. 44
अभ्रिः स्त्री काष्ठकुद्दालः कर्णधारस्तु नाविकः ।काष्ठाम्बुवाहिनी द्रोणी नियामः कर्णधारकः ॥ ३२७ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण स्त्रीलिङ्गप्रकरणम् Śabdaratnākara 7.1.2314 · p. 281
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश जलाध्यायः Vaijayantī 4.2.15 · p. 155
पोहित्थं तु प्रवहणं पोथश्चाप्यथ मंगिनी ।नौस्तरिस्तरणी वेटी द्रोणी काष्ठांबुवाहिनी ॥ १५ ॥
अनुष्टुप्
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास णश्लोकः Dharaṇikośa 14.3.6 · p. 57
द्रोणो मानवि[शे]षे स्यात्काकेऽर्जुनगुरौ तथा ।पानीयोद्धरणी द्रोणी देशभेदे च कीर्तिता ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ णान्ताः Koṣakalpataru 6.15.5 · p. 194
प्रायो भूम्न्यसुषु त्रिषु त्वयमिह स्यात्पूरितेऽथ द्रुणंचापेऽसौ च पुमांस्तु वृश्चिकगतो भृङ्गेऽथ कूर्म्यां द्रुणी ।वार्द्रोण्यां च कृपीपतौ तु गदितः पुंस्याढके तच्चतु-ष्के द्रोणः करटेऽसिते द्रुणिरिव द्रोणी च नीवृद्भिदि ॥ ५ ॥
शार्दूलविक्रीडितम्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ णान्ताः Koṣakalpataru 6.15.6 · p. 194
काष्ठाद्यै रचितासु नौषु च गवां घासादिभोज्यस्थितौमोणः शुष्कफले करण्ड उदितः स्यान्मक्षिकादावपि ।कण्ठाल्यां तु भवेत्स्त्रियामथ भवेद्गौणी च*त्रन्तरेभेद्ये स्या[279a]द्गुणयोगिकेऽथ रविजे वाद्यान्तरेऽस्रौ पुमान् ॥ ६ ॥
शार्दूलविक्रीडितम्metre not read in every line
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.624 · p. 96
स्त्री तु द्रोणी द्रोणपुष्पीसंज्ञस्तम्बे गिरिप्लवे ।शैलस्य शिलयोः सन्धौ द्रवभाण्डे तथापरे ॥ ६२४ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.625 · p. 96
आहुः काष्ठाम्बुवाहिन्यां द्रोहस्तु द्रोहणे पुमान् ।द्वे तु विग्रखषीजाते मर्त्यजात्यन्तरे विदुः ॥ ६२५ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास दकारादयः Paramānandīyanāmamālā 5.16.236 · p. 192
भृङ्गे कीटे द्रुणं चापे कच्छपान्तरखड्गयोः ।द्रोणी बेडान्तरे भूध्रसंधावथ दिवं जले ॥ २३६ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.130 · p. 136
काष्ठागारेऽम्बुवाहिन्यां शैलसन्धौ च योषिति ।द्रोणी न स्त्री मानभेदे द्रोणः काके कृपीपतौ ॥ १३० ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश स्त्रीलिङ्गाध्यायः Vaijayantī 6.2.18 · p. 221
दरदो भीतिहृद्गूढा दृष्टिर्धीदर्शनाक्षिषु ।द्रोणी स्यादम्बुवाहिन्यां द्रवभाण्डे गिरिप्लवे ॥ १८ ॥
अनुष्टुप्

द्रोणी as a meaning in nānārtha verses