कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कुतू

kutūस्त्री · fem.

In 11 kośas: 10 synonym verses, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.136 · p. 40
कुतूश्चर्मस्नेहपात्रं कुतुपं तु तदल्पकम् ।
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.56
कुतूः कृत्तेः स्नेहपात्रं सैवाल्पा कुतुपः पुमान् ।
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.109 · p. 144
अथ स्त्रियां कुतूः कृत्तेः स्नेहपर्यायभाजनम् ।सैवाल्पा कुतुपः पुंसि कॢप्ताऽसंस्कृतचर्मणा ॥ १०९ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.69 · p. 278
कुतूः कृत्तेः स्नेहपात्रं सैवाल्पा कुतुपः पुमान् ।कृता सर्वा चर्मणा सा सार्वचर्मीणकोच्यते ॥ ६९ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.302 · p. 42
कौशिका मल्लिका तुल्ये चषकः कंससंज्ञकः ।पारी तु स्यात्पानपात्रं स्नेहपात्रं कुतूः स्त्रियाम् ॥ ३०२ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.449 · p. 83
चर्मनिर्मितपात्रे तु कुतूरित्यभिधीयते ।कुत(तु?)पस्तु स्वल्पकुतूभेदे कुतिक इत्यपि ॥ ४४९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्व (wrong syllable)
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1764 · p. 288
घृततैलादिपात्रस्य ख्यातं नाम कुतूरिह ॥ १७६४ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.69 · p. 142
अथ कांस्यञ्च कंसोऽस्त्री पानभाजनमित्यपि ।कुतूः चर्मस्नेहपात्रे सा स्वल्पा कुतुपस्त्वयम् ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पुराध्यायः Śabdaratnākara 2.6.901 · p. 113
मल्ली मल्लोऽथ मञ्जूषा पेटा पिटकपेटकौ ।स्नेहपात्रे कुतूः कृत्तेः सैवाल्पा कुतुपः पुमान् ॥ ९०१ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.60 · p. 163
खल्वं क्लीबे चर्ममयी त्वालुः करकवर्तिका ।स्नेहपात्रं कुतूः कृत्तिः सैवाल्पा कुतुपः पुमान् ॥ ६० ॥
अनुष्टुप्
genderस्त्रीfem.

कुतू as a meaning in nānārtha verses