कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कृत्ति

kṛttiस्त्री · fem.

In 17 kośas: 20 synonym verses, 4 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.630 · p. 27
त्वक्छविश्छादनी कृत्तिश्चर्माजिनमसृग्धरा ॥ ६३० ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.46
अजिनं चर्म कृत्तिः स्त्री भैक्षं भिक्षाकदम्बकम् ॥ ४६ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.630 · p. 72
कबन्धः कथ्यते रुण्डः क्षतमीर्ममरुर्व्रणः ।असृग्धराजिनं चर्म कृत्तिस्त्वक् परिकीर्तिता ॥ ६३० ॥
अनुष्टुप्
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वादशोपदेशः Bālaprabodhikā 12.207 · p. 85
उदुम्बरे तु मशकी पलाशे किंशुकोऽपि च ।हस्तिकर्णिदले कृत्तिर्बिल्वे मालूरमङ्गलौ ॥ २०७ ॥
अनुष्टुप्
genderस्त्रीfem.
भरणिर्भरणी चोक्ता कृत्तिका कृत्तिरुच्यते ।रोहिणी रोहिणिश्च स्यादिल्वला इल्लता (इल्लका?) स्त्रियः ॥ २८ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.239 · p. 46
इत्यादिकाः शिराभेदा विज्ञेया योगशास्त्रतः ।त्वक्त्वचाऽसृग्धरा कृत्तिश्छादिनीरोमभूरपि ॥ २३९ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.46 · p. 223
बलं वीर्या न ना वध्रं त्वक्त्वचासृग्धरा शिपिः ।;l(5270}कृत्तिश्छविश्छादनी च त्वचो ना चर्म चाजिनम् ॥ ४६ ॥
अनुष्टुप्Latin letters: l
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.97 · p. 242
वृसी च कृत्तिस्त्वजिनं चर्म च व्रतिवाससि ॥ ९७ ॥
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.52 · p. 100
genderस्त्रीfem.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.117 · p. 23
प्राचीनावीतमन्यस्मिन्निवीतं कण्ठलम्बितम् ।कृष्णाजिनं कर्णिकः स्यात्कृत्तिः स्त्री चर्म चाजिनम् ॥ ११७ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.284 · p. 136
पुंस्त्वं मज्जसमुद्भूतमिन्द्रियानन्दसंभवे ।तनूरुहं लोम रोम चर्म कृत्तिस्तथाजिनम् ॥ २८४ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.122 · p. 17
राधा रधा विशाखायां रोहिण्यां रोहिणी मता ।कृत्तिकायां तु कृत्तिः स्यात्कार्तिकेति च गीयते ॥ १२२ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति ब्रह्मवर्गः Śāradīyākhyanāmamālā 3.1.6 · p. 35
अजिनं चर्म कृत्तिस्त्वक्चीरं वल्कं च वल्कलम् ।वितर्दिर्वेदिका वेदी गुहा स्यात्कन्दरा दरी ॥ ६ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1017 · p. 156
असृग्धराऽजिनं चर्म त्वक् कृत्तिः छादनी छविः ।अजिनं चर्म कृत्तिस्तु नामानि मृगचर्मणः ॥ १०१७ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.212 · p. 15
कृत्तिका कृत्तिरप्युक्ता रोहिणी चापि रोहिणिः ।राधा विशाखा विज्ञेया पुष्यायां पुष्य इत्यपि ।सिध्यस्तिर्ष्याऽपि च भवेत् श्रवणा श्रवणं श्रुतिः ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.89 · p. 116
अजिनं चर्म कृत्तिः स्त्री व्रतचर्म निगद्यते ।भैक्ष्यं भिक्षासमूहे स्याद् भैक्षमित्यपि कुत्रचित् ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण स्त्रीलिङ्गप्रकरणम् Śabdaratnākara 7.1.2310 · p. 281
आर्तिः कृत्तिश्छविश्छर्दिः कीर्तिर्जूर्त्यर्तिपूर्तयः ।भ्रूकुटिभ्रुकुटिप्रावृड्विप्रुड्रुट्तृट्त्विषः स्त्रियाम् ॥ २३१० ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.21 · p. 84
प्राचीनावीतमन्यस्मिन्निवीतं कण्ठलंबितम् ।कृष्णाजिनं कर्णिकं स्यात् कृत्तिः स्त्री चर्म चाजिनम् ॥ २१ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.60 · p. 163
खल्वं क्लीबे चर्ममयी त्वालुः करकवर्तिका ।स्नेहपात्रं कुतूः कृत्तिः सैवाल्पा कुतुपः पुमान् ॥ ६० ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.103 · p. 181
श्मश्रु तु व्यंजनं चोटः समे शिंघाणशिंगिनी ।त्वक् स्त्री छदिस्तनुः कृत्तिः संछादन्यप्यसृग्धरा ॥ १०३ ॥
अनुष्टुप्
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास तपादः Dharaṇikośa 15.1.3 · p. 60
अर्तिः पीडाध[नु]ष्कोटयोर्भ्रान्तिर्मिथ्यामतिर्भ्रमिः ।कीर्तिः प्रसादयशसोः कृत्तिश्च चर्म कीर्तिता ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 श्च (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.57 · p. 213
युतिस्तथामिश्रण मिश्रणेषुच्युतिर्वराङ्गे च्यवने तथोक्ता ।त्वक्चर्मणोः कृत्तिरिहापि भूर्जेस्यात्कृत्तिकावाच्यथ भित्तिरुक्ता ॥ ५७ ॥
उपजातिः
शिवकोष Śivakoṣa · शिवदत्तमिश्र तद्विः Śivakoṣa 12.1.178 · p. 17
कृत्तिर्भूर्जे त्वचायां स्त्री घृतमाज्ये जलेऽपि च ।जातिर्जातीफले धात्र्यां मालत्यां रक्तचूर्णके ॥ १७८ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.9 · p. 214
कुन्ती पृथायां शल्लक्यां गुग्गुलौ बाणभेदके ।कृतं स्यादलमर्थे च विहिते युगभेदके ॥हिंसिते त्रिषु च क्लीबे कृत्तन्तु छिन्नचेष्टिते ।स्यात्कृतिः करणे चैव हिंसायामपि च स्त्रियाम् ॥कृत्तिश्चर्मणि भूर्जे च कृतिकायां त्वचि स्त्रियाम् ।केतुः पुंसि पताकारुक्ग्रहोत्पातलक्षणेषु च ॥गर्तोऽवटे त्रिगर्ते च रोगभेदे कुकुन्दरे ।ग्रस्तं लुप्तवर्णपदे क्लीबं ग्रासीकृतेऽपि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्nearly अनुष्टुप्: pāda 1, syllable 4 प्त (wrong syllable)

कृत्ति as a meaning in nānārtha verses

  • शब्दरत्नावली चर्मन्ग्रावा स्यात्पुंसि पाषाणे दृढे पृथ्वीधरेऽपि च । गृञ्जनो ना रसोने स्त्री निषाक्तपशुमांसके ॥ गोस्तनो ना हारभेदे द्राक्षायां स्त्री च गोस्तनी । गोमी पुंसि जम्बुके स्याद्गोमत्युपासके त्रिषु ॥ चलनं भ्रमणे कम्पे क्लीबं कम्पयुते त्रिषु । चलनी वस्त्रविधिन्यां वारीभेदे च कुत्रचित् ॥ चक्री काककुलालाजग्रामजालिकसूचके । सर्पे तैलिकभेदे स्याद्वासुदेवे च पुंस्ययम् ॥ चर्मी भृङ्गरिटौ भूर्जे मोचाफलकहस्तयोः । चर्म क्लीबन्तु फलके कृत्तौ त्वचि तु कुत्रचित् ॥ चेतनो वाच्यवत् प्राणयुक्ते च संविदि स्त्रियाम् । छर्दनं वमने क्लीबं पुंसि निम्बेऽप्यलम्बुषे ॥ छदनं चलने पक्षे पिधानेऽपि नपुंसकम् । छेदनन्तु द्विधा कार्ये कर्त्रनेऽपि च न द्वयोः ॥ जवनस्तु रये वेगिहये वेगवति त्रिषु ॥ Śabdaratnāvalī 7.20.55