कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कृतमालक

kṛtamālakaपुं · masc.

In 5 kośas: 5 synonym verses, 1 as a meaning of another word.

कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.41 · p. 322
वेगवान्सृमरोऽथ स्यादुरणो रूपकोप्यथ ।वरपोतः श्रेष्ठशावोऽप्यथ स्यात् कृतमालकः ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.52 · p. 148
आरग्वधश्चार्ग्वधश्च प्रग्रहः कृतमालकः ।आरोग्यशिम्बि-शम्याक-संपाकाश्चतुरङ्गुलः ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शकुन्ताध्यायः Śabdaratnākara 2.5.792 · p. 101
कौशिको वायसारातिदिवान्धोलूकपेचकाः ।कृष्णे तु कौशिके स्यातां कृतमालकनक्तकौ ॥ ७९२ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश खगाध्यायः Vaijayantī 2.3.23 · p. 27
महापक्षी च कृष्णोऽसौ नक्तकः कृतमालकः ।कपोतो बालवत्सः स्यात् खञ्जरीटस्तु खञ्जनः ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.106 · p. 131
अपि कोशफलं फालं कार्पासकृतमालकौ ।जातीकोशं कोशफलमथागरु नृपार्हकम् ॥ १०६ ॥
अनुष्टुप्
genderपुंmasc.

कृतमालक as a meaning in nānārtha verses

  • शिवकोष सुपर्णपुंस्याविग्ने च वानीरे सुपर्णः कृतमालके । सुपर्णा कमलिन्यां च सुपर्णी पर्णसौम्ययोः ॥ १६५ ॥ Śivakoṣa 11.2.165