कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अगरु

agaruक्ली · neut.

In 10 kośas: 11 synonym verses, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.642 · p. 27
अगुर्वगरु राजार्हं लोहं कृमिजवंशिके ।अनार्यजं जोङ्गिकं च मङ्गल्या मल्लिगन्धि यत् ॥ ६४० ॥कालागुरुः कालतुण्डः श्रीखण्डो रोहणद्रुमः ।गन्धसारो मलयजश्चन्दने हरिचन्दने ॥ ६४१ ॥तैलपर्णिकगोशीर्षौ पत्त्राङ्गं रक्तचन्दनम् ।कुचन्दनं ताम्रसारं रञ्जनं तिलपर्णिका ॥ ६४२ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.545 · p. 62
कर्पूरो घनसारः स्यात्काकतुण्डोऽगरुः स्मृतः ।ताम्बूलं क्रमुकं प्रोक्तमङ्गरागो विलेपनम् ॥ ५४५ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम Gīrvāṇabhāṣābhūṣaṇa 34 · p. 4
अगरुः कृष्णसालः स्यान्नीलाञ्जनरसः स्मृतः ।कृतमाले सुवर्णः स्यादशोके सुरसुन्दरी ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.15 · p. 153
अगुर्वगरु चायुस्कं राजार्हं जोङ्गकं तथा ।कृमिजं कृमिजग्धं स्यादनार्यमसिते त्विह ॥ १५ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.80 · p. 104
चित्र-वस्त्र-घुसृणागरु-हिङ्गु-गूथ-पिच्छ-दल-तालु-हलानाम् ।तुत्थदृङ्मरिचहृन्नलदानांयुद्ध-सिध्म-यकृदस्थि-फलानाम् ॥ ८० ॥
स्वागता
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.293 · p. 137
चतुःसमं तु तत्प्रोक्तं कुङ्कुमादिचतुश्चये ।अगर्वगुरुलोहे तु राजार्हं कृमिजं च तत् ॥ २९३ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1033 · p. 159
अगुर्वगरु लोहं च कृमिजग्धं च जोङ्गकम् ।वंशकं वंशिका शृङ्गं वंशाभं शीर्षकं तथा ॥ १०३३ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.199 · p. 204
आप्लावोऽपि च, गात्रानुलेपन्यां वर्तिरुच्यते ।वर्ती तथा जोङ्गके स्यादगर्वगुरु वंशकम् ॥ १९९ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.190 · p. 233
त्वचिसारः त्वक्सारोऽपि शिंशपाऽगरुशिंशपा ।अगरुवंशलोचना भवेद्वांशीव वंशजा ॥ १९० ॥
metre not recognised
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1147 · p. 141
सेव्यपिञ्जरसंकोचपिशुनाग्निशिखानि च ।अगरु कृमिजं लोहं राजार्हं जाङ्गलान्नकम् ॥ ११४७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 रु (wrong syllable)
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.106 · p. 131
अपि कोशफलं फालं कार्पासकृतमालकौ ।जातीकोशं कोशफलमथागरु नृपार्हकम् ॥ १०६ ॥
अनुष्टुप्
genderक्लीneut.

अगरु as a meaning in nānārtha verses