कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कार्पास

kārpāsaक्ली · neut.

In 12 kośas: 16 synonym verses, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.424 · p. 28
त्वक्फलकृमिरोमभ्यः संभवत्वाच्चतुर्विधम् ॥ ६६८ ॥क्षौमकार्पासकौशेयराङ्कवादिविभेदतः ।
अनुष्टुप्metre not read in every line
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.669 · p. 28
क्षौमं दुकूलं दुगूलं स्यात्कार्पासं तु बादरम् ॥ ६६९ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.194
वाल्कं क्षौमादि फालं तु कार्पासं बादरं च तत् ।
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.550 · p. 62
कार्पासं वादरं प्रोक्तं वस्त्रस्यान्तो मतोऽञ्चलः ।अहतं स्यान्नवं वासो जीर्णमुक्तं पटच्चरम् ॥ ५५० ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.278 · p. 51
कार्पासं सर्वकार्यार्थं बादरं तदथ स्त्रियाम् ।ऊर्णा मेषादिलोम्नि स्यात्क्लीबे और्णं तदुद्भवे ॥ २७८ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.33 · p. 178
भारद्वाजी च भद्राथ कार्पासो बादरः पिचुः ।पिचव्यस्तूलमप्यस्याः सूत्रेथ वरतिक्तकः ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.84 · p. 226
क्षौमादि त्वङ्मयं वाल्कं क्षौममस्त्री दुकूलकम् ।दुगूलकं च चरमे कार्पासं बादरं फलात् ॥ ८४ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.73 · p. 116
कार्पास-कांस-चमसाः पनसोपवासौस्यादिष्वसः सदिवसोऽपि रसो बुसोऽपि ।दोर्वद्विहाय उदितं हृदये तु वत्संमाघे तपोऽथ नृपनाम्नि तथैव कंसः ॥ ७३ ॥
वसन्ततिलका
genderपुंक्लीm. n.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.316 · p. 140
कार्पासबादरे चापि कौशेयं कृमिकोशजम् ।राङ्कवं मृगरोमोत्थमौरभ्रः कम्बलः समौ ॥ ३१६ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.167 · p. 46
वस्त्रं तु दशधा प्रोक्तं वाल्कं कार्पासमेव च ।बादरं चापि कौशेयं राङ्कवं चाप्यनाहतम् ॥ १६७ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1088 · p. 168
दुकूलं स्याद्दुगूलं च क्षौमं शणादिजं पटम् ।कार्पासं बादरं फालं कार्पासोत्थं हि कर्पटम् ॥ १०८८ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.357 · p. 105
फलवल्कलरोमणि कृमिश्च वस्त्रयोनयः ।फालं वादरकार्पासं क्षौमादि वाल्कवाल्कलम् ॥
metre not recognised
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.625 · p. 80
जपा तु रक्तकार्पासी समे कार्पासबादरे ।तुण्डिकेरी तु बिम्बी स्याद् बिम्बो बिम्बा च तत्फले ॥ ६२५ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1796 · p. 218
स्याच्छाल्मली तूलफला शबरी श्लक्षणपत्रिका ।कार्पासस्तु पिचव्यः स्याद् भारद्वाजस्तु कुष्ठनुत् ॥ १७९६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 शब (syllable split)
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.106 · p. 131
अपि कोशफलं फालं कार्पासकृतमालकौ ।जातीकोशं कोशफलमथागरु नृपार्हकम् ॥ १०६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.117 · p. 168
चेलं च तच्चतुर्धा स्यात्त्वक्फलक्रिमिरोमजम् ।वाल्कं क्षौमादिके वस्त्रे फाले कार्पासवादरौ ॥ ११७ ॥
अनुष्टुप्
genderविadj.

कार्पास as a meaning in nānārtha verses

  • धरणिकोश भारद्वाजभृङ्गराजस्तु विज्ञेय औषधीयज्ञभेदयोः । भारद्वाजो मुनौ द्रोणे कार्पासे च प्रयुज्यते ॥ Dharaṇikośa 7.2.11
  • कोषकल्पतरु वङ्गसीसेऽपि वङ्गं नरि देशभेदे कार्पासवातिंगणवाचकं स्यात् । षिद्गे च सङ्गे च वदन्ति लङ्गं लिङ्गं तु सांख्यप्रकृतौ च चिह्ने ॥ २ ॥ Koṣakalpataru 6.3.2
  • वैजयन्ती वासस्अगरुण्ययसो गुन्द्रे शरस्य मकरे त्वसेः । शुभस्य फेनिले पुंसि कार्पासे वाससो नरः ॥ १६ ॥ Vaijayantī 8.6.16