कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śivakoṣa

शिवकोष Śivakoṣa

587 verses · 4,629 words tagged · 786 marked doubtful (dashed)

णान्ताः · णत्रिः

अरुणातिविषायां च हेमायां त्रिवृताभिधे ।अलंबुषारक्तपादीषड्ग्रन्थासु च योषिति ॥ १५७ ॥
11.2.157 · p. 15
अनुष्टुप्
उषणोषणे कणायामूषणमुषणं च मारीचे ।अथ कत्तृणं हलीमे हठे किरातेऽपि रामकर्पूरे ॥ १५८ ॥
11.2.158 · p. 15
उद्गीतिः
जरणो रुचके कृष्णे जीरे क्लीबं तु हिङ्गुनि ।तरुणं च स्त्रियां कुब्जपुष्पे पञ्चाङ्गुले पुमान् ॥ १५९ ॥
11.2.159 · p. 15
अनुष्टुप्
पूरणं पिष्टभेदे च पूरणी शाल्मलीद्रुमे ।वारुणी गण्डदूर्वायां विशालाश्वेतयोरपि ॥ १६० ॥
11.2.160 · p. 15
अनुष्टुप्
ब्राह्मणी ब्रह्मचारिण्यां फञ्जीमोहनयोरपि ।रिङ्गिणी मृगगन्धायां कण्टकार्यां च योषिति ॥ १६१ ॥
11.2.161 · p. 15
अनुष्टुप्
रोहणश्चन्दने कूटशाल्मलौ गोमयप्रिये ।विषाणी मेदुरकूर्चपर्ण्योः कुष्टे तु न द्वयोः ॥ १६२ ॥
11.2.162 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
श्रावणी श्रवणे मुण्ड्यां जटामांस्यां सुदर्शने ।श्रीपर्णी तु हठे मुद्यां सप्तपर्णे तु कट्फले ॥ १६३ ॥
11.2.163 · p. 15
अनुष्टुप्
कुम्भ्यां च शाल्मलौ क्लीबं पुण्डरीकाग्निमन्थयोः ।सरणीकुन्दसारण्योः सुषेणा त्रिवृताभिदि ॥ १६४ ॥
11.2.164 · p. 16
अनुष्टुप्
पुंस्याविग्ने च वानीरे सुपर्णः कृतमालके ।सुपर्णा कमलिन्यां च सुपर्णी पर्णसौम्ययोः ॥ १६५ ॥
11.2.165 · p. 16
अनुष्टुप्
सुवर्णा जोङ्गके क्लीबं काञ्चने हरिचन्दने ।हरेणुः स्त्री रेणुकायां स तु पुंसि सतीनके ॥ १६६ ॥
11.2.166 · p. 16
अनुष्टुप्