All kośas › Śabdaratnākara
शब्दरत्नाकर Śabdaratnākara
2,335 verses · 19,015 words tagged · 2,063 marked doubtful (dashed)
द्वितीयः काण्डः · शकुन्ताध्यायः
इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे चतुष्पदाध्यायस्त्रयोदशः ॥
शकुन्ताध्यायः
विहगविहंगमद्विजविविष्किरपक्षिपतद्-विकिरपतत्रिपत्रिपतगाण्डजपत्ररथाः ।शकुनगरुत्मदंशुनभसंगमनीडभवाःशकुनिशकुन्तिवोजितरुधामशकुन्तखगाः ॥ ७८६ ॥
2.5.786 · p. 100
metre not recognised
पतत्रयः पतंगाश्च पित्सन्तश्च विहायसः ।शुक्लापाङ्गः शिखी केकी नीलकण्ठः शिखावलः ॥ ७८७ ॥
2.5.787 · p. 100
अनुष्टुप्
शिखण्डी बर्हिणो बर्ही मयूरो भुजगाशनः ।मेघनादानुलासी द्वौ समौ चन्द्रकमेचकौ ॥ ७८८ ॥
2.5.788 · p. 100
अनुष्टुप्
पिच्छबर्हे कलापश्च प्रचलाकः शिखण्डकः ।शिखाचूडे समे स्यातां समौ भासशकुन्तकौ ॥ ७८९ ॥
2.5.789 · p. 100
अनुष्टुप्
ध्वाङ्क्षो नालीजङ्घो नाडिजङ्घः सकृत्प्रजः परभृत् ।काकः करटोरिष्टो बलिपुष्टो वायसो बलिभुक् ॥ ७९० ॥
2.5.790 · p. 100
metre not recognised
आत्मघोषो महानेमिरन्यवापश्च मौकुलिः ।मद्गुस्तु द्रोणकाकः स्यात् काकोलो जलवायसः ॥ ७९१ ॥
2.5.791 · p. 101
अनुष्टुप्
कौशिको वायसारातिदिवान्धोलूकपेचकाः ।कृष्णे तु कौशिके स्यातां कृतमालकनक्तकौ ॥ ७९२ ॥
2.5.792 · p. 101
अनुष्टुप्
खञ्जनः खञ्जरीटः स्यात् तस्य गोलत्तिका प्रिया ।कोयष्टिकस्तु शिखरी कटुक्वाणस्तु तित्तिरिः ॥ ७९३ ॥
2.5.793 · p. 101
अनुष्टुप्
भृङ्गः कलिङ्गो धूम्याटः समौ सारङ्गचातकौ ।करेटुः कर्करेटुः स्यात् कृकणक्रकरौ समौ ॥ ७९४ ॥
2.5.794 · p. 101
अनुष्टुप्
व्याघ्राटस्तु भरद्वाजः श्येनः क्षिप्रः सुपर्णकः ।श्येनी तु प्राचिका दार्वाघाटस्तु शतपत्रकः ॥ ७९५ ॥
2.5.795 · p. 101
अनुष्टुप्
जीवंजीवो जीवजीवः श्येनः पत्री शशादनः ।जलरङ्कुस्तु नत्यूहो दात्यूहः कलकण्ठकः ॥ ७९६ ॥
2.5.796 · p. 101
अनुष्टुप्
पारावतः कलरवः कपोतो बालवत्सकः ।मणिकण्ठः पूर्णकूटश्चाषो राजविहंगमः ॥ ७९७ ॥
2.5.797 · p. 101
अनुष्टुप्
किकीदिविः स्वर्णचूडश्चित्रवाजो विशोककः ।कोकिलस्तु कुहूकण्ठः कालकण्ठो वनप्रियः ॥ ७९८ ॥
2.5.798 · p. 101
अनुष्टुप्
चूलिकारणदीर्घाङ्घ्रिमयूरवटका अपि ।दीर्घग्रीवः सितवपुर्मृदुप्रोथः स्खलन्मनाः ॥ ८०० ॥
2.5.800 · p. 101
अनुष्टुप्
बलाकाजातिरेषः स्यात् तदन्यो नालिकेरजः ।गृध्रे तु पुरुषव्याघ्रो दाक्षाय्यश्च सुदर्शनः ॥ ८०१ ॥
2.5.801 · p. 102
अनुष्टुप्
तद्भेदाः कर्कटस्कन्धः पर्कटः कमलच्छदः ।दीर्घपाल्लोहपृष्ठश्च कङ्को मेरुण्ड इत्यपि ॥ ८०२ ॥
2.5.802 · p. 102
अनुष्टुप्
चटकः कलविङ्कः स्यात् सेव्यस्तिलककण्टकः ।आटको बलिभुक् तस्य चटका बल्लभा तयोः ॥ ८०३ ॥
2.5.803 · p. 102
अनुष्टुप्
स्त्र्यपत्ये चटका चाटकैरस्तु पुमपत्यके ।आतापी चिल्ल उत्पादशयनोऽण्डुकटिट्टिभौ ॥ ८०४ ॥
2.5.804 · p. 102
अनुष्टुप्
शुकः कीरश्च कोरः स्यादुत्पिबश्चन्द्रिकाप्रियः ।वाचाला शारिका गर्तकुक्कुटो वृत्तलोचनः ॥ ८०५ ॥
2.5.805 · p. 102
अनुष्टुप्
कुलालकुक्कुटश्चाथ पुष्कराह्वस्तु सारसः ।हंसो मरालश्चक्राङ्गो जालपादः सितच्छदः ॥ ८०६ ॥
2.5.806 · p. 102
अनुष्टुप्
नीलाक्षो मानसौकाश्च हंससाचिस्तु सोऽल्पकः ।आताम्रैर्मलिनैः कृष्णैश्चरणैश्चञ्चुभिः सिताः ॥ ८०७ ॥
2.5.807 · p. 102
अनुष्टुप्
राजहंसा मल्लिकाक्षा धार्तराष्ट्रा यथाक्रमम् ।कलहंसस्तु कादम्बः किञ्चिदाधूसरच्छदः ॥ ८०८ ॥
2.5.808 · p. 102
अनुष्टुप्
कारण्डवो बृहत्पक्षः क्वयिस्तु कुलपायिकः ।बको बकोटः कह्वश्च दर्वीतुण्डस्तु तद्भिदौ ॥ ८०९ ॥
2.5.809 · p. 102
अनुष्टुप्
वरटा वरला हंसी सारसीलक्ष्मणे समे ।चक्रवाकरथाङ्गाह्वकोकचक्राः समा इमे ॥ ८१० ॥
2.5.810 · p. 103
अनुष्टुप्
शरारिराटिराडिश्च बलाका बिसकण्ठिका ।क्रुङ्क्रौञ्चौ कुररोत्क्रोशौ समौ प्लवपरिप्लवौ ॥ ८११ ॥
2.5.811 · p. 103
अनुष्टुप्
कुकरः कर्करः केकी कृकवाकुः कपिञ्जलः ।वर्तिका वर्तको बालो गोनर्दो गिरिनर्तिका ॥ ८१२ ॥
2.5.812 · p. 103
अनुष्टुप्
चकोरो वरकः शारी पद्यो वातीकतित्तिरी ।रक्तवर्त्मक इन्द्राह्वो वराटश्चेति विष्किराः ॥ ८१३ ॥
2.5.813 · p. 103
अनुष्टुप्
हारीतः कोकिलो लट्वा कपोतशुकशारिकाः ।जीवंजीवकदात्यूहौ चटको भृङ्ग इत्यमी ॥ ८१४ ॥
2.5.814 · p. 103
अनुष्टुप्
प्रतुदा अथ कादम्बहंसकारण्डवप्लवाः ।बलाका सारसोत्क्रोशकोकक्रौञ्चादयोऽप्सराः ॥ ८१५ ॥
2.5.815 · p. 103
अनुष्टुप्
मन्थावलो मुखापानो जतुकाजिनपत्रिका ।लोपालोपालिका तुल्ये शित्पुटस्तु मधुव्रतः ॥ ८१६ ॥
2.5.816 · p. 103
अनुष्टुप्
इन्दिन्दिरभ्रमरषट्पदचञ्चरीक-रोलम्बभृङ्गमधुलिण्मधुपद्विरेफाः ।पुष्पंधयो मधुकरोऽलिरली च तत्रस्यात् पुष्पलिट् च भसलश्च शिलीमुखश्च ॥ ८१७ ॥
2.5.817 · p. 103
वसन्ततिलका
गन्धोलिका तु वरटा गृहिणी गृहकारिका ।ज्योतिरिङ्गणखद्योतज्योतिष्कीटास्तमोमणिः ॥ ८१८ ॥
2.5.818 · p. 104
अनुष्टुप्
झीरुका झिल्लिका चीरी भृङ्गारी मधुगायनी ।मक्षिका भम्भराली स्याच्चर्वणा नीलमक्षिका ॥ ८१९ ॥
2.5.819 · p. 104
अनुष्टुप्
पतंगः शलभः क्षुद्रा सरघा मधुमक्षिका ।हालाहलस्त्वञ्जलिका पुत्तिका तु पतंगिका ॥ ८२० ॥
2.5.820 · p. 104
अनुष्टुप्
अरण्यमक्षिका दंशः पूत्यण्डाः क्षुद्रपक्षिणः ।मक्षिकाजातिरल्पा स्याद्दंश्यथ ग्राममक्षिका ॥ ८२१ ॥
2.5.821 · p. 104
अनुष्टुप्
घोण्टाथ मशकास्तेनाः परोष्णी तैलपायिका ।गृहेष्ववस्थिताः पक्षिमृगाश्छेकाश्च गृह्यकाः ॥ ८२२ ॥
2.5.822 · p. 104
अनुष्टुप्
अर्भकः पृथुको डिम्भः पाकः पोतः शिशुश्च सः ।पक्षिपोतस्तु पिल्लाकश्चञ्चुस्त्रोटिः सृपाटिका ॥ ८२३ ॥
2.5.823 · p. 104
अनुष्टुप्
पक्षच्छदो गरुत्पत्रं पतत्रं पक्षतिः स्त्रियाम् ।पक्षमूले कुलायस्तु नीडोऽस्त्री डयनं गतिः ॥ ८२४ ॥
2.5.824 · p. 104
अनुष्टुप्
प्रडीनोड्डीनसंडीनान्येताः पक्षिगतिक्रियाः ।अण्डं कोशः स्त्रियां पेशी मिथुनं द्वन्द्वमित्युभे ॥ ८२५ ॥
2.5.825 · p. 104
अनुष्टुप्
स्त्रीपुंसौ युगली युग्मं युगलं युगमित्यपि ।संघातसंघसमुदयसमवायस्तोमनिवहसमुदायाः ॥ ८२६ ॥
2.5.826 · p. 104
अनुष्टुप्metre not read in every line
निकरव्यूहसमूहव्रातनिकायौघविसरसंदोहाः ।झाटचयवारसंचयनिचयगणप्रकरपेटकप्रचयाः ॥ ८२७ ॥
2.5.827 · p. 104
गीतिः
व्रजपुञ्जौ निकुरुम्बं जालं पटलं कदम्बकं चक्रम् ।वितानं मण्डलं चक्रवालं च वलयं कुलम् ॥ ८२८ ॥
2.5.828 · p. 105
अनुष्टुप्metre not read in every line
अनीकमस्त्री पटली मण्डली संहतिस्ततिः ।सधर्मिणां समाजः स्यात् पशूनां समजो गणः ॥ ८२९ ॥
2.5.829 · p. 105
अनुष्टुप्
तिरश्चां तु कुलं यूथमस्त्रियामथ जन्तुभिः ।सजातीयैः सार्थवर्गौ कूटोऽस्त्री राशिरुत्करः ॥ ८३० ॥
2.5.830 · p. 105
अनुष्टुप्