त्रायमाणा
trāyamāṇāस्त्री · fem.In 7 kośas: 4 synonym verses, 1 as a nānārtha head word, 8 as a meaning of another word.
वार्षिकं त्रायमाणा स्यात्त्रायन्ती बलभद्रिका ॥ १५० ॥
अनुष्टुप्
genderस्त्रीfem.
स्वर्गाह्वाथ त्रायमाणा कृतत्राणापि पालिनी ।मङ्गल्यार्हा देवबला त्रायन्ती वार्षिकी च सा ॥ ५५२ ॥
अनुष्टुप्
genderस्त्रीfem.
किञ्जल्कं च कुवेरं च रामं वानीरजं च तत् ।त्रायन्ती त्रायमाणार्द्रा पालिनी भयनाशिनी ॥ २० ॥
अनुष्टुप्
genderस्त्रीfem.
परित्राण्यां त्रायमाणा त्रायन्ती बलभद्रिका ।रेवत्यां रामदूती स्याद्वारुणी नागदन्त्यपि ॥ १०९ ॥
अनुष्टुप्
genderस्त्रीfem.
कर्णाभरणसंज्ञे तु नप्स्त्रियोः सादि पूर्ववत् ।स्थावरे त्रायमाणा स्त्री त्रायन्तीसंज्ञके त्रिषु ॥ २५३ ॥
अनुष्टुप्
meaningsत्रायन्ती
त्रायमाणा as a meaning in nānārtha verses
- कोषकल्पतरु विष्वक्सेनप्रियाधौतांशुकद्वये प्रत्युद्गमनीयस्तथा गतौ । अर्हो श्रीत्रायमाणार्थे विष्वक्सेनप्रिया भवेत् ॥ Koṣakalpataru 6.26.100
- कोषकल्पतरु बलदेवाअनुभावो रसकार्ये विनिर्णये स्यात्प्रभावेऽपि । सौनन्दिनि बलदेवः पवने स्त्री त्रायमाणायाम् ॥ ३७ ॥ Koṣakalpataru 6.29.37
- नानार्थार्णवसंक्षेप मङ्गल्यअश्वत्थे त्रायमाणायामप्याचष्ट स्त्रियां पुनः । मङ्गल्या स्याद्वचायां च मल्लिकापुष्पगन्धिनि ॥ १३२१ ॥ Nānārthārṇavasaṃkṣepa 4.1321
- नानार्थार्णवसंक्षेप वार्षिकवासिका स्त्री माल्यदाम्नि वार्षिकं तु नपुंसकम् । त्रायमाणासमाख्ये स्यात् स्थावरे भेद्यवत् पुनः ॥ १६७४ ॥ Nānārthārṇavasaṃkṣepa 4.1674
- शिवकोष वार्षिकवार्षिकं त्रायमाणायां वार्षिकी मल्लिकाभिदि । बाष्पिका कारवीहिङ्गुपत्र्योः स्यादथ बीजकः ॥ ५० ॥ Śivakoṣa 1.3.50
- शब्दरत्नावली वार्षिकबार्धकं बृद्धवृन्दे स्यात् बृद्धानां भावकर्मणोः । वार्षिकं त्रायमानायां तथा वर्षाभवे त्रिषु ॥ Śabdaratnāvalī 7.1.139
- शब्दरत्नावली त्राणक्लीबे घ्राणं नासिकायां घ्राते स्यादभिधेयवत् । चूर्णो धूल्यां क्षारभेदे चूणं स्यात्पटयुक्तिषु ॥ जिष्णुर्महेन्द्रार्जुनयोर्जित्वरे वाच्यलिङ्गकः । झूणि गुवाकभेदे स्याद्दुटदैवश्रुतौ स्त्रियाम् ॥ त्राणं स्यात्त्रायमाणायां रक्षिते रक्षणेऽपि च । तीक्ष्णं स्याद्विषलौहाजिमुष्ककलवणेषु च ॥ आत्मत्यागिनि तीव्रे च त्रिषु क्लीबं यवाग्रके । द्रोणोऽस्त्रियामाढके तु भवेदाढाचतुष्टये ॥ देशभेदे भारद्वाजे दग्धकाके स्त्रियां क्वचित् । तथा काष्ठाम्बुवाहिन्यां गवादन्यामपि स्त्रियाम् ॥ पणो वराटर्के मूल्ये गृहे कार्षापणेऽपि च । क्रय्ये द्यूते भृतौ वित्ते व्यवहारेऽपि पुंस्ययम् ॥ पार्ष्णि द्वयोः सैन्यपृष्ठे पादग्रन्थ्यधरेऽपि च । स्त्रियामुन्मत्तकान्तायां पार्ष्णी पार्ष्णिरिति द्विधा ॥ प्राणोऽनिले बले काव्यजीवे हृदयमारुते ॥ Śabdaratnāvalī 7.15.9
- शब्दरत्नावली मङ्गल्यपानीयं सलिले क्लीबं पातव्ये पुनरन्यवत् । पौलस्त्यो ना धनाधीशे दशकण्ठे विभीषणे ॥ वलयं कङ्कणे क्लीबं कण्ठरोगे पुमानयम् । वालेयं स्याद्वलिहिते मृदौ त्रिषु खरे पुमान् ॥ ब्राह्मण्यं ब्रह्मवृन्दे स्यात्ब्राह्मणत्वेऽपि न द्वयोः । भरण्युर्ना चण्डभानौ मृगाङ्के च विभावसौ ॥ भुजिष्यः पुंसि दासे स्यात्स्वन्त्रहस्तसूतत्रके । स्त्रियां दासीगणिकयोः स्वतन्त्रायामपि क्वचित् ॥ मलयो ना चलारामदेशेषु स्त्री तथौषधे । मङ्गल्यो ना त्रायमानामसूराश्वत्थबिल्वके ॥ स्त्रियात्तु रोचनाशुक्लवचाशमीमिमीषु च । अधःपुष्प्यां स्त्रियां दध्नि क्लीबं शिवकरे त्रिषु ॥ मृगयुर्ना शृगाले स्याद् व्याधे पितामहेऽपि च । रहस्या स्त्री सरिद्भदे गोपनीयेऽभिधेयवत् ॥ विजया पार्वतीसख्यां तिथिभेदेऽपि च स्त्रियाम् । विजयस्तु जये पुंसि तथा गाण्डीवधन्वनि ॥ विस्मयः पुंसि दर्ये स्यात्स्यन्देहाश्चर्ययोरपि । विषयो यस्य यो ज्ञातस्तत्रदेशे च गोचरे ॥ रूपादौ स्याज्जनपदे कान्तादौ च भवेत्पुमान् ॥ Śabdaratnāvalī 7.26.46