कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

दंशन

daṃśanaक्ली · neut.

In 10 kośas: 9 synonym verses, 2 as a nānārtha head word.

अभिधानचिन्तामशिलोञ्छ Abhidhānacintāmaśiloñcha · जिनदेवमुनीश्वर मर्त्यकाण्डः Abhidhānacintāmaśiloñcha 3.80 · p. 3
कवचे दंशनं त्वक्त्रं तनुत्राणमपि स्मृतम् ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.64
शीर्षण्यं च शिरस्त्रेऽथ तनुत्रं वर्म दंशनम् ।उरश्छदः कङ्कटको जागरः कवचोऽस्त्रियाम् ॥ ६४ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.459 · p. 53
सन्नाहः कवचं वर्म तनुत्राणमुरश्छदः ।जगरः कङ्कटो माठी दंशनं जालिका स्मृता ॥ ४५९ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.228 · p. 114
वारवाणोऽपि च क्लीबे तनुत्रं वर्म दंशनम् ।सकञ्चुकैर्मध्यधार्ये क्लीबे सारसनं पुनः ॥ २२८ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.99 · p. 262
समूहे स्यात्कवचिनां क्लीबे कावचिकं तथा ।अधिकाङ्गोऽस्त्रियां सारसनं हृदि स [119b] कञ्चुकैः ।ध्रियते यत्तनुत्रं तु वर्मं वर्म च दंशनम् ॥ ९९ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.326 · p. 66
दंशनं कङ्कटो भेदी मूलच्छायी पुलातकः ।पिनद्धे प्रतिमुक्तः स्यादामुक्तो मुक्त एव च ॥ ३२६ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1250 · p. 196
सन्नाहः कङ्कटो वर्म तनुत्रं कवचं तथा ।दंशश्च दंशनं त्वक्रं तनुत्राणमुरश्छदः ॥ १२५० ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.290 · p. 130
कवचोऽस्त्री तनुत्रञ्च दंशनं स्यादुरश्छदः ॥
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.152 · p. 116
संशप्तकास्तु संग्रामात् समयेनानिवर्तिनः ।त्वत्क्रन्तु दंशनं वर्म तनुत्रं कवचोऽस्त्रियाम् ॥ १५२ ॥
अनुष्टुप्
genderक्लीneut.
धरणिकोश Dharaṇikośa · धरणिदास नपादः Dharaṇikośa 19.1.11 · p. 106
दंशनं कवचे दंशे गहनं गह्वरे वने ।अवनं रक्षणे प्रीतौ निधनं कुलनाशयोः ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.57 · p. 238
तोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः ।दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् ।दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च ।दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः ।अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ध्वजी रथे च भूदेवे भये सर्पे धराधरे ।धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके ।धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् ।धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः ।नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥नन्दी हरद्वारपाले कन्दवाले वटद्रुमे ।नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे ।अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥निदानं वत्सदामादिकारणे क्षयकारणे ।निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् ।स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु ।एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे ।प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् ।पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः ।स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु ।पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥
metre not recognisednearly अनुष्टुप्nearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)nearly अनुष्टुप्: pāda 4, syllable 3 न (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 ल्क (wrong syllable); pāda 4, syllable 3 च (wrong syllable)