आमुक्त
āmuktaवि · adj.In 11 kośas: 11 synonym verses.
परिधिस्थः परिचर आमुक्तः प्रतिमुक्तवत् ।अपिनद्धः पिनद्धोऽथ संनद्धो व्यूढकङ्कटः ॥ ७६५ ॥दंशितो वर्मितः सज्जः संनाहो वर्म कङ्कटः ।जगरः कवचं दंशस्तनुत्रं माठ्युरश्छदः ॥ ७६६ ॥
अनुष्टुप्
genderविadj.
genderविadj.
आहितं निहितं न्यस्तमारोपितमिति स्मृतम् ।बद्धं पिनद्धमामुक्तमपिनद्धं च कथ्यते ॥ ७४७ ॥
अनुष्टुप्
genderविadj.
नाहुलं च तदेव स्यान्नालिका चाङ्गरक्षिणी ।त्रिष्वितो ध्वजिनीपूर्वा आमुक्तः प्रतिमुक्तवत् ॥ २३० ॥
अनुष्टुप्
genderविadj.
प्रष्ठाग्रतःसरावग्रेसर उक्तः प्रतिष्कशः ।सव्यसाची तु वामेन बाहुनापि शरं क्षिपन् ।आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत् ॥ ९७ ॥
अनुष्टुप्
genderविadj.
दंशनं कङ्कटो भेदी मूलच्छायी पुलातकः ।पिनद्धे प्रतिमुक्तः स्यादामुक्तो मुक्त एव च ॥ ३२६ ॥
अनुष्टुप्
genderविadj.
आमुक्तः परिमुक्तश्च पिनद्धोऽपिनद्ध इति ।भवेत् कञ्चुकधारी यः संभवेत् सैनिको जनः ॥ १२४८ ॥
अनुष्टुप्metre not read in every line
genderविadj.
सन्नाहो वर्मजगरस्तथा कङ्कटकोऽपि च ।अपिनद्धः पिनद्धः स्यादामुक्तः प्रतिमुक्तवत् ॥
अनुष्टुप्
genderविadj.
सहस्रेण साहस्रिणः साहस्रः, प्रतिमुक्तवत् ।स्यादामुक्तो पिनद्धश्च पिनद्धे कवचे पुनः ॥ २६८ ॥
अनुष्टुप्metre not read in every line
genderविadj.
आमुक्तः प्रतिमुक्तः संदानितपिनद्धसितबद्धाः ।पाशितकीलितसंयतसंदितमूताश्च वाच्यलिङ्गाः स्युः ॥ १३९३ ॥
उद्गीतिःmetre not read in every line
genderविadj.
दंशिते स्युः कवचितसज्जसन्नद्धवर्मिताः ।आबद्धः पुनरामुक्तः प्रतिमुक्तः पिनद्धवत् ॥ १४२ ॥
अनुष्टुप्
genderविadj.