कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वर्मन्

varmanक्ली · neut.

In 18 kośas: 22 synonym verses, 1 as a nānārtha head word, 6 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.766 · p. 31
परिधिस्थः परिचर आमुक्तः प्रतिमुक्तवत् ।अपिनद्धः पिनद्धोऽथ संनद्धो व्यूढकङ्कटः ॥ ७६५ ॥दंशितो वर्मितः सज्जः संनाहो वर्म कङ्कटः ।जगरः कवचं दंशस्तनुत्रं माठ्युरश्छदः ॥ ७६६ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.64
शीर्षण्यं च शिरस्त्रेऽथ तनुत्रं वर्म दंशनम् ।उरश्छदः कङ्कटको जागरः कवचोऽस्त्रियाम् ॥ ६४ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.459 · p. 53
सन्नाहः कवचं वर्म तनुत्राणमुरश्छदः ।जगरः कङ्कटो माठी दंशनं जालिका स्मृता ॥ ४५९ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.228 · p. 114
वारवाणोऽपि च क्लीबे तनुत्रं वर्म दंशनम् ।सकञ्चुकैर्मध्यधार्ये क्लीबे सारसनं पुनः ॥ २२८ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.99 · p. 262
समूहे स्यात्कवचिनां क्लीबे कावचिकं तथा ।अधिकाङ्गोऽस्त्रियां सारसनं हृदि स [119b] कञ्चुकैः ।ध्रियते यत्तनुत्रं तु वर्मं वर्म च दंशनम् ॥ ९९ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
मूर्द्धन् उक्षन् तक्षन् मज्जन् श्लेष्मन् आत्मन् अश्मन् युवन् पूषन् इत्येतैः शब्दै रहितं वर्जितं यदन्यत् द्व्यच्कं द्विस्व[श्व]रं च नान्तं प्रातिपदिकं तत्सर्वं नपुंसकं भवति । यथा इदं चर्म वर्म शर्म भस्म सद्म लोम इत्येवमादयः । मूर्द्धादयोऽपि नान्तत्वात् द्व्यच्का अतस्तेषामपि नपुंसकता प्राप्नोति । तदर्थमिति प्रतिषेधः कृतः मूर्द्धोऽक्षतक्षेत्यादि पुंल्लिङ्गाधिकारात्पुंसि भवन्ति । यथा अयं मूर्द्धा शिरः । उक्षा वृषभः । मज्जा सारः । तक्षा वर्द्धकिः । श्लेष्मा धातुविकारः । आत्मा शरीरस्थः । अश्मा नीलः । युवा तरुणः । पूषादित्यः पुंसि वा भवेद्ब्रह्मेति । द्वच्कत्वान्नान्तत्वाच्च ब्रह्मशब्दस्य नपुंसकत्वे प्राप्ते पुंस्त्वं वा विधीयते ब्रह्मशब्दो वा नपुंसकलिङ्गो भवति । इदं ब्रह्मा वेदाध्ययनमीश्वरश्च । अयं ब्रह्मा प्रजापतिः । यद्येवं यत् द्व्यच्कं नान्तं तन्नपुंसकम् । एवं सति राजन् शब्दस्यापि नपुंसकता स्यात् पुंस्यन्तर्भावो द्रष्टव्यः ।त्रुटिसीमसन्ध्यारात्रयः स्त्रियां धूलिवेणिखार्यश्च ।पुंसि निशीथो ज्योत्स्नादयाशलाका स्त्रियां नित्यम् ॥ २० ॥
metre not recognised
genderक्लीneut.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.193 · p. 32
धीरो मन्दगतिः कुट्टी स्यादुरस्वानुरस्तिकः ।त्वक्त्रं तु दंसनं वर्म तनुत्रं कवचोऽस्त्रियाम् ॥ १९३ ॥
अनुष्टुप्
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 194 · p. 90
तनुत्रं वर्म कवचमावृतिर्बाणवारणम् ।कूर्पासं कञ्चुकं छत्रमातपत्रोष्णवारणम् ॥ १९४ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.375 · p. 148
सन्नाहो जगरो दंशः कङ्कटश्च [81] निचोलकः ।कञ्चुकः कवचो वर्म वारबाण उरश्छदः ॥ ३७५ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.325 · p. 66
कवचे शीषर्कं शीर्षं शीर्षण्यं शीर्षणं तथा ।शिरस्त्रं च शिरस्त्राणं तनुत्रं वर्म शर्म च ॥ ३२५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ष (wrong syllable)
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.25 · p. 36
संनाहः कवचं दंशस्तनुत्रं वर्म कङ्कटः ।सारसनं त्वधिकाङ्गं वारवाणस्तु कञ्चुकः ॥ २५ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1250 · p. 196
सन्नाहः कङ्कटो वर्म तनुत्रं कवचं तथा ।दंशश्च दंशनं त्वक्रं तनुत्राणमुरश्छदः ॥ १२५० ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.291 · p. 130
सन्नाहो वर्मजगरस्तथा कङ्कटकोऽपि च ।अपिनद्धः पिनद्धः स्यादामुक्तः प्रतिमुक्तवत् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1351 · p. 164
तनुत्रं दंसनं वर्म तनुच्छद उरच्छदः ।कङ्कटो जरगः पुंसि संनाहः कवचोऽस्त्रियाम् ॥ १३५१ ॥
अनुष्टुप्
genderक्लीneut.
तन्त्राभिधान Tantrābhidhāna · अज्ञात बीजनिघण्टु Tantrābhidhāna 4.13 · p. 28
व्योमास्यः कालरात्र्याढ्यो वर्म बिन्दीन्दुसंयुतः ।कथितं कवचं बीजं कुलाचारप्रियेऽमले ॥हु̐॥
अनुष्टुप्
genderक्लीneut.
तन्त्राभिधान Tantrābhidhāna · अज्ञात बीजनिघण्टु Tantrābhidhāna 4.51 · p. 32
गर्जिनी-धूम्रभैरव्यौ दक्षवामपयोधरौ ।व्योमास्यः कालवक्त्राढ्यो वर्म बिन्दीन्दुसंयुतः ॥हु̐॥
अनुष्टुप्
genderक्लीneut.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.14 · p. 36
ज्ञानामृता भौतिकश्च धरा दामोदरस्तथा ।वागीशो व(ध)र्म भयद ऐ-कारस्त्रिपुरस्तथा ॥ १४ ॥
अनुष्टुप्
genderक्लीneut.doubtful
तन्त्राभिधान Tantrābhidhāna · अज्ञात मध्वाचार्यविरचितमातृकानिघण्टु Tantrābhidhāna 6.13 · p. 42
अधो धरेन्द्र-वागीशा वासुदेवोऽथ भौतिकः ।त्रैपुरः प्रणतो वर्म-मरुतौ द्वादशस्वरः ॥ १३ ॥
अनुष्टुप्
genderक्लीneut.
ज्ञानामृता वर्म-शुची दामोदर-निरञ्जनौ ।वागधरौ भौतिकेशो वागीशस्त्रिपुरश्च ऐ ॥ १४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ध (wrong syllable)
genderक्लीneut.
तन्त्राभिधान Tantrābhidhāna · अज्ञात भूतडामरतन्त्रोक्तबीजाभिधान Tantrābhidhāna 10.22 · p. 62
शिखा वषट् शिरोमध्यं शक्रमाता हरप्रिया ।शिखा वषट् च ॥वषट्॥ कवचं क्रोधो वर्म हुमित्यपि ।
अनुष्टुप्metre not read in every line
genderक्लीneut.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव क्षत्त्रियवर्गः Trikāṇḍaśeṣa 2.8.49 · p. 69
लध्वी त्वाष्ट्री रथी कालवलनं त्वङ्कवर्मणी ।मेठो मेण्डो हस्तिपके जङ्घात्राणं तु मङ्खुणम् ॥ ४९ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.152 · p. 116
संशप्तकास्तु संग्रामात् समयेनानिवर्तिनः ।त्वत्क्रन्तु दंशनं वर्म तनुत्रं कवचोऽस्त्रियाम् ॥ १५२ ॥
अनुष्टुप्
genderक्लीneut.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.3.59 · p. 38
मार्गे नेत्रच्छदे चाथ वर्म स्यात् कवचे गृहे ।वपुः शरीरे लावण्ये जले दीप्तौ च सज्जनः ॥ ५९ ॥
अनुष्टुप्

वर्मन् as a meaning in nānārtha verses

  • कोषकल्पतरु दशनदन्तेऽद्रिशृङ्गे दशनोऽथ वर्म- ण्यन्तेऽथ भानौ तपनोऽथ तापे । भल्लातके स्यान्नरकान्तरेऽन्त्ये ऽथापायदान्त्योः कदनं तथैव ॥ ११ ॥ Koṣakalpataru 6.21.11
  • कोषकल्पतरु भण्डनअलंकरिष्णौ परवद्रणे तु खलीकृतौ वर्मणि भण्डनं स्यात् ॥ ५१ ॥ Koṣakalpataru 6.21.51
  • नानार्थार्णवसंक्षेप गण्डगण्डः कपोले ना गर्वे स्याद्विस्फोटकवर्मणोः । बालाया भूषणेऽश्वस्य ग्रीवाया भूषणेऽपि च ॥ ३२७ ॥ Nānārthārṇavasaṃkṣepa 2.5.327
  • नानार्थार्णवसंक्षेप पारावततद्युक्तार्थे च नीचे च क्ली तु (वर्मेऽपि ?) शाखिनः । अत्रोक्तस्य फले द्वे तु कपोते गृहवर्तिनि ॥ ३७३ ॥ Nānārthārṇavasaṃkṣepa 6.373
  • शब्दरत्नावली दंशनतोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57
  • शब्दरत्नावली भण्डनबुधानो गीष्पतौ विज्ञवृद्धभेदे भवेत्पुमान् । बोधनी बोधपिप्पल्योर्बोधनं गन्धदीपने ॥ भण्डनञ्च खलीकारे न द्वयोर्युद्धवर्मणोः । भट्टिनी द्विजकान्तायां नाट्टोक्तौ नृपयोषिति ॥ भवनं भावगृहयोर्भाजनं पात्रयोग्ययोः ॥ Śabdaratnāvalī 7.20.65