सारसन
sārasanaक्ली · neut.In 15 kośas: 23 synonym verses, 5 as a nānārtha head word, 1 as a meaning of another word.
साक्षराङ्गुलिमुद्रा सा कटिसूत्रं तु मेखला ।कलापो रशना सारसनं काञ्ची च सप्तकी ॥ ६६४ ॥
अनुष्टुप्
genderक्लीneut.
सारसनं त्वधिकाङ्गं हृदि धार्यं सकञ्चुकैः ॥ ७६७ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
स्त्रीकट्यां मेखला काञ्ची सप्तमी रशना तथा ॥ १०८ ॥क्लीबे सारसनं चाथ पुंस्कट्यां शृङ्खलं त्रिषु ।
अनुष्टुप्
genderक्लीneut.
genderक्लीneut.
कलापः सप्तकी काञ्ची मेखला रसना तथा ।कटिसूत्रं सारसनं किङ्किणी क्षुद्रघण्टिका ॥ ५६० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)
genderक्लीneut.
क्लीबे सारसनं काञ्ची सैव स्यात्कटिमेखला ।संसप्तकी च रसना कटिपर्यायनाटिका ॥ २६६ ॥
अनुष्टुप्
genderक्लीneut.
वारवाणोऽपि च क्लीबे तनुत्रं वर्म दंशनम् ।सकञ्चुकैर्मध्यधार्ये क्लीबे सारसनं पुनः ॥ २२८ ॥
अनुष्टुप्
genderक्लीneut.
काञ्चिः काञ्ची सिञ्जिनी च रशना रसनापि च ।सप्तकी च कलापोऽस्त्री क्लीबे सारसनं तथा ॥ ८१ ॥
अनुष्टुप्
genderक्लीneut.
समूहे स्यात्कवचिनां क्लीबे कावचिकं तथा ।अधिकाङ्गोऽस्त्रियां सारसनं हृदि स [119b] कञ्चुकैः ।ध्रियते यत्तनुत्रं तु वर्मं वर्म च दंशनम् ॥ ९९ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
मेखला कटिसूत्रं स्यात्काञ्ची सारसनं तथा ।कलापो रसना चैव शृङ्खला पुंस्कटीस्थिता ॥ ३११ ॥
अनुष्टुप्
genderक्लीneut.
अधिकाङ्गं तथा सारसनं हृदयकञ्चुकः ।शिरस्कं शीर्षकं तुल्यं शीर्षण्यं मस्तकावनम् ॥ ३७६ ॥
अनुष्टुप्
genderक्लीneut.
रशनायां सारसनं सप्तकी मेखलेति च ।स्त्रीणां स्यात्पुरुषाणां तु शृङ्खलं परिकीर्तितम् ॥ १६५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)
genderक्लीneut.
कञ्चुकोपरिसंबद्धपट्टसूत्रेऽधिकाङ्गकः ।अधिकाङ्गः सारसनं दृढं प्रबलमित्यपि ॥ ३२४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)
genderक्लीneut.
रसना मेखला काञ्ची कलापश्चापि सप्तकी ।कटिसूत्रं सारसनं किङ्किणी क्षुद्रघण्टिका ॥ ५२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)
genderक्लीneut.
संनाहः कवचं दंशस्तनुत्रं वर्म कङ्कटः ।सारसनं त्वधिकाङ्गं वारवाणस्तु कञ्चुकः ॥ २५ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कटीसूत्रं कलापश्च काञ्ची च कटमालिका ।रशना रसना चैव सारसनं च सप्तकी ॥ १०७७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
genderक्लीneut.
भवेदाघातसन्त्राणे लौहनिर्मितवस्तुनि ।सारसनमधिकाङ्गेऽधियाङ्गं धियाङ्गमिति ॥ १२५२ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कक्ष्या कक्षा सप्तकी स्यात् काञ्चिः काञ्ची च मेखला ।सारसनं सरसनं रसना रशना तथा ॥रसनं रशमञ्चेति स्त्रीकटीभूषणे भवेत् ।अथ पुंसः कटीदेशभूषणे शृङ्खला त्रिषु ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 स (wrong syllable)
genderक्लीneut.
मध्ये दृढार्थं वध्रन्ति यद्यदेव सकञ्चुकाम् ।अधिकाङ्गं सारसनं द्वयं तत्र समीरितम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)
genderक्लीneut.
कङ्कणिश्चोर्मिकायां त्वङ्गुलीयकाङ्गुरीयके ।मेखलायां सारसनं दन्त्य-तालव्यमध्यगा ॥ २१५ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 य (wrong syllable); pāda 3, syllable 5 सा (wrong syllable)
genderक्लीneut.
कलापो मेखला काञ्ची रशना सप्तकीति च ।क्लीबे सारसनं क्षुद्रघण्टिका किङ्किणी समे ॥ ११६७ ॥
अनुष्टुप्
genderक्लीneut.
अंगुलित्रे कपी शीर्षत्राणे शीर्षण्यशीर्षके ।अधिकांगं सारसनं मध्ये धार्यं सकंकटैः ॥ १५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)
genderक्लीneut.
कटिसूत्रं सारसनं मेखला रशनाथ सा ।स्त्रीकट्यां सप्तकी कांची पुंस्कट्यां शेखला त्रयी ॥ १४६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)
genderक्लीneut.
सकञ्चुका भटा मध्ये यद्वध्नन्त्यधिकाङ्गकम् ।इति नाम्ना परे तत्र समाप्तोऽध्याय इत्ययम् ॥ ४९ ॥
अनुष्टुप्
meaningsअधिकाङ्गक
doubtful
सदादानो गन्धहस्तिन्यैरावतगणेशयोः ।सम्बदनं वशीकारे क्लीबमालोचनेऽपि च ॥समादानं समीचीनग्रहे बौद्धाह्णिकेऽपि च ।सम्वाहनन्तु भारादिवाहने चाङ्गमर्दने ॥समापनं परिच्छेदप्रमापनसमाप्तिषु ।सनातनो हरे विष्णौ नित्यपित्रतिथिष्वपि ॥सनातनी भवान्यान्तु वाण्यब्धिसुतयोः स्त्रियाम् ।स्तनयित्नुर्जलधरे विद्युति स्तनिते स्त्रियाम् ॥सरोजिनी तु कमलाकरपङ्कजयोः स्त्रियाम् ।समापन्नं वधे क्लिष्टे समाप्तप्राप्तयोरपि ॥संयमनं व्रते बन्धे यमपूर्यामपि स्त्रियाम् ।भवेत्सारसनं काञ्च्यामुरस्तेन तनुत्रिणाम्(?) ॥सामयोनिर्ग्रजब्रह्मसामोत्थेषु भवेत्पुमान् ।सुदर्शनो विष्णुचक्रे जम्बूवृक्षे सुरलाये ॥क्लीबं महेन्द्रनगरे प्रज्ञौषधिभिदोः स्त्रियाम् ।सुयामुनोऽच्युते मेघे प्रासादवत्सराजयोः ॥सुकर्मा योगभेदे स्यात्सत्कर्मविधिकर्मणोः ।सुधन्वा वीरभेदे स्याद्धानुष्के विश्वकर्मणि ॥सुपर्वा पुंसि वंशे तु धूमपर्वामरेषु च ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 द (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
सारसन as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप अधिकाङ्गअधिकाङ्गं सारसनसंज्ञे कवचधारिभिः । मध्यबद्धेऽधिके चाङ्गे क्ली त्रि त्वन्यपदार्थकम् ॥ ४४ ॥ Nānārthārṇavasaṃkṣepa 6.44