मुक्त
muktaवि · adj.In 10 kośas: 9 synonym verses, 3 as a nānārtha head word, 6 as a meaning of another word.
genderक्लीneut.
विनाकृतं विरहितं व्यवच्छिन्नं विशेषितम् ।भिन्नं स्यादथ निर्व्यूहे मुक्तं यो वातिशोभनः ॥ १०९ ॥
अनुष्टुप्
genderविadj.
वसन्तकुसुमो लेखशाटः स्या[29a]द्बहुवारकः ।शैलूष-पिच्छिलोद्दाल-मुक्त-मुक्तफला अपि ॥ ४३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
संयतोऽप्यथ मुक्तः स्यादुत्सृष्टश्च विसृष्टवत् ।प्राट् कथं[163a]कथिकः प्रष्टा कथकैकलटौ(?)समौ ॥ ७२ ॥
अनुष्टुप्metre not read in every line
genderविadj.
धूतं हीनं विधूतं च मुक्तं हापितमित्यपि ।करम्बितं तूत्खचितमाच्छिन्नं तु बलाद्धृतम् ॥ ३२ ॥
अनुष्टुप्
genderविadj.
दंशनं कङ्कटो भेदी मूलच्छायी पुलातकः ।पिनद्धे प्रतिमुक्तः स्यादामुक्तो मुक्त एव च ॥ ३२६ ॥
अनुष्टुप्
genderविadj.
पद्मरागे लोहितकं कुरुविन्दं च लोहितम् ।मुक्ताफले मौक्तिकं स्यान्मुक्ता मुक्तोऽपि दृश्यते ॥ ५३९ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 लो (wrong syllable)
genderपुंmasc.
अस्त्रं शस्त्रं प्रहरणमायुधं तच्चतुष्टयम् ।करमुक्तं यन्त्रमुक्तममुक्तं मुक्तमित्यदः ॥ १३२५ ॥
अनुष्टुप्
genderक्लीneut.
विनाकृतं विरहितं मुक्तं निर्व्यूढमुच्यते ।तिक्तः कषायः सुरभिः कक्खटो निर्भरो दृढः ॥ १९ ॥
अनुष्टुप्
genderविadj.
मुक्तिर्मोक्षे मोचने च भवेत्सौख्यभिदि स्त्रियाम् ।मुक्तः स्यात्प्राप्तमोक्षे च नन्दिते मोचिते त्रिषु ॥
अनुष्टुप्
मुक्त as a meaning in nānārtha verses
- धरणिकोश सृष्टसृष्टं स्यान्निर्मिते मुक्ते भूरिनिश्चितयोरपि ॥ Dharaṇikośa 10.2.3
- कोषकल्पतरु उत्थितमुक्तेऽपि चाथोत्थितमुद्यते स्या- द्वृद्धे प्रजातेप्युषितं च दग्धे । स्थिते तथा पर्युषिते हृते तु द्वेधीकृते स्यान्मुषितं त्रिलिङ्गम् ॥ ७८ ॥ Koṣakalpataru 6.16.78
- कोषकल्पतरु विविक्तत्रिष्वस्फुटेऽथ मुक्ते विवेकयुक्तेऽप्यसंपृक्ते । परवद्विविक्तमुक्तं द्वितयोनं तद्रहोवाचि ॥ १०० ॥ Koṣakalpataru 6.16.100
- नानार्थार्णवसंक्षेप सृष्टबहुनिर्मितयोर्मुक्ते सृणिस्तु नरि पावके । अङ्कुशे तु स्त्रियामेव केचिदन्ये तु पुंस्यपि ॥ १५५१ ॥ Nānārthārṇavasaṃkṣepa 2.5.1551
- नानार्थार्णवसंक्षेप अतिमुक्तमाधवीसंज्ञकुसुमलतायां चाप्यथ त्रिषु । अतीव मुक्तेऽत्याकारस्त्वधिक्षेपे परे पुनः ॥ २० ॥ Nānārthārṇavasaṃkṣepa 6.20
- वैजयन्ती हीनमंत्रिण्यपि सुहृत्स्निग्धे प्रतिज्ञावत्यपि स्थितः । मंदस्वच्छन्दयोः स्वैरो हीनो मुक्तविगर्ह्ययोः ॥ २० ॥ Vaijayantī 6.4.20