कवच
kavacaपुंक्ली · m. n.In 20 kośas: 26 synonym verses, 3 as a nānārtha head word, 19 as a meaning of another word.
परिधिस्थः परिचर आमुक्तः प्रतिमुक्तवत् ।अपिनद्धः पिनद्धोऽथ संनद्धो व्यूढकङ्कटः ॥ ७६५ ॥दंशितो वर्मितः सज्जः संनाहो वर्म कङ्कटः ।जगरः कवचं दंशस्तनुत्रं माठ्युरश्छदः ॥ ७६६ ॥
अनुष्टुप्
genderक्लीneut.
genderपुंक्लीm. n.
शीर्षण्यं च शिरस्त्रेऽथ तनुत्रं वर्म दंशनम् ।उरश्छदः कङ्कटको जागरः कवचोऽस्त्रियाम् ॥ ६४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
सन्नाहः कवचं वर्म तनुत्राणमुरश्छदः ।जगरः कङ्कटो माठी दंशनं जालिका स्मृता ॥ ४५९ ॥
अनुष्टुप्
genderक्लीneut.
ये सहस्रेण बलिनः साहस्रास्ते सहस्रिणः ।अथ च स्यात्कञ्चुकोऽस्त्री कवचो जगरः पुमान् ॥ २२७ ॥
अनुष्टुप्
genderपुंmasc.
अरिष्टमस्त्रियां क्लीबे रसायनविलोडिते ।अर्शोघ्नं सारणं श्वेतं कवचं चाथ मन्थरः ॥ २३७ ॥
अनुष्टुप्
genderक्लीneut.
शीतः शीतप्रियः पांशुः सुतिक्तो बहुकण्टकः ।कृशशाखो रक्तपुष्पः पित्तारिः कवचः पुनः ॥ ५३४ ॥
अनुष्टुप्
genderपुंmasc.
कवचार्द्धर्चयोः पुच्छकच्छाच्छानां व्रजस्य च ।निकुञ्जोटजकुञ्जानां तथैवापुञ्जभूर्जयोः ॥ १५३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
पर्पटः पित्तहा रेणुनामा चर्माह्वयश्च सः ।शीतप्रियः सूक्ष्मपत्रः कवचश्चर्मकण्टकः ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
उरश्छदः कङ्कटको जगरो दंश इत्यपि ।संनाहः कवचो न स्त्री माठिर्माठी स्त्रियामुमे ॥ २०० ॥
अनुष्टुप्
genderपुंक्लीm. n.
मताः खान्तेषु चत्वारः शङ्खः पुङ्खो नखं मुखम् ।अधिकाङ्गः पद्मरागः संयुगं च युगं भगम् ॥हिङ्गूद्योगौ टङ्ग-शृङ्गौ निदाघोऽध्यर्घ-वद्भवेत् ।अर्धर्चः क्रकचः कूर्चः कवचः पुच्छ उञ्छवत् ॥ ४० ॥
अनुष्टुप्
genderपुंक्लीm. n.
प्राग्वंशशब्दः पुंसि भवति । अयं प्राग्वंशो यज्ञकुटी । शृङ्खलं त्रिषु लिङ्गेषु जानीहि । अयं शृङ्खलः इयं शृङ्खला इदं शृङ्खलम् । एते पुंसि कथिताः । अयं चमसः सोमपात्रम् । अयं स्तम्भः । निदाघो घर्मः । पशुर्गवादिः ।शूको धान्यादीनाम् । विटकः पिण्डकृतपरिमाणद्रव्यं शौण्डो वा ।वल्कलकुण्डलहिमचिह्नखलीनककुदगुह्यशुल्कशकलानि ।तीरोलूखलकवचानि च विद्यादितरजातौ ॥ ७७ ॥
metre not recognised
genderक्लीneut.
धीरो मन्दगतिः कुट्टी स्यादुरस्वानुरस्तिकः ।त्वक्त्रं तु दंसनं वर्म तनुत्रं कवचोऽस्त्रियाम् ॥ १९३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
तनुत्रं वर्म कवचमावृतिर्बाणवारणम् ।कूर्पासं कञ्चुकं छत्रमातपत्रोष्णवारणम् ॥ १९४ ॥
अनुष्टुप्
genderक्लीneut.
मुस्तं मेघो वराहोऽब्दो नादेयो नागरः पृथक् ।पर्पटस्तु रजो रेणुः कवचो ब्रह्मसण्टकः ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
सन्नाहो जगरो दंशः कङ्कटश्च [81] निचोलकः ।कञ्चुकः कवचो वर्म वारबाण उरश्छदः ॥ ३७५ ॥
अनुष्टुप्
genderपुंmasc.
अर्धर्चः कवचः कच्छपुच्छोञ्छास्तु व्रजोटजौ ।[9] कुञ्जो मलयजो भूर्जध्वजाम्बुजसमास्तथा ॥ १३४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
वारबाणः कण्टककः कवचो वर्मकञ्चुकः ।खड्गस्वसा लोहदंष्ट्रा तोमरं नागयोधनम् ॥ २२८ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
genderपुंmasc.
संनाहः कवचं दंशस्तनुत्रं वर्म कङ्कटः ।सारसनं त्वधिकाङ्गं वारवाणस्तु कञ्चुकः ॥ २५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सन्नाहः कङ्कटो वर्म तनुत्रं कवचं तथा ।दंशश्च दंशनं त्वक्रं तनुत्राणमुरश्छदः ॥ १२५० ॥
अनुष्टुप्
genderक्लीneut.
कवचोऽस्त्री तनुत्रञ्च दंशनं स्यादुरश्छदः ॥
genderपुंक्लीm. n.
तनुत्रं दंसनं वर्म तनुच्छद उरच्छदः ।कङ्कटो जरगः पुंसि संनाहः कवचोऽस्त्रियाम् ॥ १३५१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
व्योमास्यः कालरात्र्याढ्यो वर्म बिन्दीन्दुसंयुतः ।कथितं कवचं बीजं कुलाचारप्रियेऽमले ॥हु̐॥
अनुष्टुप्
genderक्लीneut.
ऊर्ध्वदन्तश्चानिरुद्धो हरो भानुः स्वरः शशी ।मनश्चानङ्ग-कवचौ निगूढ अं-स्वरः स्मृतः ॥ १६ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 ढ (wrong syllable)
genderपुंक्लीm. n.
शिखा वषट् शिरोमध्यं शक्रमाता हरप्रिया ।शिखा वषट् च ॥वषट्॥ कवचं क्रोधो वर्म हुमित्यपि ।
अनुष्टुप्metre not read in every line
genderक्लीneut.
संशप्तकास्तु संग्रामात् समयेनानिवर्तिनः ।त्वत्क्रन्तु दंशनं वर्म तनुत्रं कवचोऽस्त्रियाम् ॥ १५२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कवच as a meaning in nānārtha verses
- हलायुधकोशः (अभिधानरत्नमाला) वारवाणकवचेऽपि वारवाणं जीमूतं पर्वतेऽपि कथयन्ति । व्यूहं रचनायामपि दार्वाघाटेऽपि शतपत्त्रम् ॥ ७९५ ॥ Abhidhānaratnamālā (Halāyudha) 5.795
- धरणिकोश कञ्चुकवृश्चिकः शूककीटे स्याद्राशिभेदे [6] द्रुणेऽपि च । कञ्चुकश्चापि कञ्चुल्यां निर्मोके कवचेऽपि च ॥ Dharaṇikośa 1.2.23
- धरणिकोश दंशनदंशनं कवचे दंशे गहनं गह्वरे वने । अवनं रक्षणे प्रीतौ निधनं कुलनाशयोः ॥ Dharaṇikośa 19.1.11
- धरणिकोश दशनदशनः कवचे दन्ते मदनो नीरपुष्पयोः । अपानौ गुदतद्वातौ चाशनी वज्रविद्युतौ ॥ Dharaṇikośa 19.1.16
- कोषकल्पतरु कञ्चुकपिष्टकविकृतौ तद्व- द्रतताल्यामादिमे प्रोक्तः । कञ्चुकमस्त्री कवचे निर्मोके वारणेऽपि स्यात् ॥ ८९ ॥ Koṣakalpataru 6.1.89
- कोषकल्पतरु निर्मोकमोक्षेऽन्तरिक्षे कवचेऽहिकृत्तौ निर्मोक आद्ये चरकस्तु चारे । मुनौ कुषाकुस्तु कृशानुभानु- कीशेष्वथातापिनि वाच्यलिङ्गः ॥ १ ॥ Koṣakalpataru 6.1.1
- नानार्थार्णवसंक्षेप नीवीनीवी स्यात् कवचे वस्त्रे वणिङ्मूलधने तथा । स्त्रीकटीवसनग्रन्थौ नृभुः प्रतिकृतौ प्लवे ॥ ६१ ॥ Nānārthārṇavasaṃkṣepa 2.1.61
- नानार्थार्णवसंक्षेप माठिकवचे चाथ मारिः स्यान्मसूरीसंज्ञके गदे । सर्वलोकतते मृत्यौ तथा स्याद्देवतान्तरे ॥ ७८ ॥ Nānārthārṇavasaṃkṣepa 2.1.78
- नानार्थार्णवसंक्षेप वर्मन्मार्गे नेत्रच्छदे चाथ वर्म स्यात् कवचे गृहे । वपुः शरीरे लावण्ये जले दीप्तौ च सज्जनः ॥ ५९ ॥ Nānārthārṇavasaṃkṣepa 2.3.59
- नानार्थार्णवसंक्षेप भण्डनपरिहासे च दुग्धे च कवचे च प्रकीर्तितम् । भावित्रं तु भवेद्भद्रे त्रैलोक्ये चाथ भूतिकम् ॥ ६१ ॥ Nānārthārṇavasaṃkṣepa 3.3.61
- नानार्थार्णवसंक्षेप काचरकाचरो वर्णभेदोऽयं कृष्णधूमलमिश्रके । पुंन्नपुंसकयोस्तु स्यात् सन्नाहे कवचं तथा ॥ ३५९ ॥ Nānārthārṇavasaṃkṣepa 4.359
- नानार्थार्णवसंक्षेप कञ्चुकभेषजे कञ्चुकस्त्वस्त्री कवचे वारवाणके । निर्मोके भोगिनश्चाह रभसः शब्दवित्तमः ॥ ३९६ ॥ Nānārthārṇavasaṃkṣepa 4.396
- नानार्थार्णवसंक्षेप वारवाणवारवाणस्तु नृनपोः कञ्चुके कवचेऽपि च । वालवायः पुमाञ्छैलविशेषे भेद्यवत् पुनः ॥ ५५१ ॥ Nānārthārṇavasaṃkṣepa 6.551
- शब्दरत्नावली कुञ्चुकनिर्मोके कवचे चोले कञ्चुकी त्वोषधिभिदि । कारिका स्यात्तु नर्तक्यां यातनाशिल्पयोरपि ॥ Śabdaratnāvalī 7.1.46
- शब्दरत्नावली दशनतोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57
- शब्दरत्नावली दंशदर्शोऽवलोकने यागभेदाभावास्ययोरपि । दंशः कीटविशेषे स्यात्कवचे भुजगक्षते ॥ दशाऽवस्था दीपवर्त्योरंशुकाग्रे तु भूम्नि च । दृग्दृष्ट्यां दर्शने ज्ञाने स्त्रियां ज्ञातरि च त्रिषु ॥ Śabdaratnāvalī 7.30.7
- वैजयन्ती कञ्चुककञ्चुकः सर्पनिर्मोके कवचे वारवाणके । कलापो भूषणे कांच्यां संघाते बर्हतूणयोः ॥ १५ ॥ Vaijayantī 7.1.15
- वैजयन्ती भण्डनबाह्लीकं कुंकुमं हिंगु भण्डनं कवचे रणे । भूतिकं भूमिनिंबे च भूस्तृणे कत्तृणेऽपि च ॥ २६ ॥ Vaijayantī 7.3.26
- वैजयन्ती वारवाणवारवाणं तु कूर्पासे कवचेऽपि च न स्त्रियाम् । विश्वंभरा धरित्री स्यादग्नौ विश्वंभरो हरौ ॥ २२ ॥ Vaijayantī 8.5.22