All kośas › Pañcatattvaprakāśa
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa
409 verses · 3,817 words tagged · 962 marked doubtful (dashed)
आकाशभानुः · दिक्पालमरीचिः
इति श्री या०वं०नी० वेणीदत्तविरचिते पञ्चतत्त्वप्रकाशे वायुभानुः प्रस्फूर्त्तिमगमत् ।
आकाशो गगनं नाकः स्वर्गस्त्रिदिवमम्बरम् ॥ ३३१ ॥
6.1.331 · p. 23
अन्तरिक्षं वियद्व्योम खं विहायो महाविलम् ।इन्द्रः शचीपतिर्वज्री सुत्रामा पाकशासनः ॥ ३३२ ॥
6.1.332 · p. 23
अनुष्टुप्
वृत्रहा वासवः शक्रः शतमन्युः सहस्रदृक् ।वास्तोष्पतिर्नाकिपतिर्वृषाजिष्णुर्दिवस्पतिः ॥ ३३३ ॥
6.1.333 · p. 23
अनुष्टुप्
नन्दनं वज्जिविपिनं? सुधर्मा मघवत्सभा ।हरिदाशा ककुब्काष्ठा दिशा दिक् व्योमपत्रिका ॥ ३३५ ॥
6.1.335 · p. 23
अनुष्टुप्
ऐन्द्री प्राची पूर्वककुबुदीची हरिदुत्तरा ।पूर्वयाम्यान्तराग्नेयी वायवीयाऽवमातिका? ॥ ३३६ ॥
6.1.336 · p. 23
अनुष्टुप्
अवाची दक्षिणा याम्यां प्रतीची पश्चिमास्तदिक् ।ऐशी पूर्वोत्तरान्तर्द्दिक् नैरृती राक्षसार्चिता ॥ ३३७ ॥
6.1.337 · p. 24
अनुष्टुप्
आन्तरिक्षोऽर्द्धदिक् ब्राह्मी पाताली फणिराजदिक् ।शक्रो वह्निर्यमो रक्षः पाशी वायुः शशीश्वरौ ॥ ३३८ ॥
6.1.338 · p. 24
अनुष्टुप्
ब्रह्मा शेष इति प्रोक्ताः पूर्वाचार्यैर्दिगीश्वराः ।ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः ॥ ३३९ ॥
6.1.339 · p. 24
अनुष्टुप्
पुष्पदन्तः सार्वभौमः सुप्रतीको हरिद्गजाः ।यमः कृतान्तः शमनः समवर्त्ता परेतराट् ॥ ३४० ॥
6.1.340 · p. 24
अनुष्टुप्
प्रेतराजः पितृपतिः कालो महिषवाहनः ।निशाचरः पललभुग्राक्षसः कर्बुरोऽस्रपः ॥ ३४१ ॥
6.1.341 · p. 24
अनुष्टुप्
नैरृतः कौणपः क्रव्यादाशरो निकषात्मजः ।पाशी प्रचेता वरुणो यादसांपतिरप्पतिः ॥ ३४२ ॥
6.1.342 · p. 24
अनुष्टुप्
पौलस्त्यः किन्नराधीशो गुह्यकेशो गदायुधः ।कुबेरस्त्र्यम्बकसखो राजराजो धनाधिपः ॥ ३४३ ॥
6.1.343 · p. 24
अनुष्टुप्
मनुष्यधर्मा धनदो यक्षराट् नरवाहनः ।तुरङ्गास्यः किंपुरुषो मयुः किन्नरयक्षकौ ॥ ३४४ ॥
6.1.344 · p. 24
अनुष्टुप्
श्रीदोद्यानं चैत्ररथमलका यक्षराट्पुरम् ।विमानं देवतायानं गुह्यकेशस्य पुष्पकम् ॥ ३४५ ॥
6.1.345 · p. 24
अनुष्टुप्
कै[कौ]लासाद्रिः स्थलं पुत्रः श्रीदस्य नलकूबरः ।शेवधिर्निधिभण्डारौ दीनारं स्वर्णकाम्बिकम् ॥ ३४६ ॥
6.1.346 · p. 24
अनुष्टुप्
कल्पवृक्षः समुद्रद्रुः सन्तानः पारिजातकः ।देवेन्द्रवैद्यौ नासत्यावाश्विनेयौ भिषग्वरौ ॥ ३४७ ॥
6.1.347 · p. 24
अनुष्टुप्
उच्चैःश्रवोऽब्धितुरगो मातलिः शक्रसारथिः ।देवोऽमरो दितिसुतो निर्ज्जरः त्रिदशः सुरः ॥ ३४८ ॥
6.1.348 · p. 24
अनुष्टुप्
विबुधः सुमना लेखो गीर्वाणो मृतभोजनः ।अस्वप्नोऽग्निमुखो नाकी क्रतुभुग्व्योमयानगः ॥ ३४९ ॥
6.1.349 · p. 24
अनुष्टुप्
दैत्योऽसुरो दितिसुतः पूर्वदेवः सुराहितः ।आदित्या भास्करा विश्वेवसवस्तुषितानिलाः ॥ ३५० ॥
6.1.350 · p. 24
अनुष्टुप्
महाराजिकरुद्राद्याः साध्याः प्रोक्ता गणेश्वराः ।किन्नराप्सरसःसिद्धा रक्षोभूतपिशाचकाः ॥ ३५१ ॥
6.1.351 · p. 24
अनुष्टुप्
विद्याधरा गुह्यकाख्याः शास्त्रेऽमी देवयोनयः ।षडभिज्ञो जिनो बुद्धः सुगतोऽद्वयवादकः ॥ ३५२ ॥
6.1.352 · p. 25
अनुष्टुप्
तथागतो दशबलो मायादेवीसुतो मुनिः ।नारदः पर्वतसखः सुरर्षिर्युद्धदर्यकः ॥ ३५३ ॥
6.1.353 · p. 25
अनुष्टुप्
नाकिवेश्या स्वर्गणिकाऽप्सरा वारनितम्बिनी ।तिलोत्तमोर्वशी रम्भा सुकेशी मञ्जुघोषिका ॥ ३५४ ॥
6.1.354 · p. 25
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्व (wrong syllable)