कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

आर्य

āryaपुं · masc.

In 14 kośas: 35 synonym verses, 5 as a nānārtha head word, 7 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.237 · p. 14
बुद्धस्तु सुगतो धर्मधातुस्त्रिकालविज्जिनः ।बोधिसत्त्वो महाबोधिरार्यः शास्ता तथागतः ॥ २३२ ॥पञ्चज्ञानो षडभिज्ञो दशार्हो दशभूमिगः ।चतुस्त्रिंशज्जातकज्ञो दशपारमिताधरः ॥ २३३ ॥द्वादशाक्षौ दशबलस्त्रिकायः श्रीघनाद्वयौ ।समन्तभद्रः संगुप्तो दयाकूर्चो विनायकः ॥ २३४ ॥मारलोकखजिद्धर्मराजो विज्ञानमातृकः ।महामैत्रो मुनीन्द्रश्च बुद्धाः स्युः सप्त ते त्वमी ॥ २३५ ॥विपश्यी शिखी विश्वभूः क्रकुच्छन्दश्च काञ्चनः ।काश्यपश्च सप्तमस्तु शाक्यसिंहोऽर्कबान्धवः ॥ २३६ ॥तथा राहुलसूः सर्वार्थसिद्धो गौतमान्वयः ।मायाशुद्धोदनसुतो देवदत्ताप्रजश्च सः ॥ २३७ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 स्त्रि (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 6 ड (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.264 · p. 17
बाला वासूर्मार्ष आर्यो देवो भट्टारको नृपः ।
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.26 · p. 18
दरिद्रो दुर्विधो दुःस्थो दुर्गतो निःस्वकीकटौ ।अकिंचनोऽधिपस्त्वीशो नेता परिवृढोऽधिभूः ॥ ३५८ ॥पतीन्द्रस्वामिनाथार्याः प्रभुर्भर्तेश्वरो विभुः ।ईशितेनो नायकश्च नियोज्यः परिचारकः ॥ ३५९ ॥डिङ्गरः किंकरो भृत्यश्चेटो गोप्यः पराचितः ।दासः प्रेष्यः परिस्कन्दो भुजिष्यपरिकर्मिणौ ॥ ३६० ॥परान्नः परिपिण्डादः परजातः परैधितः ।
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.379 · p. 19
कपटं कैतवं दम्भः कूटं छद्मोपधिश्छलम् ।व्यपदेशो मिषं लक्षं निभं व्याजोऽथ कुक्कुटिः ॥ ३७८ ॥कुहना दम्भचर्या च वञ्चनं तु प्रतारणम् ।व्यलीकमतिसन्धानं साधौ सभ्यार्यसज्जनाः ॥ ३७९ ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.3
महाकुलकुलीनार्यसभ्यसज्जनसाधवः ।
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.99 · p. 12
भाव इत्युच्यते विद्वान् भावुको भगिनीपतिः ।आवुकस्तु पिता ज्ञेय आर्यो मारिष उच्यते ॥ ९९ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.372 · p. 44
शरारुर्घातको हिंस्रो नृशंसः क्रूरकर्मकृत् ।साधुः सज्जन आर्यः स्याद्गृहमेधी गृहाधिपः ॥ ३७२ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.570 · p. 64
आर्या भूमिस्पृशो वैश्या ऊख्याश्च विशः स्मृताः ।जीवनं वृत्तिराजीवो वार्त्ता चेति निगद्यते ॥ ५७० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर सप्तमोपदेशः Bālaprabodhikā 7.152 · p. 80
भर्तृदारक इत्युक्ते पतिस्त्वार्यः प्रकीर्तितः ।आर्यपुत्रस्तु पूज्यः स्यादार्यकस्तु पिता च सः ॥ १५२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.6 · p. 69
प्रख्यातनप्तृकश्चापि बीज्यः कुल्यः कुलोद्भवः ।महाकुलः सभ्य आर्यः कुलीनः कुलसम्मतः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.16 · p. 216
दोषैकदृक् पुरोभागी साधुसभ्यार्यसज्जनाः ।तत्परे प्रसितासक्ता विष्टार्थोद्युक्त उत्सुकः ॥ १६ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.18 · p. 216
आढ्योस्तिमान् धनी स्वामीभ्येश्वरौ पतिरीशिता ।भर्त्तेशेनेन्द्रनाथार्या नायकस्त्वधिभूः प्रभुः ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.83 · p. 426
वार्द्धापिकोत्साहिका च क्लीबे वर्द्धापनं हि तत् ।नाट्योक्तौ महिषो मार्ष आर्यो विद्वांश्च भावुकः ॥ ८३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.45 · p. 80
विदूषकोक्तौ राजी(?) च भवति गदितोऽस्त्रियाम् ।द्विजभार्या भट्टिनी स्यादार्या गोस्वामिनी च सा ।आर्यपुत्रस्तथार्यः स्यात्स्त्रीणामामन्त्रणे पतिः ॥ ४५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.50 · p. 80
आवुकः स्यात्पितावुत्तो भावुको भगिनीपतिः ।ज्यायानार्यः प्रसूरम्बाथान्तिका चान्तिका स्वसा ॥ ५० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.51 · p. 80
बाला वासूः स्त्रियां शिष्टे त्वार्य-मारिष-मार्षकाः ।अज्जुकानुचरैर्वेश्या वाच्या राज्ञानुनामतः ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.3 · p. 231
सभ्य-साधू सज्जनार्यौ समौ पार्षद्य-पार्षदौ ।पारिषद्यः पारिषदो भवेद्दुष्कुलजः पुनः ॥ ३ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 पा (wrong syllable)
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.36 · p. 4
भर्ता भरण्डो नेतार्यः प्रभुः परिवृढोऽधि[160b]पः ।अधिभूर्नायको नाथः स्वामीन्द्रो विभ्विनौ प्रभुः ॥ ३६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.68 · p. 18
गौरवे त्वार्यमिश्राद्याः श्लाघ्ये भद्रभवन्मुखाः ।नित्यं पुंसि गुणोऽप्राप्य**ग्र्यं चाभिधेयवत् ॥ ६८ ॥
अनुष्टुप्metre not read in every line
genderविadj.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.206 · p. 34
आर्या भूमिस्पृशो वैश्या ऊरव्या ऊरुजा विशः ।आजीवो जीवका वृत्तिर्वार्ता वर्तनजीवने ॥ २०६ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.67 · p. 48
पुन्नपुंसकलिङ्गोऽयमरसम्बन्धिनि त्रिषु ।आर्या मृडान्यां स्त्री जातिच्छन्दोभेदे च ना पुनः ॥ ६७ ॥
अनुष्टुप्
genderपुंस्त्रीक्लीm. f. n.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.163 · p. 25
बुद्धः शास्ता महाबोधिर्धर्मधातुस्त्रिकालवित् ।बोधिसत्त्वो जिनार्यौ च सुगतः श्रीघनाद्वयौ ॥ १६३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.237 · p. 34
उपवर्तमथार्योऽसावुत्तमोत्पत्तिर्विश्रुतः ।अन्तर्वेदिस्तथा गङ्गाकालिन्द्योर्मध्यमुच्यते ॥ २३७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 त्ति (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.25 · p. 104
विभुः स्वामी पतिर्नाथो नेता भर्तेश्वरः पुनः ।इन्द्रेनावीशितेशश्च आर्यः परिवृढः समः ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.45 · p. 107
सभ्यसज्जनसाध्वार्या दुर्जनः पिशुनः समः ।खले नीचो द्विजिह्वोऽपि मत्सरी सूचकस्तथा ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.72 · p. 41
गुणवानुत्तमः श्रेष्ठो योग्यः पूज्यो महान्गुणी ।श्रेयाञ्शिष्टः सदाचारः साधुसभ्यार्यसज्जनाः ॥ ७२ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.330 · p. 43
संगुप्तः सुगतो योगी खजिद्विज्ञानमातृकः ।आर्यश्चाऽर्हन् दशाहश्च शास्ता विज्ञानदेशनः ॥ ३३० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.489 · p. 61
बाला वासूः कुमारी स्याद् मार्ष आर्यश्च मारिषः ।देवो भट्टारको भूपः श्यालो नृपस्य राष्ट्रियः ॥ ४८९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नृ (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.563 · p. 72
अथाऽऽर्यश्चापि साधुः स्यात् सभ्यश्च सज्जनस्तथा ।दोषैकदृक् पुरोभागी विद्वद्भिः कथ्यते किल ॥ ५६३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश प्राणिवर्गप्रकाशः Śabdaratnāvalī 4.1.6 · p. 159
पूज्यः प्रतीक्ष्य आर्यः स्यान्मान्यः पूजार्ह इत्यपि ।अथ संशयिकोऽपि स्यात् संशयापन्नमानसः ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.268 · p. 37
अभिरूपः सुधीर्बोद्धा बुधो बिन्दुर्विचक्षणः ।विशारदश्च संख्यावान् आर्य उत्प्रेक्षकश्च सः ॥ २६८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.950 · p. 119
भरतं नाट्यशास्त्रं स्यान्नाट्योक्तौ गणिकाज्जुका ।माताम्बा मारिषस्त्वार्यो वासूर्बालावुकः पिता ॥ ९५० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.23 · p. 105
स्थापत्यकञ्चुक्यार्याश्च षण्डो वर्षवरः समौ ।प्रदेष्टा पञ्चजनीनो भाण्डागारिक इत्यपि ॥ २३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ज (wrong syllable)
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.106 · p. 144
पतिस्त्वार्य आर्यपुत्र आर्यौ मारिषमार्षकौ ।आबुकस्तु पितांबा तु माता ज्येष्ठा स्वसौप्तिका ॥ १०६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्य (wrong syllable)
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.61 · p. 206
आर्यः कौलेयको जात्यः कुलीनः कुलजोऽभिजः ।जगत्त्रसचरप्राणमिषदिंगच्च जंगमम् ॥ ६१ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.814 · p. 94
आर्यः स्यात्सौविदल्लेऽपि व्रीहावप्यणुरिष्यते ।चण्डालेऽपि दिवाकीर्तिर्विवस्वान् देवतास्वपि ॥ ८१४ ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.15 · p. 288
वैश्ये तथा स्वामिनि चार्य उक्तोहेतौ फले कार्यमुशन्ति सन्तः ।सूर्यो रवावौषधिसूर्यपत्न्योः ।सूर्या [तु] शौर्यं किल शक्तिवाची ॥ १५ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.68 · p. 48
सौविदल्ले सज्जने तु त्रिरागन्तव्यगम्ययोः ।आर्ययोगिनि चाथार्द्रं शृङ्गिबेरे नृशण्डयोः ॥ ६८ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास अकारादयः Paramānandīyanāmamālā 5.1.55 · p. 168
श्रीवासधृतयोराज्यमालिः श्रेणिः सखी पुनः ।आप्तः सत्ये हिते लब्धेऽथार्यो बुद्धे च कोविदे ॥ ५५ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 6.4.2 · p. 228
अन्यौ विभिन्नासदृशावार्यः साधुकुलीनयोः ।आद्यमादिभवे भक्ष्येऽप्युत्पत्तिरहितेऽप्यृजुः ॥ २ ॥
अनुष्टुप्

आर्य as a meaning in nānārtha verses