कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

दीर्घजिह्व

dīrghajihvaपुं · masc.

In 5 kośas: 5 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1304 · p. 50
जाहको गात्रसंकोची मण्डली नकुलः पुनः ।पिङ्गलः सर्पहा बभ्रुः सर्पोऽहिः पवनाशनः ॥ १३०२ ॥भोगी भुजंगभुजगावुरगो द्विजिह्वव्यालौ भुजंगमसरीसृपदीर्घजिह्वाः ।काकोदरो विषधरः फणभृत्पृदाकुर्दृक्कर्णकुण्डलिबिलेशयदन्दशूकाः ॥ १३०३ ॥दर्वीकरः कञ्चुकिचक्रिगूढपात्पन्नगा जिह्मगलेलिहानौ ।कुम्भीनसाशीविषदीर्घपृष्ठाः स्याद्राजसर्पस्तु भुजंगभोजी ॥ १३०४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सर्पादिप्रकाण्डः Kalpadrukośa 1.16.6 · p. 364
द्वे दीर्घाद्रसनार्थः स्याल्लेलिहानश्च पुष्करः ।गूढपाद्दीर्घपृष्ठोऽहिर्द्वयोर्हीरश्च कद्रुजः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पातालवर्गः Koṣakalpataru 3.1.26 · p. 304
फणी कुण्डली मण्डली दन्दशूकोद्विजिह्वस्तथा जिह्मगः पन्नगश्च ।भवेद्भेकभुक्कञ्चुकी दीर्घपृष्ठ-स्तथा दीर्घजिह्वः स काकोदरश्च ॥ २६ ॥
भुजङ्गप्रयातम्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.205 · p. 77
सर्पहा पिङ्गलो बभ्रुः सर्पो भोगी भुजंगमः ।द्विजिह्वो दीर्घजीह्वोऽहिः पृदाकुः पवनाशनः ॥ २०५ ॥
अनुष्टुप्
genderपुंmasc.doubtful
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2354 · p. 381
द्विजिह्वो दीर्घजिह्नश्च दीर्घपृष्ठः सरीसृपः ।दृक्कर्णो दन्दशूकश्च दर्वीकरो बिलेशयः ॥ २३५४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
genderपुंmasc.