द्विजिह्व
dvijihvaपुं · masc.In 16 kośas: 17 synonym verses, 8 as a nānārtha head word, 2 as a meaning of another word.
दोषैकदृक्पुरोभागी कर्णेजपस्तु दुर्जनः ।पिशुनः सूचको नीचो द्विजिह्वो मत्सरी खलः ॥ ३८० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ज (wrong syllable)
genderपुंmasc.
जाहको गात्रसंकोची मण्डली नकुलः पुनः ।पिङ्गलः सर्पहा बभ्रुः सर्पोऽहिः पवनाशनः ॥ १३०२ ॥भोगी भुजंगभुजगावुरगो द्विजिह्वव्यालौ भुजंगमसरीसृपदीर्घजिह्वाः ।काकोदरो विषधरः फणभृत्पृदाकुर्दृक्कर्णकुण्डलिबिलेशयदन्दशूकाः ॥ १३०३ ॥दर्वीकरः कञ्चुकिचक्रिगूढपात्पन्नगा जिह्मगलेलिहानौ ।कुम्भीनसाशीविषदीर्घपृष्ठाः स्याद्राजसर्पस्तु भुजंगभोजी ॥ १३०४ ॥
अनुष्टुप्
जाहकपुंगात्रसंकोचिन्पुंमण्डलिन्पुंनकुलपुंपिङ्गलपुंसर्पहन्पुंबभ्रुपुंसर्पपुंअहिपुंपवनाशनपुंभोगिन्पुंभुजंगपुंभुजगपुंउरगपुंद्विजिह्वपुंव्यालपुंभुजंगमपुंसरीसृपपुंदीर्घजिह्वपुंकाकोदरपुंविषधरपुंफणभृत्पुंपृदाकुपुंदृक्कर्णपुंकुण्डलिन्पुंबिलेशयपुंदन्दशूकपुंदर्वीकरपुंकञ्चुकिन्पुंचक्रिन्पुंगूढपाद्पुंपन्नगपुंजिह्मगपुंलेलिहानपुंकुम्भीनसपुंआशीविषपुंदीर्घपृष्ठपुंराजसर्पपुंभुजंगभोजिन्पुं
genderपुंmasc.
दुर्जनः पिशुनः क्षुद्रो नीचः कर्णेजपः खलः ।दोषग्राही पुरोभागी द्विजिह्वो मत्सरी मतः ॥ ३४६ ॥
अनुष्टुप्
genderपुंmasc.
बिलेशयो द्विजिह्वश्च जिह्मगः पवनाशनः ।शेषः सङ्कर्षणः शुक्रः सहस्राक्षः सहस्रपात् ॥ १६० ॥
अनुष्टुप्
genderपुंmasc.
शिश्विदानः कृष्णकर्मा निकृतस्त्वनृजुः शठः ।दोषैकदृक् पुरोभागी द्विजिह्वो मत्सरी खलः ॥ ८७ ॥
अनुष्टुप्
genderविadj.
द्वे दीर्घाद्रसनार्थः स्याल्लेलिहानश्च पुष्करः ।गूढपाद्दीर्घपृष्ठोऽहिर्द्वयोर्हीरश्च कद्रुजः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.doubtful
फणी कुण्डली मण्डली दन्दशूकोद्विजिह्वस्तथा जिह्मगः पन्नगश्च ।भवेद्भेकभुक्कञ्चुकी दीर्घपृष्ठ-स्तथा दीर्घजिह्वः स काकोदरश्च ॥ २६ ॥
भुजङ्गप्रयातम्
genderपुंmasc.
द्विजिह्वो मत्सरी नीचः पुरोभागी तु दोषदृक् ।खलानां तु समूहे स्तः खल्या च खलिनी स्त्रियौ ॥क्रुद्धस्तु रुषितो रुष्टश्चक्षाणस्तु कलिप्रियः ।रोषणः क्रोधनः क्रोधी कोपनोऽमर्षणः सुरुट् ॥ ५६ ॥
अनुष्टुप्
genderविadj.
सर्पहा पिङ्गलो बभ्रुः सर्पो भोगी भुजंगमः ।द्विजिह्वो दीर्घजीह्वोऽहिः पृदाकुः पवनाशनः ॥ २०५ ॥
अनुष्टुप्
genderपुंmasc.
सभ्यसज्जनसाध्वार्या दुर्जनः पिशुनः समः ।खले नीचो द्विजिह्वोऽपि मत्सरी सूचकस्तथा ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
उरगो जिह्मगो भोगी दन्दशूकः सरीसृपः ।दर्वीकरो विषधरो द्विजिह्वः पवनाशनः ॥ १४६ ॥
अनुष्टुप्
genderपुंmasc.
कर्णेजपश्च पिशुनो द्विजिह्वो दुर्जनः खलः ।पापो धूर्तः शठः क्रूरः क्षुद्रो नीचोऽधमोऽनृजुः ॥ ७४ ॥
अनुष्टुप्
genderविadj.
अथ कर्णेजपः क्षुद्रो द्विजिह्वो दुर्जनः खलः ।प्रखलः पिशुनो नीचः स्यान् मत्सरी च सूचकः ॥ ५६४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्स (wrong syllable)
genderपुंmasc.
द्विजिह्वो दीर्घजिह्नश्च दीर्घपृष्ठः सरीसृपः ।दृक्कर्णो दन्दशूकश्च दर्वीकरो बिलेशयः ॥ २३५४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
genderपुंmasc.
सर्पः पृदाकुभुजगाहिभुजंगभोगि-कुम्भीनसोरगभुजंगमगूढपादाः ।व्यालद्विजिह्वफणिजिह्मगदन्तशूक-काकोदराण्डजसरीसृपकाद्रवेयाः ॥ २९८ ॥
वसन्ततिलका
genderपुंmasc.
महासेनो द्विजिह्वाख्यो हयो भद्रश्च कण्टकः ।द्विबिन्दुकोऽमरेशश्च सोमश्चैव हरिस्तथा ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
ऐश्वरी चार्धनारीशो नरः शङ्खान्तराकृतिः ।ढल-ढक्कौ द्विजिह्वश्च दक्षाङ्घ्र्यङ्गुलिमूलगः ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.
स्त्री तु द्वितीया भार्यायामजदैवतके तिथौ ।द्वितीयस्यां विभक्तौ च द्विजिह्वस्तु त्रि सूचके ॥ ९२९ ॥
अनुष्टुप्
meaningsसूचक
द्वे तु सर्पे दिक्करी तु स्त्री किञ्चित्प्रौढयोषिति ।बहुव्रीही पुनस्त्रि स्याद् द्विजातिस्तु द्वयोरयम् ॥ ९३० ॥
अनुष्टुप्
meaningsसर्प
doubtful
द्विजिह्व as a meaning in nānārtha verses
- तन्त्राभिधान अःद्विबिन्दू रसना सोमोऽनिरुद्धो दुःखसूचकः । द्विजिह्वः कुण्डलं वक्त्रं सर्गः शक्तिर्निशाकरः ॥ ५४ ॥ Tantrābhidhāna 2.17.54
- तन्त्राभिधान डदुरूहो जटिलो(ली) भीमा द्विजिह्वः पृथिवी सती । कोलगिरिः क्षमा शान्तिर्नाभिः स्वाती च लोचनम् ॥ ९६ ॥ Tantrābhidhāna 2.30.96