कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

चक्रिन्

cakrinपुं · masc.

In 18 kośas: 28 synonym verses, 10 as a nānārtha head word, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1304 · p. 50
जाहको गात्रसंकोची मण्डली नकुलः पुनः ।पिङ्गलः सर्पहा बभ्रुः सर्पोऽहिः पवनाशनः ॥ १३०२ ॥भोगी भुजंगभुजगावुरगो द्विजिह्वव्यालौ भुजंगमसरीसृपदीर्घजिह्वाः ।काकोदरो विषधरः फणभृत्पृदाकुर्दृक्कर्णकुण्डलिबिलेशयदन्दशूकाः ॥ १३०३ ॥दर्वीकरः कञ्चुकिचक्रिगूढपात्पन्नगा जिह्मगलेलिहानौ ।कुम्भीनसाशीविषदीर्घपृष्ठाः स्याद्राजसर्पस्तु भुजंगभोजी ॥ १३०४ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह पातालभोगिवर्गः Amarakośa 1.8.9
सर्पः पृदाकुर्भुजगो भुजङ्गोऽहिर्भुजङ्गमः ॥ ६ ॥आशीविषो विषधरश्चक्री व्यालः सरीसृपः ।कुण्डली गूढपाच्चक्षुःश्रवाः काकोदरः फणी ॥ ७ ॥दर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः ।उरगः पन्नगो भोगी जिह्मगः पवनाशनः ॥ ८ ॥लेलिहानो द्विरसनो गोकर्णः कञ्चुकी तथा ।कुम्भीनसः फणधरो हरिर्भोगधरस्तथा ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.640 · p. 73
विषधरदन्दशूकपवनाशनसर्पसरीसृपोरुगव्याल-भुजगभुजङ्गकुम्भीनसपन्नगनागभोगिनः ।अहिफणभृत्पृदाकुकाकोदरकञ्चुकिचक्रिगूढपाद्,द्विरसनकाद्रवेयदर्वीकरदृक्श्रुतयो भुजङ्गमाः ॥ ६४० ॥
metre not recognised
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर षोडशोपदेशः Bālaprabodhikā 16.345 · p. 97
लेखकोऽक्षरचञ्चुश्च चण्डिलः क्षुरमर्दकः ।कुम्भकारः कुलालः स्याच्चक्री भार्गव इत्यपि ॥ ३४५ ॥
अनुष्टुप्
genderपुंmasc.
एकादिसंख्यासंज्ञाकोष Ekādisaṃkhyāsaṃjñākoṣa · अज्ञात षट्संख्यावाचकाः शब्दाः Ekādisaṃkhyāsaṃjñākoṣa 6.15 · p. 200
रस-राग-चक्रकोणास्त्रिशिरोनेत्रा-ऽन्तराणि गुण-तर्काः ।दर्शन-गृहमुख-भूषण्ड-चक्रिणः स्युरिह षट् संख्याः ॥ १५ ॥
आर्या
genderपुंmasc.
एकादिसंख्यासंज्ञाकोष Ekādisaṃkhyāsaṃjñākoṣa · अज्ञात द्वादशसंख्यावाचकाः शब्दाः Ekādisaṃkhyāsaṃjñākoṣa 12.22 · p. 200
गुहनेत्र-राशि-मासाः सङ्क्रान्त्यादित्य-चक्रिराजानः ।चक्रि-बृहस्पतिहस्ताः सभासदो द्वादश भवन्ति ॥ २२ ॥
आर्या
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.420 · p. 67
चक्री चक्रनखश्चापि कालः पुंस्यथ षण्पुनः ।संस्कारो गन्धमाल्याद्यैर्यत्स्यात्तदधिवासनम् ॥ ४२० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.208 · p. 271
तिनिशः स्यन्दनश्चक्री रथाङ्गः स्यन्दनद्रुमः ।अपि स्त्रीपुंसयोर्नेमिर्नेमी चापि स्त्रियामिमे ॥ २०८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सर्पादिप्रकाण्डः Kalpadrukośa 1.16.1 · p. 363
सर्पो दर्वीकरश्चक्री कुण्डल्याशीविषश्च सः ।वायुपर्यायभक्षार्थो लेलिहानो विषायुधः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सर्पादिप्रकाण्डः Kalpadrukośa 1.16.4 · p. 364
चक्री बिलशयश्चापि कुण्डली व्यालभोगिनौ ।पृदाकुः कञ्चुकी व्याडः कुम्भीनससरीसृपौ ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सर्पादिप्रकाण्डः Kalpadrukośa 1.16.13 · p. 365
राजसर्पो भुजङ्गार्थो भोगी स्यादथ वाहसः ।चक्री मण्डल्यजगरः पारीन्द्रोऽजगिलः शयुः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव जिनप्रकाण्डः Kalpadrukośa 1.18.8 · p. 369
मायादेवीसुतश्चक्री धरेयोपि च बाहुलः ।क्षीणाष्टकर्मा देवाधिदेवः श्रोमो जिनेश्वरः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव यज्ञादिप्रकाण्डः Kalpadrukośa 3.3.5 · p. 451
विष्वक्सेनः शतावर्तश्चक्री श्रीवत्सलाञ्छनः ।अधोक्षजोऽव्ययो वेधाः पुराणपुरुषः कविः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.14 · p. 9
विष्वक्सेन-पुराणपूरुष-जगन्नाथाऽजयेन्द्रानुजो-पेन्द्राऽधोक्षज-नन्दनन्दन-हृषीकेशा[7a] भरुः केशिहृत् ।षड्बिन्दुः शतबिन्दु-मैन्ददमनौ शार्ङ्गी बलिध्वंसनश्-चक्री कौस्तुभभूषणो नरकभित् कंसान्तकः साल्वहृत् ॥ १४ ॥
शार्दूलविक्रीडितम्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पातालवर्गः Koṣakalpataru 3.1.25 · p. 304
सर्पः पृदाकुर्भुजगो भुजंगोभुजंगमाशीविष-गूढपादाः ।दर्वीकरः स्यादुरगश्च भोगीचक्षुःश्रवश्चक्रि-सरीसृपाश्च ॥ २५ ॥
उपजातिः
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.119 · p. 23
गृहस्थः स्नातकी चक्री गृहमेधी गृहीति च ।पृथुचित्रः कुण्डधान्यो विघसाशी दिनत्रयी ॥ ११९ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.244 · p. 39
कुम्भकारः कुलालः स्याच्चक्री भार्गव इत्यपि ।आपाकः पुटपाणः स्यात्पचनं पाकमण्डलम् ॥ २४४ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट पाताललोकसर्गः Paryāyaśabdaratna 3.31 · p. 126
आवर्ते तु विरोधी स्याच्चक्रिवारिभ्रमादिकम् ।वक्रश्चक्रश्च भेदी च मादिनी जलपूरकः ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2355 · p. 381
हरिश्चक्षुःश्रवाश्चक्री कुम्भीनसश्च कञ्चुकी ।जिह्मगो लेलिहानश्च व्याडो व्यालश्च कुण्डली ॥ २३५५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.18 · p. 38
अहिराशीविषश्चक्री काकोदर उरङ्गमः ।गूढपादो बिलेवासी दर्विभृत् दर्वीकृत् तथा ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 र्वी (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.19 · p. 3
विष्णुः श्रीपतिरच्युतोऽसुररिपुर्विश्वंभरः केशवोवैकुण्ठः पुरुषोत्तमो मधुरिपुर्नारायणो माधवः ।शार्ङ्गी तार्क्ष्यरथः समुद्रशयनः पीताम्बरः श्रीधर-श्चक्री कैटभजित्सरोजनयनोऽनन्तो मुकुन्दो हरिः ॥ १९ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.299 · p. 41
विषधरचक्रिबिलेशयदर्वीकरदीर्घपृष्ठदृक्छ्रवणाः ।पन्नगपवनभुगाशीविषकुण्डलिनागलेलिहानाश्च ॥ २९९ ॥
गीतिः
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1544 · p. 186
जीवान्तकः शाकुनिकः स्याद्वैतंसिककौटिकौ ।तैलाजीवस्तु चक्री स्यात् पिण्याको ना खलिः स्त्रियाम् ॥ १५४४ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.19 · p. 36
क्रोधीशो धातृसंज्ञश्च चक्री सृष्टिः करादिगः ।वर्गादिर्माया देवेशः क-कारः कामगः स्मृतः ॥ १९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 या (wrong syllable)
genderपुंmasc.
ब्रह्म सृष्टिः खादिमश्च क्रोधीशश्च स्वरान्त(ङ्ग)कः ।दक्षदोमूलगश्चक्री कामाख्यो गणनायकः ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.12 · p. 4
वासुदेवः स्वभूश्चक्री वैकुण्ठः पुरुषोत्तमः ।अरिष्टनेमिरजितः श्रीधरो यज्ञपूरुषः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.40 · p. 86
उपसंग्रहणं पादग्रहणेनाभिवादनम् ।गृहस्थः स्नातकश्चक्री गृहमेधी गृहीति च ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश सरीसृपाध्यायः Vaijayantī 4.1.6 · p. 148
दीर्घपृष्ठो विषधरः पन्नगो दृक्श्रवा हरिः ।बिलौका गूढपाच्चक्री नाकुसद्मानिलाशनः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास नार्धश्लोकः Dharaṇikośa 19.2.14 · p. 111
चक्री सर्पे खले विष्णौ चक्री स्यात्काभ्र?तैलिकः ।धन्वी च ककुभे पार्थे धन्वी चापविचक्षणः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.76 · p. 258
पत्री खगे श्येनशरद्रुमेषुस्यात्सायके स्यन्दनसंस्थिते वा ।वज्री शरेऽश्वे षडभिज्ञ इन्द्रेविहंगमे कोकभुजंगयोस्तु ॥ ७६ ॥
उपजातिः
doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.77 · p. 258
चक्री हरौ स्याच्छकटे कुलालेग्रामोद्भवे * ककुभद्रुमे तु ।धनुर्धरे पार्थविदग्धयोश्चधन्वी कृती पण्डितयोग्ययोः स्यात् ॥ ७७ ॥
उपजातिःmetre not read in every linenearly उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.409 · p. 77
भृत्ये भृङ्गिरिटाभिख्ये स तु चर्मवति त्रिषु ।तथा फलकपाणौ च चक्री तु नरि केशवे ॥ ४०९ ॥
अनुष्टुप्
meaningsकेशव
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.410 · p. 77
द्वे कुलाले गृहस्थे च तौलिके भुजगेऽपि च ।त्रि तु स्याच्चक्रवन्मात्रे चारस्तु स्यान्नरि स्पशे ॥ ४१० ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चकारादयः Paramānandīyanāmamālā 5.11.179 · p. 184
चर्चा देव्यां च निन्दायां चिन्तायां स्थासकेऽपि च ।चक्री कोके कुलालेऽपि सार्वभौमे रथे हरौ ॥ १७९ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.55 · p. 237
ग्रावा स्यात्पुंसि पाषाणे दृढे पृथ्वीधरेऽपि च ।गृञ्जनो ना रसोने स्त्री निषाक्तपशुमांसके ॥गोस्तनो ना हारभेदे द्राक्षायां स्त्री च गोस्तनी ।गोमी पुंसि जम्बुके स्याद्गोमत्युपासके त्रिषु ॥चलनं भ्रमणे कम्पे क्लीबं कम्पयुते त्रिषु ।चलनी वस्त्रविधिन्यां वारीभेदे च कुत्रचित् ॥चक्री काककुलालाजग्रामजालिकसूचके ।सर्पे तैलिकभेदे स्याद्वासुदेवे च पुंस्ययम् ॥चर्मी भृङ्गरिटौ भूर्जे मोचाफलकहस्तयोः ।चर्म क्लीबन्तु फलके कृत्तौ त्वचि तु कुत्रचित् ॥चेतनो वाच्यवत् प्राणयुक्ते च संविदि स्त्रियाम् ।छर्दनं वमने क्लीबं पुंसि निम्बेऽप्यलम्बुषे ॥छदनं चलने पक्षे पिधानेऽपि नपुंसकम् ।छेदनन्तु द्विधा कार्ये कर्त्रनेऽपि च न द्वयोः ॥जवनस्तु रये वेगिहये वेगवति त्रिषु ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 सि (wrong syllable); pāda 4, syllable 3 त्यु (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 6 वि (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1917 · p. 233
चक्री दर्वीकरे विष्णौ कुलाके छद्मवत्यपि ।प्रचारे प्रणिधौ चारश्चीनो देशे मृगान्तरे ॥ १९१७ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.238 · p. 173
चीनौ वस्त्रत्रीहिभेदौ चिह्नं लक्ष्मपताकयोः ।चक्रिणौ विष्णु भुजगकुलालग्रामजालिनः ॥ २३८ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.23 · p. 215
चटुश्चाटुश्च राजादिस्तुतौ पशुपिचिंडके ।चक्री विष्णौ कुलालेऽहौ च्युपौ पवनसंक्रमौ ॥ २३ ॥
अनुष्टुप्

चक्रिन् as a meaning in nānārtha verses

  • तन्त्राभिधान ककः क्रोधीशो मुखं चक्री व्रतदेवः सुरो रविः । ख-श्चण्डो देवि! चण्डेश ऋद्धिश्चैव तथा गदी ॥ १३ ॥ Tantrābhidhāna 1.13
  • तन्त्राभिधान कचक्री प्रजापतिः सृष्टिर्दक्षस्कन्धो विशाम्पतिः । अनन्तः पार्थिवो बिन्दुस्तापिनी परमार्थकः ॥ ५७ ॥ Tantrābhidhāna 2.18.57