कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कुम्भीनस

kumbhīnasaपुं · masc.

In 12 kośas: 9 synonym verses, 4 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1304 · p. 50
जाहको गात्रसंकोची मण्डली नकुलः पुनः ।पिङ्गलः सर्पहा बभ्रुः सर्पोऽहिः पवनाशनः ॥ १३०२ ॥भोगी भुजंगभुजगावुरगो द्विजिह्वव्यालौ भुजंगमसरीसृपदीर्घजिह्वाः ।काकोदरो विषधरः फणभृत्पृदाकुर्दृक्कर्णकुण्डलिबिलेशयदन्दशूकाः ॥ १३०३ ॥दर्वीकरः कञ्चुकिचक्रिगूढपात्पन्नगा जिह्मगलेलिहानौ ।कुम्भीनसाशीविषदीर्घपृष्ठाः स्याद्राजसर्पस्तु भुजंगभोजी ॥ १३०४ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह पातालभोगिवर्गः Amarakośa 1.8.9
सर्पः पृदाकुर्भुजगो भुजङ्गोऽहिर्भुजङ्गमः ॥ ६ ॥आशीविषो विषधरश्चक्री व्यालः सरीसृपः ।कुण्डली गूढपाच्चक्षुःश्रवाः काकोदरः फणी ॥ ७ ॥दर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः ।उरगः पन्नगो भोगी जिह्मगः पवनाशनः ॥ ८ ॥लेलिहानो द्विरसनो गोकर्णः कञ्चुकी तथा ।कुम्भीनसः फणधरो हरिर्भोगधरस्तथा ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.640 · p. 73
विषधरदन्दशूकपवनाशनसर्पसरीसृपोरुगव्याल-भुजगभुजङ्गकुम्भीनसपन्नगनागभोगिनः ।अहिफणभृत्पृदाकुकाकोदरकञ्चुकिचक्रिगूढपाद्,द्विरसनकाद्रवेयदर्वीकरदृक्श्रुतयो भुजङ्गमाः ॥ ६४० ॥
metre not recognised
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.65 · p. 13
सीसं वङ्गं च योगेष्टं लघुतारं भुजङ्गकम् ।सर्पं कुम्भीनसं वित्तं मृद्भवं सर्वतोमुखम् ॥ ६५ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव सर्पादिप्रकाण्डः Kalpadrukośa 1.16.4 · p. 364
चक्री बिलशयश्चापि कुण्डली व्यालभोगिनौ ।पृदाकुः कञ्चुकी व्याडः कुम्भीनससरीसृपौ ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पातालवर्गः Koṣakalpataru 3.1.27 · p. 304
व्यालानिलाशन-विषायुध-लेलिहानाद्वंद्वे त्वहिर्विषधरो रसनाविषश्च ।कुम्भीनसोऽपि सृदरश्च बिलेशय[150a]श्चगोकर्ण-नागक-फणायुध-काद्रवेयाः ॥ २७ ॥
वसन्ततिलकाmetre not read in every line
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2355 · p. 381
हरिश्चक्षुःश्रवाश्चक्री कुम्भीनसश्च कञ्चुकी ।जिह्मगो लेलिहानश्च व्याडो व्यालश्च कुण्डली ॥ २३५५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.298 · p. 40
सर्पः पृदाकुभुजगाहिभुजंगभोगि-कुम्भीनसोरगभुजंगमगूढपादाः ।व्यालद्विजिह्वफणिजिह्मगदन्तशूक-काकोदराण्डजसरीसृपकाद्रवेयाः ॥ २९८ ॥
वसन्ततिलका
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव पातालवर्गः Trikāṇḍaśeṣa 1.7.6 · p. 24
अथाब्भक्षो द्विरसनः समकोलश्च भेकभुक् ।कुम्भीनसो मण्डली व गरलं जंगमं विषम् ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास सश्लोकः Dharaṇikośa 31.3.11 · p. 227
कुम्भीनसाः स्युस्ते सर्पा ये स्युर्दृष्टिविषोल्बणाः ।रक्षसो नरकाख्यस्य माता कुम्भीनसी स्मृता ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ सान्ताः Koṣakalpataru 6.31.20 · p. 384
निःश्रेयसं तु मोक्षे कल्याणे चन्द्र[91a]खण्डे च ।कुम्भीनसस्तु[भुजगे]सविषज्वालादृशि प्रोक्तः ॥ २० ॥
metre not recognised
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.180 · p. 41
कुलत्थिकाख्यभैषज्ये कुलाले तु द्वयोरथ ।कुम्भीनसः सर्पमात्रे द्वयोर्दर्वीकरान्तरे ॥ १८० ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सान्ताः Śabdaratnāvalī 7.32.44 · p. 296
कुम्भीनसः क्रूरसर्पे स्त्रियां लवणमातरि ।भवेद्धनरसः सान्द्रनिर्यासे मोरटेऽम्बुनि ॥
अनुष्टुप्