कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

हीर

hīraपुं · masc.

In 15 kośas: 14 synonym verses, 6 as a nānārtha head word, 4 as a meaning of another word.

खनिः खानिः खनी च स्यात् तुल्यौ द्वौ हीरहीरकौ ।अटवी(वि?)मटवीं प्राहुर्वनीमपि वनं तथा ॥ ८८ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.115 · p. 18
हीरस्तु चान्द्रकमणिर्वज्रो वज्रहतोपि च ।प्राविड्जं चापि वैडूर्यं विडूरजमितीर्यते ॥ ११५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.274 · p. 50
तदौर्णमथ कौशेयं जीविनिर्जीवकोशजम् ।विविधं चापि तत्सूत्रं पट्टं हीरं च कोमलम् ॥ २७४ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव सर्पादिप्रकाण्डः Kalpadrukośa 1.16.6 · p. 364
द्वे दीर्घाद्रसनार्थः स्याल्लेलिहानश्च पुष्करः ।गूढपाद्दीर्घपृष्ठोऽहिर्द्वयोर्हीरश्च कद्रुजः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.83 · p. 389
मृत्युञ्जयः कृत्तिवासा भालार्थाल्लाञ्छनार्थकः ।भालदृग्गोपतिर्हीरः पिङ्गदृग्वर्वढोऽव्ययः ॥ ८३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.119 · p. 474
विधकूपकलम्बानां जित्यस्य सहवध्रया ।सहचरमुद्गरयोर्हीरस्य कृशरस्य च ॥ ११९ ॥
अनुष्टुप्metre not read in every line
genderपुंस्त्रीm. f.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.52 · p. 8
श्रीपतिर्गोपतिर्गोप्ता हीरो हंसः पुरातनः ।यज्ञः सम्राड्यजः प्राज्ञः सर्वज्ञः सर्वतोमुखः ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
संसारावर्त Saṃsārāvarta · विक्रमादित्य Saṃsārāvarta 3 · p. 466
हीरः कपर्दी च शिवो दक्षयज्ञहरो हरः ॥ ३ ॥
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.243 · p. 32
हीरो हिरण्यरेताः वै तथा स्यादक्षतस्वनः ।कपर्दोऽस्य जटाजूटः खट्वाङ्गस्तु सुखंसुणः ॥ २४३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.181 · p. 149
वज्रोऽस्त्री हीरको हीरो दधीच्यस्थि च वज्रकम् ।कषायकन्तु कासायं राजपट्टो विराटजः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.79 · p. 183
हीर ईशान ईशश्च वामदेवश्च वामयुक् ।अहिर्बुध्नो बुध्नकाही महाकालः सकालकः ॥ ७९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.88 · p. 225
हीरश्च हीरको, राजपट्टे प्रोक्तो विराटजः ।वैराटोऽपि चन्द्रकान्ते चान्द्रोऽपि स्फटिके मतम् ॥ ८८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 पि (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.148 · p. 20
प्रवालो विद्रुमः पुंसि कुल्माषः कुरुविन्दकः ।पद्मरागो लोहितकं हीरो ना वज्रमस्त्रियाम् ॥ १४८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 लो (wrong syllable)
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव स्वर्गवर्गः Trikāṇḍaśeṣa 1.1.43 · p. 10
शम्भुर्भगाली कपिशाञ्जनश्च हीरः कटप्रूर्भरुरेरिहाणौ ।पुरारिपञ्चाननभैरवाट्टहासप्रहासाश्च खकुन्तलश्च ॥ ४३ ॥
उपजातिः
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.24 · p. 306
तुरङ्गमात्रेऽप्यथ लग्नराश्य-र्द्धयोश्च रेखाभिदि चात्र होरा ।हीरस्तु वज्रे समरे स्त्रियां तुहरिप्रियायां च पिपीलिकायाम् ॥ २४ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1597 · p. 179
त्रिरूनगर्ह्ययोर्ना तु नागकेसरपादपे ।हीरः पुंसि शिवे द्वे तु सर्पे सिंहे च स त्रि तु ॥ १५९७ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास हकारादयः Paramānandīyanāmamālā 5.28.373 · p. 209
लोकान्तरे द्विपे वह्नौ हारो मुक्तागणे स्मृतः ।संग्रामेऽथ मतो हीरो रुद्रे वज्रेऽपि कथ्यते ॥ ३७३ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.51 · p. 268
हिंस्रा त्वेलावलीमांस्योः स्त्रियां स्यात्त्रिषु घातुके ।हीरो ना शङ्करे वज्रे हीरा लक्ष्मयम्बुतैलयोः ॥होरा स्त्री शास्त्रभेदे स्याल्लग्ने राश्यर्द्धरेखयोः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2028 · p. 246
निःसपत्ननृपे भिक्षौ हीरः पन्नगसिंहयोः ।विष्णुसिंहार्कचन्द्रेन्द्रयमानिलशुकादिषु ॥ २०२८ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.69 · p. 219
वारिपर्णी च हेतुस्तु कारणे कर्मजन्मनोः ।हीरः सर्पे हरे सिंहे हेलिरालिंगने रवौ ॥ ६९ ॥
अनुष्टुप्

हीर as a meaning in nānārtha verses