कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पवनाशन

pavanāśanaपुं · masc.

In 8 kośas: 8 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1304 · p. 50
जाहको गात्रसंकोची मण्डली नकुलः पुनः ।पिङ्गलः सर्पहा बभ्रुः सर्पोऽहिः पवनाशनः ॥ १३०२ ॥भोगी भुजंगभुजगावुरगो द्विजिह्वव्यालौ भुजंगमसरीसृपदीर्घजिह्वाः ।काकोदरो विषधरः फणभृत्पृदाकुर्दृक्कर्णकुण्डलिबिलेशयदन्दशूकाः ॥ १३०३ ॥दर्वीकरः कञ्चुकिचक्रिगूढपात्पन्नगा जिह्मगलेलिहानौ ।कुम्भीनसाशीविषदीर्घपृष्ठाः स्याद्राजसर्पस्तु भुजंगभोजी ॥ १३०४ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह पातालभोगिवर्गः Amarakośa 1.8.9
सर्पः पृदाकुर्भुजगो भुजङ्गोऽहिर्भुजङ्गमः ॥ ६ ॥आशीविषो विषधरश्चक्री व्यालः सरीसृपः ।कुण्डली गूढपाच्चक्षुःश्रवाः काकोदरः फणी ॥ ७ ॥दर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः ।उरगः पन्नगो भोगी जिह्मगः पवनाशनः ॥ ८ ॥लेलिहानो द्विरसनो गोकर्णः कञ्चुकी तथा ।कुम्भीनसः फणधरो हरिर्भोगधरस्तथा ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.640 · p. 73
विषधरदन्दशूकपवनाशनसर्पसरीसृपोरुगव्याल-भुजगभुजङ्गकुम्भीनसपन्नगनागभोगिनः ।अहिफणभृत्पृदाकुकाकोदरकञ्चुकिचक्रिगूढपाद्,द्विरसनकाद्रवेयदर्वीकरदृक्श्रुतयो भुजङ्गमाः ॥ ६४० ॥
metre not recognised
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर अष्टमोपदेशः Bālaprabodhikā 8.160 · p. 80
बिलेशयो द्विजिह्वश्च जिह्मगः पवनाशनः ।शेषः सङ्कर्षणः शुक्रः सहस्राक्षः सहस्रपात् ॥ १६० ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.205 · p. 77
सर्पहा पिङ्गलो बभ्रुः सर्पो भोगी भुजंगमः ।द्विजिह्वो दीर्घजीह्वोऽहिः पृदाकुः पवनाशनः ॥ २०५ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.146 · p. 16
उरगो जिह्मगो भोगी दन्दशूकः सरीसृपः ।दर्वीकरो विषधरो द्विजिह्वः पवनाशनः ॥ १४६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2353 · p. 380
अहिः सर्पः पृदाकुश्च पन्नगः पवनाशनः ।उरगो भुजगो भोगी भुजङ्गश्च भुजङ्गमः ॥ २३५३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.17 · p. 37
उरगो जिह्मगो भोगी पृदाकुर्व्याडपन्नगौ ।दंष्ट्री विषास्यो गोकर्णो गूढपात् पवनाशनः ॥
अनुष्टुप्
genderपुंmasc.