कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Kalpadrukośa

कल्पद्रुकोशः Kalpadrukośa

4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)

भूमिस्कन्धः · सर्पादिप्रकाण्डः

सर्पो दर्वीकरश्चक्री कुण्डल्याशीविषश्च सः ।वायुपर्यायभक्षार्थो लेलिहानो विषायुधः ॥ १ ॥
1.16.1 · p. 363
अनुष्टुप्
चक्षुःपर्यायकर्णार्थो विलार्थाच्छयनार्थकः ।अपि व्याह्लो दर्विकरो दर्वीधृद्दर्विभृत्फटी ॥ २ ॥
1.16.2 · p. 363
अनुष्टुप्
फणाधरः फणधरः फणावान्फणवानपि ।बिलवासी बिलेवासी गूढपादो बिलेक्षयः ॥ ३ ॥
1.16.3 · p. 364
अनुष्टुप्
चक्री बिलशयश्चापि कुण्डली व्यालभोगिनौ ।पृदाकुः कञ्चुकी व्याडः कुम्भीनससरीसृपौ ॥ ४ ॥
1.16.4 · p. 364
अनुष्टुप्
द्वे दीर्घाद्रसनार्थः स्याल्लेलिहानश्च पुष्करः ।गूढपाद्दीर्घपृष्ठोऽहिर्द्वयोर्हीरश्च कद्रुजः ॥ ६ ॥
1.16.6 · p. 364
अनुष्टुप्
शेषस्तु नागपर्यायराजार्थोऽनन्त इत्यपि ।विष्णुपर्यायशय्यार्थः सहस्रफणभूधरौ ॥ ७ ॥
1.16.7 · p. 364
अनुष्टुप्
सितपङ्कजचिह्नः स्यादालुको गौर इत्यपि ।ज्येष्ठः कद्रुतनूजानां सर्पराजस्तु वासुकिः ॥ ८ ॥
1.16.8 · p. 364
अनुष्टुप्
श्वेतो नीलसरोजाङ्को लोहिताङ्गस्तु तक्षकः ।स्वस्तिकाङ्कशिराश्चाथ महापद्मोऽतिशुक्लकैः ॥ ९ ॥
1.16.9 · p. 364
अनुष्टुप्
दशभिर्बिन्दुभिर्युक्तशिराः पीतसितां गले ।दधच्छङ्खेन्दुसदृशा ज्वालाधूमसमश्च सः ॥ १० ॥
1.16.10 · p. 364
अनुष्टुप्
कालीयः कालियस्तुल्यौ कृष्णपादार्थचिह्निते ।अर्द्धेन्दुमौलिः कुलिकोऽथापरे कम्बलः पुनः ॥ ११ ॥
1.16.11 · p. 364
अनुष्टुप्
बलाहकश्चाश्वतर इत्याद्यास्तत्कुलाधिपाः ।तत्तल्लक्षणसंयुक्तास्तत्तत्कुलसमुद्भवाः ॥ १२ ॥
1.16.12 · p. 365
अनुष्टुप्
राजसर्पो भुजङ्गार्थो भोगी स्यादथ वाहसः ।चक्री मण्डल्यजगरः पारीन्द्रोऽजगिलः शयुः ॥ १३ ॥
1.16.13 · p. 365
अनुष्टुप्
स्त्रियां दृन्भूर्मार्गभित्स्याद्वलूतोथ तिलिंसकः ।गोनासो गोनसोऽपि स्याद् घोणसोऽथालगर्दकः ॥ १४ ॥
1.16.14 · p. 365
अनुष्टुप्
जलपर्यायसर्पार्थः समो राजिलडुंडुभौ ।मातुलानो मातुलाहिर्द्विमुखः पुंस्यहीरणिः ॥ १५ ॥
1.16.15 · p. 365
अनुष्टुप्
अहीरणी चाथ पुनर्भाण्डपुष्टस्तु कोकिलः ।कन्दलान्तोऽथाश्वलाला स्त्रियां स ब्रह्मजिह्मगः ॥ १६ ॥
1.16.16 · p. 365
अनुष्टुप्
निर्मोकरहिते तत्र निर्मुक्तो मुक्तकञ्चुकः ।कुक्कुटादिः कुक्कुटाभो वर्णेन च रवेण च ॥ १७ ॥
1.16.17 · p. 365
अनुष्टुप्
नागाः सर्वे काद्रवेयाः सपादा अपदाश्च ते ।सकर्णाः कर्णरहिता मुखबालधराः परे ॥ १८ ॥
1.16.18 · p. 365
अनुष्टुप्
इत्यादयो बहुविधा व्यालाः पातालभूचराः ।सर्पी तु सर्पिणी चाथ स्यादाहेयं त्रिषूत च ॥ १९ ॥
1.16.19 · p. 365
अनुष्टुप्
विषास्थ्यादि स्यादथ च फटायां तु फणा द्वयोः ।स्फुटा स्फटा दर्विदर्व्यौ भोगस्त्रिष्वथ वर्ष्मणि ॥ २० ॥
1.16.20 · p. 365
अनुष्टुप्
भोगस्त्रिष्वहिकोशस्तु निर्मोकः कञ्चुकोऽस्त्रियाम् ।गरोऽस्त्री गरलः क्ष्वेडो गरलं विषमस्त्रियाम् ॥ २१ ॥
1.16.21 · p. 366
अनुष्टुप्
अस्त्रियां विषभेदे तु हालाहलहलाहले ।हलाहलं हालहालं शौक्लिकेयं च न स्त्रियाम् ॥ २२ ॥
1.16.22 · p. 366
अनुष्टुप्
सौक्तिकेयोऽथ सौराष्ट्रिकः स्यात्सारोष्ट्रिकोऽपि च ।वत्सनाभश्च काकोलः कालकूटः प्रदीपनः ॥ २३ ॥
1.16.23 · p. 366
अनुष्टुप्
ब्रह्मपुत्रो दारकश्च पुंसि क्लीबे मता अमी ।अहिच्छत्रो मेषशृङ्गः कुलिको मधुसिक्थकः ॥ २४ ॥
1.16.24 · p. 366
अनुष्टुप्
इन्द्रो लाङ्गुलिको विष्णुलिङ्गपिङ्गलगोतमाः ।मुस्तको दालवाद्याः स्युरथान्ये जङ्गमाः पुनः ॥ २५ ॥
1.16.25 · p. 366
अनुष्टुप्
स्युर्दृग्दंष्ट्राविषानागाः पुच्छलोममहाविषाः ।वृश्चिकाद्याः पुनर्लोमविषा व्याघ्रादयः पुनः ॥ २६ ॥
1.16.26 · p. 366
अनुष्टुप्
लालाविषाश्च लूताद्या त्रापा नखविषाः पुनः ।कालान्तराधिकविषा मूषकाद्यास्ततः परे ॥ २७ ॥
1.16.27 · p. 366
अनुष्टुप्
दूषीविषं कृत्रिमं स्यादवार्यमौषधं विना ।आशीराशिस्तालुदंष्ट्रा जिह्वयोरन्तरालगा ॥ २८ ॥
1.16.28 · p. 366
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र्य (wrong syllable)
कथाप्रसङ्गस्तु विषाद्वैद्यो गारुडिकश्च सः ।जाङ्गल्यथाहि तुण्डस्तु व्यालग्राह्याहितुण्डिकः ॥ २९ ॥
1.16.29 · p. 366
अनुष्टुप्
पुरी भोगवती चैषां भोगिन्यो नागकन्यकाः ।कल्पद्रौ केशवकृते फलिते नामसत्फलैः ॥ ३० ॥
1.16.30 · p. 367
अनुष्टुप्