कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

भुजंग

bhujaṃgaपुं · masc.

In 9 kośas: 10 synonym verses, 2 as a nānārtha head word, 12 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1304 · p. 50
जाहको गात्रसंकोची मण्डली नकुलः पुनः ।पिङ्गलः सर्पहा बभ्रुः सर्पोऽहिः पवनाशनः ॥ १३०२ ॥भोगी भुजंगभुजगावुरगो द्विजिह्वव्यालौ भुजंगमसरीसृपदीर्घजिह्वाः ।काकोदरो विषधरः फणभृत्पृदाकुर्दृक्कर्णकुण्डलिबिलेशयदन्दशूकाः ॥ १३०३ ॥दर्वीकरः कञ्चुकिचक्रिगूढपात्पन्नगा जिह्मगलेलिहानौ ।कुम्भीनसाशीविषदीर्घपृष्ठाः स्याद्राजसर्पस्तु भुजंगभोजी ॥ १३०४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सर्पादिप्रकाण्डः Kalpadrukośa 1.16.5 · p. 364
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पातालवर्गः Koṣakalpataru 3.1.25 · p. 304
सर्पः पृदाकुर्भुजगो भुजंगोभुजंगमाशीविष-गूढपादाः ।दर्वीकरः स्यादुरगश्च भोगीचक्षुःश्रवश्चक्रि-सरीसृपाश्च ॥ २५ ॥
उपजातिः
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.207 · p. 77
दर्वीकरो गूढपदो लेलिहानोऽपि कथ्यते ।भुजंगो भुजगो भोगो दीर्घपृष्ठोऽपि कञ्चुकी ॥ २०७ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.26 · p. 104
भृत्यो गोप्यो नियोग्यश्च दासे डिङ्गरकिंकरौ ।चेटः प्रेष्यभुजंगौ च परिस्कन्दपरैधितौ ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.186 · p. 124
जारे तूपपतिः पुंसि भुजंगो गणिकापतिः ।सुदायो यौतकं तत्तु हरणं च विभाव्यताम् ॥ १८६ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.145 · p. 16
तैलपर्णिकमेवेदं गोशीर्षं हरिचन्दनम् ।सर्पो भुजंगो भुजगः पन्नगोऽहिर्भुजंगमः ॥ १४५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.298 · p. 40
सर्पः पृदाकुभुजगाहिभुजंगभोगि-कुम्भीनसोरगभुजंगमगूढपादाः ।व्यालद्विजिह्वफणिजिह्मगदन्तशूक-काकोदराण्डजसरीसृपकाद्रवेयाः ॥ २९८ ॥
वसन्ततिलका
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1047 · p. 130
आशीःस्वस्त्ययनाभिज्ञा वृद्धवेश्या महत्तरी ।भुजंगः पल्लवो धूर्तो विटः षिद्गः समा इमे ॥ १०४७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश सरीसृपाध्यायः Vaijayantī 4.1.5 · p. 148
उरगो भुजगो जिह्मो भुजंगोऽहिर्भुजंगमः ।फुल्लरीको लेलिहानः कुण्डल्याशीविषः फणी ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास गपादः Dharaṇikośa 3.1.4 · p. 21
मृदङ्गो घोषके वाद्ये प्रियङ्गुः कङ्गुवृक्षयोः ।भुजंगौ षिङ्गभुजगौ मातंगौ श्वपचद्विपौ ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ गान्ताः Koṣakalpataru 6.3.20 · p. 167
षिङ्गे भुजंगो भुजगे मृदङ्गोघोषे तथाचानकवाचकोऽपि ।सङ्गे च तूणे च निषङ्ग उक्तोवेल्ले विडङ्गं त्रिषु नागरे स्यात् ॥ २० ॥
इन्द्रवज्रा

भुजंग as a meaning in nānārtha verses