कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

नदीकान्त

nadīkāntaपुं · masc.

In 7 kośas: 3 synonym verses, 5 as a nānārtha head word.

कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.374 · p. 291
हिङ्गुलस्तु नदीकान्तो जलजो दीर्घपत्रकः ।नदीजो निचुलो रक्तः कामुकश्चाथ चण्डिका ॥ ३७४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.97 · p. 175
स्यान्नदीकामुको रक्तमञ्जरिर्निम्नहूस्तथा ।जलजस्तु नदीकान्तस्तोयजातः प्रतीफल(?) ॥ ९७ ॥
अनुष्टुप्
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.128 · p. 71
कुब्जके कामुकः श्यामसारः फुल्लो निमिद्रुमः ।निचुले तु नदीकान्तोऽम्बुजो हिज्जल इज्जलः ॥ १२८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ चतुरक्षरतान्ताः । Koṣakalpataru 6.17.64 · p. 227
सिन्धौ च सिन्दुवारे हिज्जल उक्तो नदीकान्तः ।स्त्री जम्बुकाकजङ्घावल्लीमात्रेषु निर्दिष्टः ॥ ६४ ॥
metre not recognised
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नकारादयः Paramānandīyanāmamālā 5.18.278 · p. 197
नारायणो हरौ तालभेदे नारायणी श्रियाम् ।नदीकान्तोऽम्बुधौ वृक्षविशेषेऽपि निबध्यते ॥ २७८ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र तच Śivakoṣa 12.3.203 · p. 19
नदीकान्तः पुमान् सिन्दुवारके हिज्जलेऽपि च ।नदीकान्ता काकमाचीजम्बूभिद्वायसीषु च ॥ २०३ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.163 · p. 224
दिवाभीत उलूके स्यात्कुम्भिले कुमुदाकरे ।दिवाकीर्तिः पुमानेव नापितान्तावसायिनोः ॥द्वीपवती भूमिनदयोः पुंसि सिन्धौ नदेऽपि च ।स्याद्धूमकेतुर्ज्वलेने तथा चोत्पातशेषके ॥नन्द्यावर्त्तश्च नगरे गृहभेदे च पुंस्ययम् ।नदीकान्तः सिन्धुवारे हिज्जले च सरित्पतौ ॥
metre not recognisednearly अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.162 · p. 147
अस्वाध्याये कुरूपे च प्रत्युक्तौ स्त्री निराकृतिः ।जम्ब्वां स्त्री ना नदीकान्तः सिन्धुवारे जलाब्धिषु ॥ १६२ ॥
अनुष्टुप्