फुल्ल
phullaवि · adj.In 17 kośas: 18 synonym verses, 2 as a nānārtha head word, 9 as a meaning of another word.
प्रबुद्धोज्जृम्भफुल्लानि व्याकोशं विकचं स्मितम् ॥ ११२७ ॥उन्मिषितं विकसितं दलितं स्फुटितं स्फुटम् ।प्रफुल्लोत्फुल्लसंफुल्लोच्छ्वसितानि विजृम्भितस् ॥ ११२८ ॥स्मेरं विनिद्रमुन्निद्रविमुद्रहसितानि च ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 षि (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 3 चि (wrong syllable)
genderविadj.
प्रफुल्लोत्फुल्लसंफुल्लव्याकोशविकचस्फुटाः ॥ ७ ॥फुल्लश्चैते विकसिते स्युरवन्ध्यादयस्त्रिषु ।
अनुष्टुप्
genderविadj.
बीभत्सो विकृतं चित्रं त्वाश्चर्यं फुल्लमद्भुतम् ।भयानकं प्रतिभयं भीमं भीष्मं च भीषणम् ॥ १२९ ॥
अनुष्टुप्
genderविadj.
प्रसवे च सुमं सूनं कुद्मलो मुकुलोऽस्त्रियाम् ।स्फुटः स्मेरो विकसितः स्मितः फुल्लो विजृम्भितः ॥ ३३ ॥
अनुष्टुप्
genderविadj.
फुल्ल-प्रफुल्ल-संफुल्ल-प्र[20a]फुल्लोत्फुल्ल-जृम्भिताः ।प्रबुद्धोन्मीलितो जृम्भ-व्योकोच-विकच-स्फुटाः ॥ १९ ॥
अनुष्टुप्metre not read in every line
genderविadj.
कुब्जके कामुकः श्यामसारः फुल्लो निमिद्रुमः ।निचुले तु नदीकान्तोऽम्बुजो हिज्जल इज्जलः ॥ १२८ ॥
अनुष्टुप्
genderपुंmasc.
पुष्पं सुमनसः फुल्लं लतान्तं प्रसवोद्गमौ ।प्रसूनं कुसुमं ज्ञेयम् तदाद्यस्त्रशरः स्मरः ॥ ८० ॥
अनुष्टुप्
genderक्लीneut.
मरन्दमकरन्दौ तु मधु प्रसवबन्धने ।वृन्तं च विकचं फुल्लं स्मितं व्याकोशमित्यपि ॥ ३९ ॥
अनुष्टुप्
genderविadj.
नवं तत्स्यात्किसलयं प्रवालः पल्लवो नवः ।फुल्लं विकसितं स्मेरं प्रबुद्धं विकचं स्मृतम् ॥ १३७ ॥
अनुष्टुप्
genderविadj.
उन्मिषतं तथोज्जृम्भं प्रबुद्धञ्च विजृम्भितम् ।संफुल्लं फुल्लमुत्फुल्लं प्रफुल्लं दलितं पुनः ॥ १९८३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ष (wrong syllable)
genderविadj.
फुल्ल उत्फुल्लसंफुल्लप्रफुल्लप्रस्फुटस्फुटाः ।व्याकोशविकचस्मेर-प्रकाशोन्मुद्रसंस्फुटाः ॥
अनुष्टुप्
genderविadj.
प्रसूतकं प्रसूतं च प्रफुल्लं फुल्लवत् सुमम् ।कुसुमं कलिकायां तु कलिः स्यात्कोर-कौरकौ ॥ १३३ ॥
अनुष्टुप्
genderक्लीneut.
प्रबुद्धे प्रफुल्ल-फुल्ले संफुल्लोत्फुल्लके स्फुटम् ।स्फटितं स्व्याकोशं च व्याकोषं स्यात् फले पुनः ॥ १३८ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 प्र (wrong syllable); pāda 3, syllable 4 स्व्या (syllables merged)
genderविadj.
उत्फूल्लफुल्लसंफुल्लप्रफुल्लविकचस्फुटाः ।व्याकोचोन्मिषितोन्निद्रोद्बुद्धा वन्ध्यादयस्त्रिषु ॥ ४४१ ॥
अनुष्टुप्
genderविadj.
छायातरुः स्थिरच्छायो वन्दा काकरुहा स्मृताः ।वनस्पतिर्निर्लुटः स्यात्फुल्लोन्निद्रविकस्वराः ॥ ३ ॥
अनुष्टुप्
genderविadj.
फुल्ले प्रफुल्लसम्फुल्लव्याकोचविकचस्फुटाः ।उत्फुल्लोन्मिषितोन्निद्रा उद्बुद्धोन्मीलितस्मिताः ॥ ९ ॥
अनुष्टुप्
genderविadj.
बीभत्सो विकृतश्चित्रं त्वाश्चर्यं फुल्लमद्भुतम् ।भयानकं प्रतिभयं भीमं भीष्मं भयंकरम् ॥ ७८ ॥
अनुष्टुप्
genderविadj.
निर्विषा द्वादशेत्येवमशीतिः सर्पजातयः ।दर्वीकरा महासर्पः फुल्लः पुष्पाभिकीर्णकः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
निष्पत्तौ शरणेऽथ क्ली तक्कोले च फलस्य तु ।विकारादौ त्रि फुल्लं तु त्रये विकसने त्रि तु ॥ ८३१ ॥
अनुष्टुप्
meaningsविकसन
आश्चर्ये स्याद्विकसितेऽप्यथो विशरणे नपि ।निष्पत्तौ चाथ शण्डे स्यात् पुंसि चत्यपरे विदुः ॥ ८३२ ॥
अनुष्टुप्
doubtful
फुल्ल as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप बुद्धज्ञातरि ज्ञायमाने च फुल्ले च क्ली तु बोधने । विद्वद्बोद्ध्रोस्त्रिषु बुधो ना तु चान्द्रमसायनौ ॥ ८६६ ॥ Nānārthārṇavasaṃkṣepa 2.5.866
- नानार्थार्णवसंक्षेप स्मितस्मितं तु त्रिषु फुल्ले स्यात् स्मितवत्यपि नप् पुनः । अदृष्टदशने हासे विकासे कुसुमस्य च ॥ १५१४ ॥ Nānārthārṇavasaṃkṣepa 2.5.1514
- नानार्थार्णवसंक्षेप उन्निद्रउज्झकस्त्वपि निःस्नेहे स्यादुज्झितरि च स्मृतः । उन्निद्रस्तु भवेत् फुल्ले निद्रया हीन एव च ॥ १८ ॥ Nānārthārṇavasaṃkṣepa 3.4.18
- नानार्थार्णवसंक्षेप उद्बुद्धउद्बुद्धस्तु भवेत् फुल्ले प्रवृद्धे च प्रकीर्तितः । एकाग्रमग्रे यस्यैकं तत्र तत्पर एव च ॥ १९ ॥ Nānārthārṇavasaṃkṣepa 3.4.19
- नानार्थार्णवसंक्षेप हसितदृष्टदन्ते त्रिषु त्वेतत् फुल्लेऽत्रहसितेऽपि च । तथा हसितवत्येष हवनं तु नपुंसकम् ॥ २०२७ ॥ Nānārthārṇavasaṃkṣepa 4.2027
- नानार्थार्णवसंक्षेप उन्मीलितउन्मीलितं त्रि स्यात् फुल्ले सोन्मेषे चापि नप् पुनः । उन्मीलनेऽथोन्मिषितं त्रिः सोन्मेषे च फुल्लिते ॥ ११३ ॥ Nānārthārṇavasaṃkṣepa 6.113
- शब्दरत्नावली भिन्नपानं पीतौ भोजने च रक्षणे च नपुंसकम् । भानुर्ना भास्करे रश्मौ भानुमत्यामपि स्त्रियाम् ॥ भिन्नस्तु सङ्गतेऽन्यस्मिन् फुल्ले च दारिते त्रिषु । मानं क्लीबे प्रमाणादौ मानश्चित्तोन्नतौ ग्रहे ॥ Śabdaratnāvalī 7.20.14
- तन्त्राभिधान फवामपार्श्वोऽथ वैकुण्ठः शिवोऽनलस्त्रिपत्रकः । कान्तोरगौ सरित् फुल्लः फट्कारः फा-र्णको मतः ॥ ३९ ॥ Tantrābhidhāna 6.39
- वैजयन्ती स्फुटसन्नमल्पे विशीर्णादौ स्वादुर्मधुरमृष्टयोः । स्फुटाः स्पष्टव्याप्तफुल्लाः स्थूलौ तु जडपीवरौ ॥ १९ ॥ Vaijayantī 6.4.19