कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सरित्पति

saritpatiपुं · masc.

In 8 kośas: 6 synonym verses, 3 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वारिवर्गः Amarakośa 1.10.2
समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः ।उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः ॥ १ ॥रत्नाकरो जलनिधिर्यादःपतिरपाम्पतिः ।तस्य प्रभेदाः क्षीरोदो लवणोदस्तथापरे ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.652 · p. 74
रत्नाकरः सरस्वानुदधिरुदन्वान्सरित्पतिरकूपारः ।पारावारस्तोयनिधिरर्णवजलराशिसागरसमुद्राः ॥ ६५२ ॥
metre not recognised
genderपुंmasc.
अभिधानशब्दः प्रत्येकमभिसम्बध्यते । संवत्सराभिधायिनां शब्दानां संवत्सरपर्यायाणां च । गिर्यादिपर्यायाणां च । पुंयोगः स्यादित्यर्थः । तद्यथा अयं संवत्सरः हायनोऽब्द इत्यादि । अयं गिरिः पर्वतः धरः शैल इत्यादि । मासाभिधायिनाम् । अयं मासः द्विपक्षः । मासविशेषोऽपि अयं चैत्रः वैशाखः ज्येष्ठः आषाढ इत्यादि । अर्णववाचिनाम् । अयमर्णवः समुद्रः सागरः पारावारः सरित्पतिरित्यादि । अयमृतुः वसन्तः ग्रीष्मः ।देववाचिनाम् । देवः सुरः । असुरवाचिनाम् । असुरः दैत्यः । शराभिधायिनाम् । शरः काण्डः । अयमसिः खड्गः मण्डलाग्रः । अयं पङ्कः कर्दमः जम्बालः । अयमरिः शत्रुः वैरी रिपुः विपक्ष इत्यादि ।भाष्कच्छुकशारज्ज्विष्टकाश्च नित्यं स्त्रि[स्त्री]यामीषिका च ।विद्युद्दिग्भूम्यभिधानं वल्ली सरितां च विज्ञेयम् ॥ ३१ ॥
metre not recognised
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण समुद्राधिकारश्चतुर्थस्सर्गः Śabdacandrikā 4.2 · p. 40
दिलीपः पारवारश्च पारावारः सरित्पतिः ।सव्यापसव्यगमनः परिधिस्तु महास्वनः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.34 · p. 39
नदीन इन्दुजनकस्तिमिकोषः सरित्पतिः ।वारांनिधिर्वारिनिधिर्वार्ब्धिर्वारिधिरित्यपि ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश जलाध्यायः Vaijayantī 4.2.12 · p. 155
सरित्पतिरकूपारः पारावारोऽब्धिरर्णवः ।मितद्रुः संवरः पेरुः स्तंभी स्तंभिर्महोदधिः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.

सरित्पति as a meaning in nānārtha verses

  • नानार्थार्णवसंक्षेप नभस्नरेन्द्रस्तु नृपे मन्त्रवादिन्याह तु यादवः । विषवैद्येऽथ नभस ऋतौ व्योम्नि सरित्पतौ ॥ १०० ॥ Nānārthārṇavasaṃkṣepa 3.2.100
  • शब्दरत्नावली नदीकान्तदिवाभीत उलूके स्यात्कुम्भिले कुमुदाकरे । दिवाकीर्तिः पुमानेव नापितान्तावसायिनोः ॥ द्वीपवती भूमिनदयोः पुंसि सिन्धौ नदेऽपि च । स्याद्धूमकेतुर्ज्वलेने तथा चोत्पातशेषके ॥ नन्द्यावर्त्तश्च नगरे गृहभेदे च पुंस्ययम् । नदीकान्तः सिन्धुवारे हिज्जले च सरित्पतौ ॥ Śabdaratnāvalī 7.16.163
  • शब्दरत्नाकर मकरध्वजगृध्रेऽपि प्रेतनिलयः श्मशाने वृषभध्वजे । मातुलपुत्रस्तून्मत्तफले मातुलनन्दने । पञ्चबाणे च सरितां पत्यौ च मकरध्वजः ॥ २२३७ ॥ Śabdaratnākara 4.1.2237