कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अब्धि

abdhiपुं · masc.

In 13 kośas: 11 synonym verses, 3 as a nānārtha head word, 22 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वारिवर्गः Amarakośa 1.10.2
समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः ।उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः ॥ १ ॥रत्नाकरो जलनिधिर्यादःपतिरपाम्पतिः ।तस्य प्रभेदाः क्षीरोदो लवणोदस्तथापरे ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर नवमोपदेशः Bālaprabodhikā 9.168 · p. 81
सव्यापसव्यगमनः कृष्णः कोलाहलस्वनः ।कलशाम्बुधिमन्थाब्धिरब्धिरिक्षुरसाम्बुधिः ॥ १६८ ॥
अनुष्टुप्
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त एकाद्यङ्कानां सञ्ज्ञा Gaṇitanāmamālā 3.22 · p. 2
चतस्रश्चतुरो वेदा सागराब्धिकृताश्चतुः ।समुद्राम्भोनिधियुगा श्रुतिनीररगीश्वराः ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.107 · p. 17
कन्या कालविका स्वल्पवाहिनी कृत्रिमा सरित् ।समुद्रोब्धिरकूपारः सिन्धुः सागरसम्भवः ॥ १०७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.92 · p. 291
एकादशादयस्त्रय्यां पङ्क्तिस्तु दशवाचिका ।आब्धिभूतरसादीनां ज्ञेयाः संख्या हि लोकतः ॥ ९२ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 25 · p. 12
तत्पतिश्च भवत्यब्धिः पारावारोऽमृतोद्भवः ।अपारवारकूपारौ रत्नमीनाऽभिधाऽकरः ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.113 · p. 13
यादःपतिर्जलनिधिरुदन्वानब्धिरर्णवः ।रत्नाकरो मितद्रुश्च पारावारो नदीश्वरः ॥ ११३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.33 · p. 39
अब्धिर्जलनिधिर्नीरनिधि[र्जलधि]रम्बुधिः ।पाथोनिधिरकूपारः पाथोधिर्यादसांपतिः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.315 · p. 42
अर्णव उदधिरुदन्वानब्धिरकूपार आपगानाथः ।वरुणालयमकरालयवाराकरसिन्धुसागरसमुद्राः ॥ ३१५ ॥
गीतिःmetre not read in every line
genderपुंmasc.
स्तम्बे गुच्छ इति प्रोक्तो वेणी नद्यां प्रकीर्तिता ।अब्धिस्तटाके कथितस्त्रिका स्याद्दीर्घिका मता ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश जलाध्यायः Vaijayantī 4.2.12 · p. 155
सरित्पतिरकूपारः पारावारोऽब्धिरर्णवः ।मितद्रुः संवरः पेरुः स्तंभी स्तंभिर्महोदधिः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धान्ताः Koṣakalpataru 6.20.60 · p. 240
अवस्थान्तरप्राप्तदुग्धे दधि स्या-च्छ्रियो वासवृक्षे तथावासवाचि ।समाध्यन्तरे बोधिरश्वत्थवृक्षेसमुद्रे पुनः स्यात्सरस्यां तथाब्धिः ॥ ६० ॥
भुजङ्गप्रयातम्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.5 · p. 43
जलमुस्तेऽटवेर्बिन्दोः सिध्मादौ देहवैकृते ।गणस्याब्धेश्च सङ्ख्यायां शिरसः शिखरे तरोः ॥ ५ ॥
अनुष्टुप्
meanings
doubtful
वैजयन्ती Vaijayantī · यादवप्रकाश पर्यायसंयोगन्यायप्रदर्शनाध्यायः Vaijayantī 8.6.13 · p. 282
गणस्याब्धेश्च संख्यायां बर्हिष्ठे मुस्तकेऽप्यपाम् ।मकरांबुजकूर्माणां निधिभेदेषु ते नरः ॥ १३ ॥
अनुष्टुप्
meanings
doubtful

अब्धि as a meaning in nānārtha verses